SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ३९६ आचाराङ्ग सूत्रम् २/१/४/१/४६६ अणुवी निट्ठाभासी समियाए संजए भासं भासिज्जा, तंजहा- एगवयणं १ दुवयणं २ बहुव० ३ इत्थि० ४ पुरि० ५ नपुंसगवयणं ६ अज्झत्थव० ७ उवणीयवयणं ८ अवणीयवयणं ९ उवणीयअवणीयव० १० अवणीयउवणीयव० ११ तीयव० १२ पडुप्पन्नव०-१३ अणागयव० १४ पञ्चक्खवयणं १५ परुक्खव० १६, से एगवयणं वईस्सामीति एगवयणं वइज्जा जाव परुक्खवयणं वइस्सामीति परुक्खवयणं वइज्जा, इत्थी वेस पुरिसो वेस नपुंसगं वेस एयं वा चेयं अन्नं वा अणुवी निट्ठाभासी समियाए संजए भासं भासिज्जा, इश्चेयाइं आययणाई उवातिकम्म ।। अह भिक्खू जाणिज्जा चत्तारि भासज्जायाइं, तंजहा - सच्चमेगं पढमं भासज्जायं १ बीयं मोसं २ तईयं सच्चामोसं ३ जं नेव सच्चं नेव मोसं नेव सच्चामोसं असच्चामोसं नाम तं चउत्थं भासजायं ४ || से बेमि जे अईया जे य पडुप्पन्ना जे अणागया अरहंता भगवंतो सव्वे ते एयाणि चेव चत्तारि भासज्जा याइं भासिंसु वा भासंति वा भासिस्संति वा पत्रविंसुवा ३, सव्वाइं च णं एयाइं अचित्ताणि वण्णमंताणि गंधमंताणि रसमंताणि फासमंताणि चओवचइयाइं, विप्परिणामधम्माइं भवंतीति अक्खायाइं ।। वृ. स भावभिक्षु 'इमान्' इत्यन्तःकरणनिष्पन्नान्, इदमः प्रत्यक्षासन्नवाचित्वात्समनन्तरं वक्ष्यमाणान्, वाच्याचारावागाचाराः वाग्व्यापारास्तान् श्रुत्वा, तथा 'निशम्य' ज्ञात्वा भाषासमित्या भाषां भाषेतोत्तरेण सम्बन्ध इति । तवयाध्गूभूता भाषा न भाषितव्येति तत्तावद्दर्शयति । ‘इमान्’ वक्ष्यमाणान् ‘अनाचासन्' साधूनामभाषणयोग्यान् पूर्वसाधुभिरनाचीर्णपूर्वान् साधुर्जानीयात्, तद्यथा-ये केचन क्रोधाद्वा वाचं 'विउंजन्ति' विविधं व्यापारयन्ति-भाषन्ते यथोत्तमजातिरहं हीनस्त्वमित्यादि तथा मायया यथा ग्लानोऽहमपरसन्देशकं वा सावद्यकं केनचिदुपायेन कथयित्वा मिथ्यादुष्कृतं करोति सहसा ममैतदायातमिति तथा लोभेनाहमनेनोक्तेनातः किञ्चल्लप्स्य इति तथा कस्यचिद्दोषं जानानास्तद्दोषोद्घटनेन परुषं वदन्ति अजानाना वा, सर्वं चैतत्क्रोधादिवचनं सहावद्येन पापेन गर्घेण वा वर्त्तत इति सावद्यं तद्वर्जयेत् विवेकमादाय, विवेकिना भूत्वा सावद्यं वचनं वर्जनीयमित्यर्थ, तथा केनचित्सार्द्धंसाधुना जल्पता नैव सावधारणं वचो वक्तव्यं यथा -- 'ध्रुवमेतत्' निश्चितं वृष्टयादिकं भविष्यतीत्येवं जानीयाद् अध्रुवं वा जानीयादिति । तथा कथञ्चित्साधुं भिक्षार्थं प्रविष्टं ज्ञातिकुलं वा गतं चिरयन्तमुद्दिश्यापरे साधव एवं द्रवीरन् यथाभुमहे वयं स तत्राशनादिकं लब्धैव समागमिष्यति, यदिवा ध्रियते तदर्थं किञ्चित् नैवासी तस्माल्लब्धलाभः समागमिष्यति, एवं तत्रैव भुक्त्वाऽभुक्त्वा वा समागमिष्यतीति सावधारणं न वक्तव्यम्, अथ चैवंभूतां सावधारणां वाचं न ब्रूयाद् यथाऽऽगतः कश्चिद्राजादिर्नो वा समागतः तथाऽऽगच्छति न वा समागच्छति एवं समागमिष्यति न वेति, एवमत्र पत्तनमठादावपि भूतादिकालत्रयं योज्यं, यमर्थं सम्यग् न जानीयात्तदेवमेवैतदिति न ब्रूयादिति भावार्थ, सामान्येन सर्वत्रगः साधेरयमुपदेशो, यथा - ‘अनुविचिन्त्य’ विचार्य सम्यग्निश्चित्यातिशयेन श्रुतोपदेशेन वा प्रयोजने सति 'निष्ठाभाषी' सावधारणभाषी सन् 'समित्या' भाषासमित्या 'समतया वा' रागद्वेषाकरणलक्षणया षोडशवचनविधिज्ञो भाषां भाषेत । यादृग्भूता च भाषा भाषितव्या तां षोडशवचनविधिगतां For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy