________________
३६
आचाराङ्ग सूत्रम् 9/19/२/- [नि.७८] प्रत्येकंप्रकर्षाप्रकर्षतयापरस्परानुवेधेन च बहवो भेदा वाच्याः॥पुनरपि पर्याप्तकादिभेदाभेदमाह नि. [७९] जे बायरे विहाणा पज्जत्ता तत्तिआ अपज्जत्ता।
सुहमावि हुंति दुविहा पन्जता चेव अपज्जत्ता। वृ. यानि बादरपृथिवीकाये 'विधानानि' भेदाः प्रतिपादितास्तानि यावन्ति पर्याप्तकानां तावन्त्ये- वापर्याप्तकानामपि, अत्र च भेदानां तुल्यत्वं द्रष्टव्यं न तु जीवानां, यत एकपर्याप्तकाश्रयेणासंख्येयाअपर्याप्तका भवन्ति। सूक्ष्मा अपि पर्याप्तकापर्याप्तकभेदेन द्विधाएव, किन्तुअपर्याप्तकनिश्रया पर्याप्तकाः समुत्पद्यन्ते, यत्र चैकोऽपर्याप्तकस्तत्र नियमादसंख्येयाः पर्याप्तकाः स्युः । पर्याप्तिस्तु ॥१॥ 'आहारसरीरिन्दियऊसासवओमणोऽहिनिव्वत्ती।
होति जतो दलियाओ करणं पइसा उ पज्जत्ती॥" जन्तुरुत्पद्यमानः पुद्गलोपादानेन करणं निवर्तयति तेन च करणविशेषेणाहारमवगृह्य पृथग् खलरसादिभावेन परिणतिं नयति स तावरणविशेष आहारपर्याप्तिशब्देनोच्यते, एवं शेषपर्याप्तयोऽपिवाच्याः, तत्रैकेन्द्रियाणामाहारशरीरेन्द्रियोच्छावसाभिधानाश्चतम्रो भवन्ति, एताश्चान्तर्मुहूर्तेनजन्तुरादत्ते, अनाप्तपर्याप्तिरपर्याप्तकोऽवाप्तपर्याप्तिस्तुपर्याप्तक इति, अत्रचपृथिव्येव कायो येषामिति विग्रहः ॥ यथा सूक्ष्मबादरादयो भेदाः सिद्धयन्ति तथा प्रसिद्धभेदेनोदाहरणेन दर्शयितुमाहनि. [८०] रुक्खाणं गुच्छाणं गुम्माण लयाण वल्लिवलयाणं ।
जह दीसइनाणत्तं पुढवीकाए तहा जाण ॥ वृ. यथा वनस्पतेर्वृक्षादिभेदेन स्पष्टं नानात्वमुपलभ्यते, तथापृथिवीकायिकेऽपि जानीहि, तत्र वृक्षाः-चूतादयो गुच्छावृन्ताकीसल्लकीकपास्यादयः, गुल्मानि-नवमालिकाकोरण्टकादीनि, लताः-पुत्रागाशोकलताद्याः, वल्लयः-त्रपुषीवालुङ्कीकोशातक्याद्याः, वलयानि-केतकीकदल्यादीनि ॥ पुनरपि वनस्पतिभेदद्दष्टान्तेन पृथिव्या भेदमाह - नि. [८१] ओसहि तण सेवाले पणगविहाणेय कंद मूले य।
जहदीसइ नाणत्तं पुढवीकाएतहा जाण ॥ वृ. यथा हि वनस्पतिकायस्यओषध्यादिको भेद एवंपृथिव्याअपिद्रष्टव्यः, तत्रओषध्यःशाल्याद्याः, तृणानि-दर्भादीनि, सेवालं-जलोपरिमलरूपं,पनकः-काष्ठादावुल्लीविशेषः पञ्चवर्णः, कन्दः-सूरणकन्दादिः, मूलम् उशीरादीति॥एतेचसूक्ष्मत्वानैकद्वयादिकाःसमुपलभ्यन्ते, यत्संख्यास्तूपलम्मयन्ते तद्दशयितुमाह - नि. [८२] इक्कस्स दुण्ह तिण्ह व संखिजाणवन पासिउं सक्का।
दीसंति सरीराइं पुढविजियाणं असंखाणं ।। वृ. स्पष्टा ।।कथंपुनरिदमवगन्तव्ययम्?, सन्तिपृथिवीकायिका इति, उच्यते, तदधिष्ठितशरीरोपलब्धेः अधिष्ठातरि प्रतीतिर्गवाश्वादाविव इति, एतद्दर्शयितुमाह - नि. [८३] एएहि सरीरे हिं पञ्चक्खं ते परूविया हुंति ।
सेसा आणागिज्झा चक्खुफासंन जंइंति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org