________________
४०२
आचाराङ्ग सूत्रम् २/१/४/२/४७२ सभिक्षुर्बहुसम्भूतफलानाम्रान्प्रेक्ष्यैवं वदेत्, तद्यथा-'असमर्था' अतिभारेणन शुक्नुवन्ति फलानि धारयितुमित्यर्थ, एतेन पक्वार्थ उक्तः, तथा 'बहुनिवर्तितफलाः' बहूनि निर्वतितानि फलानियेषुतेतथा, एतेन पाकखाद्यार्थ उक्तः, तथा 'बहुसम्भूताः' बहूनि संभूतानिपाकातिशयतो ग्रहण कालोचितानी फलानि येषु ते तथा, अनेन वेलोचितार्थ उक्तः, तथा 'भूतरूपाः' इति वा भूतानि रूपाण्यनववद्धास्थीनि कोमलफलरूपाणि येषु ते तथा, अनेन टालाद्यर्थ उपलक्षितः, एवंभूता एते आम्राः, आम्रग्रहणं प्रधानोपलक्षणम्, एवं भूतामनवद्यां भाषां भाषेतेति ।। किञ्च
स भिक्षुर्बहुसम्भूता ओषधी:क्ष्य तथाऽप्येता नैतद्वदेत्, तद्यथा-पक्वा नीला आद्राः छविमत्यः ‘लाइमाः' लाजायोग्या रोपणयोग्या वा, तथा भज्जिमाओ'त्तिपचनयोग्या भञ्जनयोग्या वा 'बहुखज्जा' बहुभक्ष्याः पृथुक्करणयोग्या वेति, एवंप्रकारां सावद्यां भाषां नो भाषेत ॥ यथा च भाषेत तदाह- स भिक्षुर्बहुसंभूता ओषधीः प्रेक्ष्यैतद् ब्रूयात्, तद्यथा-रूढा इत्यादिकामसावधां भाषा भाषेत ॥ किञ्च
मू. (४७३) से भिक्खू वा० तहप्पगाराई सद्दाइंसुणिज्जा तहावि एयाइं नो एवं वइज्जा, तंजहा-सुसद्देत्ति वा दुसद्देत्ति वा, एयप्पगारं भासं सावजं नो भासिज्जा ।
सेभि० तहाविताइएवं वइजा, तंजहा-सुसइंसुसद्दित्ति वा दुसइंदुसद्दित्ति वा, एयप्पगारं असावजंजाव भासिज्जा, एवं स्वाइं किण्हेत्ति वा ५ गंधाइंसुरभगंधित्ति वा २ रसाइं तित्ताणिवा ५ फासाइं कक्खडाणि वा ८॥
वृ.सभिक्षुर्यद्यप्येतान् शब्दान्श्रृणुयात्तथाऽपि नैवंवदेत्, तद्यथा-शोभनःशब्दोऽशोभनो वा माङ्गलिकोऽमाङ्गलिको वा, इत्ययं न व्याहर्त्तव्यः॥
विपरीतंत्वाह-यथाऽवस्थितशब्दप्रज्ञापनाविषये एतद्वदेत्, तद्यथा-'सुसतिशोभनशब्दं शोभनमेव ब्रूयाद्, अशोभनं त्वशोभनमिति ॥ एवं रूपादिसूत्रमिप नेयम् । किञ्च
मू. (४७४) से भिक्खू वा० वंता कोहं च माणं च मायं च लोभं च अणुवीइ निट्ठाभासी निसम्मभासी अतुरियभासी विवेगभासी समियाए संजए भासं भासिज्जा ५ ॥ एवं खलु. सया जइ तिबेमि ॥
वृ. स भिक्षुक्रोधादिकंवान्त्वैवंभूतो भवेत्, तद्यथा-अनुविचिन्त्य निष्ठाभाषी निशम्यभाषी अत्वरितभाषी विवेकभाषी भाषासमित्युपेतो भाषां भाषेत एतत्तस्य भिक्षोः सामग्यम् ।।
चूडा-१ अध्ययनं- ४ उद्देशकः -२ समाप्तः
__ अध्ययनं-४ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता-शीलाझाचार्यविरचिता द्वितीय श्रुतस्कन्धस्य चतुर्य अध्ययन टीका परिसमाप्त
(अध्ययनं-५ वस्त्रैषणा।) वृ. चतुर्थाध्ययनानन्तरं पञ्चमभारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने भाषासमिति प्रतिपादिता, तदनन्तरमेषणासमितिर्भवतीति सा वस्त्रगता प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि उपक्रमादीनि भवन्ति, तत्रोपक्रमान्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org