________________
श्रुतस्कन्धः - २, चूडा-१, अध्ययनं - ३, उद्देशक’१
-: चूडा-१ अध्ययनं ३ : उद्देशक- १ :
मू. (४४५) अब्भुवगए खलु वासावासे अभिपवुट्टे बहवे पाणा अभिसंभूया बहवे बीया अहुणाभिन्ना अंतरा से मग्गा बहुपाणा बहुबीया जाव ससंताणगा अनभिक्कंता पंथा नो विन्नाया मग्गा सेवं नञ्चा नो गामाणुगामं दूइज्जिज्जा, तओ संजयामेव वासावासं उवल्लिइज्जा ।।
वृ. आभिमुख्येनोपगतासु वर्षासु अभिप्रवृष्टे च पयोमुचि, अत्र वर्षाकालवृष्टिभ्यां चत्वारो भङ्गाः, तत्र साधूनां सामाचार्येवैषा, यदुत निर्याघातेनाप्राप्त एवाषाढचतुर्मासके तृणफलकडगलकभस्ममात्रकादिपरिग्रहः, किमिति ?, यतो जातायां वृष्टौ बहवः ‘प्राणिनः ' इन्द्रगोपकबीयावकगर्दभकादयः ‘अभिसंभूताः ' प्रादुर्भूताः, तथा बहूनि 'बीजानि' अभिनवाङ्कुरितानि ।
३८५
अन्तराले च मार्गास्तस्य साधोर्गच्छतो बहुप्राणिनो बहुबीजा यावत्ससन्तानका अनभिक्रान्ताश्च पन्थानः, अत एव तृणाकुलत्वान्न विज्ञाताः मार्गा, स- साधुरेवं ज्ञात्वा न ग्रामाद्ग्रामान्तरं यायात्, ततः संयत एव वर्षासु यथाऽवसरप्राप्तायां वसतावुपलीयेत-वर्षाकालं कुर्यादिति । एतदपवादार्थमाह
मू. (४४६ ) से भिक्खू० सेज्जं गामं वा जाव रायहाणिं वा इमंसि खलु गामंसि वा जाव राय० नो महई विहारभूमि नो महई वियार भूमी नो सुलभे गामं वा जाव रायहाणिं वा इमंसि खलु गामंसि वा जाव राय० नो महई विहारभूमी नो महई वियारभूमी नो सुलभे पीढफलगसिज्जासंथारगे नो सुलभे फासुए उंछे अहेसणिजे जत्थ बहवे समण० वणीमगा उवागया उवागमिस्संति य अच्चाइन्ना वित्ती नो पन्नस्स निक्खमणे जाव चिंताए, सेवं नञ्चा तहप्पगारं गामं वा नगरं वा जाव रायहाणि वा नो वासावासं उवल्लिइज्जा ।
से भि० से जं० गामं वा जाव राय० इमंसि खलु गामंसि वा जाव महई विहारभूमी महई वियार० सुलभे जत्थ पीढ ४ सुलभे फा० नो जत्थ बहवे समण उवागमिस्संति वा अप्पाइन्ना वित्ती जाव रायहाणिं वा तओ संजयामेव वासावासं उवलिइज्जा ।।
वृ. स भिक्षुर्यत्पुनरेवं राजधान्यादिकं जानीयात्, तद्यथा-अस्मिन् ग्रामे यावद् राजधान्यां वा न विद्यते महती 'विहारभूमि' स्वाध्यायभूमि, तथा 'विचारभूमि' बहिर्गमनभूमि, तथा नैवात्र सुलभानि पीठफलहकशय्यासंस्तारकादीनि, तथा न सुलभः प्रासुकः पिण्डपातः, 'उंछे' त्ति एषणीयः, एतदेव दर्शयति
‘अहेसणीज्जे’त्ति यथाऽसावुद्रमादिदोषरहित एषणीयो भवति तथाभूतो दुर्लभ इति, यत्र ग्रामनगरादौ बहवः श्रमणब्राह्मणकृपणवणीमगादय उपागता अपरे चोपागमिष्यन्ति, एवं च तत्रात्याकीर्णावृत्ति, वर्त्तनं-वृत्ति, साच भिक्षाटनस्वाध्यायध्यानबहिर्गमनकार्येषु जनसङ्कुलत्वादाकीर्णा भवति, ततश्च न प्राज्ञस्य तत्र निष्क्रमणप्रवेशौ यावच्चिन्तनादिकाः क्रिया निरुपद्रवाः संभवन्ति, स साधुरेवं ज्ञात्वा न तत्र वर्षाकालं विदध्यादिति । एवं च व्यत्ययसूत्रमपि व्यत्ययेन नेयमिति ।। साम्प्रतं गतेऽपि वर्षाकाले यदा यथा च गन्तव्यं तदधिकृत्याह
मू. (४४७) अह पुणेवं जाणिज्जा - चत्तारि मासा वासावासाणं वीइक्कंता हेमंताण य पंचदसरायकप्पे परिवुसिए, अंतरा से मग्गे बहुपाणा जाव ससंताणगा नो जत्थ बहवे जाव उवागमिस्संति, सेवं नञ्चा नो गामाणुगामं दूइज्जिज्जा ।
125
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org