________________
आचाराङ्ग सूत्रम् २/१/४/१/४६७ दण्डचक्रादिनेव घटस्येति, सा वोच्चरितप्रध्वंसित्वाच्छब्दानां भाषणोत्तरकालमप्य भाषैव, यथा कपालावस्थायां घटोऽघट इति, तदनेन प्रागभावप्रध्वंसाभावी शब्दस्यावेदिताविति । इदानीं चतसृणां भाषाणामभाषणीयामाह
स भिक्षुर्यां पुनरेवं जानीयात्, तद्यथा-सत्यां १ मृषां २ सत्यामृषाम् ३ असत्यामृषां ४, तत्र मृषा सत्यामृषा च साधूनां तावन्न वाच्या, सत्याऽपि या कर्कशादिगुणोपेता सा न वाच्या, तां च दर्शयति-सहावद्येन वर्त्तत इति सावद्या तां सत्यामपि न भाषेत, तथा सह क्रिययाअनर्थदण्डप्रवृत्तिलक्षणया वर्त्तत इति सक्रियातामिति तथा 'कर्कशां' चर्विताक्षरां तथा 'कटुकां' चित्तोद्वेगकारिणीं तथा 'निष्ठुरां' हक्काप्रधानां 'परुषां' मर्मोद्घाटनपराम् 'अण्हयकरि 'न्ति कर्माश्रवकरीम्, एवं छेदनमेदनकरीं यावदपद्रावणकरीमित्येवमादिकां 'भूतोपघातिनीं' प्राण्युपतापकारिणीम् 'अभिकाङ्क्षय' मनसा पर्यालोच्य सत्यापि न भाषेतेति । भाषणीयां त्वाहस भिक्षुर्या पुनरेवं जानीयात्, तद्यथा- याच भाषा सत्या 'सूक्ष्मे 'ति कुशाग्रीयया बुद्धया पर्यालोच्यमाना मृषाऽपि सत्या भवति यथा सत्यपि मृगदर्शने लुब्धकादेरपलाप इति, उक्तञ्च । “अलिअं न भासिअव्वं अत्थि हु सञ्चंपि जं न वत्तव्वं ।
119 11
सञ्चपि होइ अलिअं जं परपीडाकरं वयणं
३९८
या चासत्यामृषा-आमन्त्रण्याज्ञापनादिका तां तथाप्रकारां भाषामसावद्यामक्रियां यावदभूतोपधातिनीं मनसा पूर्वम्, 'अभिकाङ्क्षय' पर्यालोच्य सर्वदा साधुर्भाषां भाषेतेति । किञ्चमू. (४६८) से भिक्खू वा पुमं आमंतेमाणे आमंतिए वा अपडिसुणेमाणे नो एवं वइज्जाहोलित्ति वा गोलित्ति वा वसुलेत्ति वा कुपक्वेत्ति वा घडदासित्ति वा साणेत्ति वा तेणित्ति वा चारिएत्ति वा माईत्ति वा मुसावाइत्ति वा, एयाइं तुमं ते जणगा वा, एअप्पगारं भासं सावज्जं सकिरियं जाव भूओवघाइयं अभिकं खनो भासिज्जा ।।
सेभिक्खु वा० पुमं आमंतेमाणे आमंतिए वा अप्पडिसुणेमाणे एवं वइज्जा- अमुगे इवा आउसोत्ति वा आउसंतारोत्ति वा सावगेत्ति वा उवासगेत्ति वा धम्मिएत्ति वा धम्मपिएत्ति वा, एयप्पगारं मासं असावज्जं जाव अभिकंख भासिज्जा ।
से भिक्खु वा २ इत्थिं आमंतेमाणे आमंतिए य अप्पडिसुणेमाणे नो एवं वइज्जा-होली इ वा गोलीति वा इत्थीगमेणं नेयव्वं ।
से भिक्खू वा २ इत्थिं आमंतेमाणे आमंतिए य अप्पडिसुणेमाणी एवं वइज्जा आउसोत्ति वा भइणित्ति वा भोईति वा भगवईति वा साविगेति वा उवासिएत्ति वा धम्मिएत्ति वा धम्मप्पिएत्ति वा, एयप्पगारं भासं असावज्जं जाव अभिकंख भासिज्जा ॥
वृ. स भिक्षु पुमांसमामन्त्रयन्नामन्त्रितं वाऽश्रु ण्वन्तं नैवं भाषेत, तद्यथा-होल इति वा गोल इति वा, एती च देशान्तरेऽवज्ञासंसूचकौ, तथा 'वसुले' त्ति वृषलः 'कुपक्ष: ' कुत्सितान्वयः घटदास इति वा श्वेति वा स्तेन इति वा चारिक इति वा मायीति वा मृषावादीति वा, इत्येतानि - अनन्तरोक्तानि त्वमसि तव जनकौ वा मातापितरावेतानीति, एवंप्रकारां भाषां यावन्न भाषेतेति
एतद्विपर्ययेण च भाषितव्यमाह-स भिक्षु पुमांसमामन्त्रयन्नामन्त्रितं वाऽश्रृण्वन्तमेवं ब्रूयाद् यथाऽमुक इति वा आयुष्मन्नित्ति वा आयुष्मन्त इति वा तथा श्रावक धर्मप्रिय इति, एवमादिकां
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International