________________
श्रुतस्कन्धः - २, चूडा-१, अध्ययनं ४, उद्देशक:१
-
३९७
दर्शयति- 'तद्यथे'त्ययमुपप्रदर्शनार्थः, एकवचनं वृक्षः १, द्विचनं वृक्षी २, बहुर्वचनं वृक्षा इति ३, स्त्रीवचनं वीणा कन्या इत्यादि ४, पुंवचनं घटः पट इत्यादि ५, नपुंसकवचनं पीठं देवकुलमित्यादि ६, अध्यात्मवचनम्, आत्मन्यधि अध्यात्मं-हृदयगतं तत्परिहारेणान्यद्भणिष्यतस्तदेव सहसा पतितम् ७, 'उपनीतवचनं' प्रशंसावचनं यथा रूपवती स्त्री ८, तद्विपर्ययेणापनीतवचनं पथेयं रूपहीनेति ९, ‘उपनीतापनीतवचनं' कश्चिद् गुणः प्रशस्य कश्चिन्निन्द्यो, यथा-रूपवतीयं स्त्री किन्त्वसद्वद्वृत्तेति १०, ‘अपनीतोपनीतवचनम्' अरूपवती स्त्री किन्तु सद्वृ त्तेति ११, ‘अतीतवचनं’ कृतवान् १२ 'वर्त्तमानवचनं' करोति १३ 'अनागतवचनं' करिष्यति १४ 'प्रत्यक्षवचनम् ' एष देवदत्तः १५, 'परोक्षवचनं' स देवदत्तः १६, इत्येतानि षोडश वचनानि ।
अमीषां स भिक्षुरेकार्थविवक्षायामेकवचनमेव ब्रूयाद् यावत्परोक्षवचनविवक्षायां परोक्षवचनमेव ब्रूयादिति । तथा स्त्र्यादिके दृष्टे सति स्त्र्येवैषा पुरुषो वा नपुंसकं वा, एवमेवैतदन्यद्वैतत्, एवम् ‘अनुंविचिन्त्य' निश्चित्य निष्ठाभाषी सन् समित्या समतया संयत एव भाषां भाषेत, तथा 'इत्येतानि' पूर्वोक्तानि भाषागतानि वक्ष्यमाणानि वा 'आयतनानि' दोषस्थानानि ‘उपातिक्रम्य’ अतिलङ्घय भाषां भाषेत । अथ स भिक्षुर्जानीयात् 'चत्वारि भाषाजातानि चतस्रो भाषाः, तद्यथा-सत्यमेकं प्रथमं भाषाजातं यथार्थम् अवितथं, तद्यथागौगौरवाश्वोऽश्व एवेति १, एतद्विपरीता तु मृषा द्वितीया, यथा गौरश्वोऽश्वो गौरिति २, तृतीया भाषा सत्यामृषेति, यत्र किञ्चित्सत्यं किञ्चिन्मृषेति, यथाऽश्वेन यान्त देवदत्तमुष्छ्रेण यातीत्यमिदधाति ३, चतुर्थी तु भाषा योच्यमाना न सत्या नापि मृषा नापि सत्यामृषा आमन्त्रणाज्ञापनादिका साऽत्रासत्याऽमृषेति ४
स्वमनीषिकापरिहार्थमाहरासोऽहं यदेतद्ब्रवीमि तत्सर्वैरेव तीर्थकृद्भिरतीतानागतवर्त्तमानैर्भाषितं भाष्यते भाषिष्यते च, अपि चैतानि सर्वाण्यप्येतानि भाषाद्रव्याण्यचित्तानि च वर्णगन्धरसस्पर्शवन्ति चयोपचयिकानि विविधपरिणामधर्माणि भवन्तीति, एवमाख्यातं तीर्थकृद्भिरिति, अत्र च वर्णादिमत्त्वाविष्करणेन शब्दस्य मूर्त्तत्वमावेदितं, न ह्यमूर्त्तस्याकाशादेर्वर्णादयः संभवन्ति तथा चयोपचयधर्माणीत्यनेन तु शब्दस्यानित्यत्वमाविष्कृतं, विचित्रपरिणामत्वाच्छब्दद्रव्याणामिति ।। साम्प्रतं शब्दस्य कृतकत्वाविष्करणायाह
मू. (४६७) से भिक्खू वा० से जं पुण जाणिज्जा पुव्विं भासा अभासा भासिज्जमाणी भासा भासा भासासमयवीइक्कता च णं भासिया भासा अभासा ।।
से भिक्खू वा० से जं पुण जाणिज्जा जा य भासा सञ्चा १ जा य भासा मोसा २ जा य भासा सञ्चामोसा २ जा य भासा असञ्चाऽमोसा ४, तहप्पगारं भासं सावज्रं सकिरियं कक्कसं, कडुयं निडुरं फरुसं अण्हयकरिं छेयणकरिं भेयणकरिं परियावणकरिं उद्दवणकरं भूओवघाइयं अभिकंख नो भासिज्जा ॥
सेभिक्खू वा भिक्खुणी वा से जं पुण जाणिज्जा, जा य मासा सञ्चा सुहुमा जा य भासा असश्चामोसा तहप्पगारं भासं असावज्जं जाव अभूओवघाइयं अभिकंख भासं भासिज्जा ॥
वृ. स भिक्षुरेवंभूतं शब्दं जानीयात्, तद्यथा-भाषाद्रव्यवर्गणानां वाग्योगनिस्सरणात् 'पूर्वं' प्रागभाषा 'भाष्यमाणैव' वामयोगेन निसृज्यमानैव भाषा भाषाद्रव्याणि भाषा भवति, तदनेन ताल्वोष्ठादिव्यापारेण प्रागसतः शब्दस्य निष्पादनात्स्फटमेव कृतकत्वमावेदितं, मृत्पिण्डे
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International