________________
श्रुतस्कन्धः-१, अध्ययनं-१, उद्देशक:र
३७ वृ. 'एभिः' असंख्येयतयोपलभ्यमानैः पृथिवीशर्करादिभिन्नैः शरीरैस्तेशरीरिणःशरीरद्वारेण 'प्रत्यक्षंसाक्षात् 'प्ररूपिताः' ख्यापिता भवन्ति, शेषास्तु सूक्ष्मा आज्ञाग्राह्या एवद्रष्टव्याः, यतस्ते चक्षुस्पर्श नागच्छन्ति, स्पर्शशब्दो विषयार्थः ।। प्ररूपणाद्वारानन्तरं लक्षणद्वारमाहनि. [८४] उवओगजोग अन्झवसाणे मइसुयअचखुदंसे य।
अट्ठ विहोदयलेसा सन्नुस्सासे कसाया य॥ वृ. तत्र पृथिवीकायादीना स्त्यानर्धजया द्या च यावती चोपयोगशक्तिरव्यक्ता ज्ञानदर्शनरूपेत्येवमात्मक उपयोगोलक्षणं, तथायोगः-कायाख्यएक एव, औदारिकतन्मिश्रकार्मणा सको वृद्धयष्टिकल्पो जन्तोः सकर्मकस्यालम्बनाय व्याप्रियते, तथा अध्यवसायाः-सूक्ष्मा आत्मनःपरिणामविशेषाः,तेचलक्षणम्,अव्यक्तचैतन्यपुरुषमनःसमुद्भूतचिन्ताविशेषाइवानभिलक्ष्यास्तेऽभिगन्तव्याः, तथा साकारोपयोगान्तःपातिमतिश्रुताज्ञानसमन्विताः पृथिवीकायिक बौद्धव्याः,तथा स्पर्शनेन्द्रियेणाचक्षुर्दर्शनानुगताबोद्धव्याः, तथा ज्ञानावरणीयाद्यविधकर्मोदयभा जस्तावद्वन्धमाजश्व,तथालेश्या-अध्यवसायविशेषरूपाः कृष्णनीलकापोततेजस्यश्चतताभिर नुगताः, तथा दशविधसंज्ञानुगताः, ताश्च आहारादिकाः प्रागुक्ता एव, तथा सूक्ष्मोच्छा-सनिःश्वासानुगताः,
उक्तंच"पुढविकाइयाणंभंते! जीवाआणवन्तिवापाणवन्ति वाऊससन्तिवानीससंतिवा?, गोयमा! अविरहियं सतयंचेव आणवन्तिवापाणवन्ति वा ऊससन्तिवा नीससन्तिवा" कषाया अपि सूक्ष्माः क्रोधादयः । एवमेतानि जीवलक्षणान्युपयोगादीनि कषायपर्यवसानानि पृथिवीकायिकेषु सम्भवन्तीति, ततश्चैवंविधजीवलक्षणकलापसमनुगतत्वात् मनुष्यवत्सचित्त पृथिवीति । ननुच तदिदमसिद्धमसिद्धेनसाध्यते, तथाहि-नघुपयोगादीनि लक्षणानिपृथिवीकाये व्यक्तानि समुपलक्ष्यन्ते, सत्यमेतद्, अव्यक्तानि तु विद्यन्ते, यथा कस्यचित्पुंसः हृत्पूरकव्यः तिमिश्रमदिराति- पानपित्तोदयाकुलीकृतान्तःकरणविशेषस्याव्यक्ता चेतना, न चैतावत तस्याचिद्रूपता, एवम- त्राप्यव्यक्तचेतनासम्भवोऽभ्युपगन्तव्यः। ननु चात्रोच्छासादिकम व्यक्तचेतनालिङ्गमस्ति, न चेह तथाविधं किञ्चिच्चेतनालिङ्गमस्ति, नैतदेवम्, इहापि समानजातीयलतोद्भेदादिकमर्शोमांसाङकुरवच्चेतनाचिह्नमस्त्येव, अव्यक्तचेतनानां हि सम्भावितैकचेतनालिङ्गानां वनस्पतीनामिव चेतनाऽभ्युपगन्तव्येति, वनस्पतेश्च चैतन्यं विशिष्टर्तुपुष्पफलप्रदत्वेन स्पष्टं साधयिष्यतेच, ततोऽव्यक्तोपयोगादिलक्षणसद्भावात् सचिता पृथिवीति स्थितम् ।। ननु चारमलतादेः कठिनपुद्गलात्मिकायाः कथं चेतनत्वमित्यत आहनि. [८५] अट्ठी जहा सरीरंमि अणुगयं चेयणं खरं दिहूँ ।
एवं जीवाणुगयं पुढविसरीरं खरं होइ ।। वृ. यथाऽस्थि शरीरानुगतं सचेतनं खरं दृष्टम्, एवं जीवानुगतं पृथिवीशरीरमपीति ।। साम्प्रतं लक्षणद्वारानन्तरं परिमाणद्वारमाह - नि. [८६] जे बायरपज्जत्ता पयरस्स असंखभागमित्ताते।
सेसा तिन्निवि रासी वीसुंलोया असंखिजा॥ वृ. तत्रपृथिवीकायिकाश्चतुर्दा, तद्यथा-बादराः पर्याप्ताअपर्याप्ताश्चतथासूक्ष्माअपर्याप्ताः पर्याप्ताश्च, तत्रयेबादराः पर्याप्तकास्तेसंवर्तितलोकप्रतरासंख्येयभागमात्रवर्तिप्रदेशराशिप्रमाणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org