________________
३८४
आचाराङ्ग सूत्रम् २/१/३/-/-[नि. ३०९]
वायुपुरुषादेर्द्रव्यस्य यद्गमनं सा सचित्तद्रव्येर्या, एवं परमाण्वादिद्रव्यस्य गमनमचित्तद्रव्येर्या, तथा मिश्रद्रव्येर्या रथादिगमनमिति, क्षेत्रेर्या यस्मिन् क्षेत्रे गमनं क्रियते ईर्या वा वर्ण्यते, एवं कालेऽपि द्रष्टव्येति । भावेर्याप्रतिपादनायाहनि. [३१०] भावइरियाओ दुविहा चरणरिया चेव संजमरिया य।
समणस्स कहं गमणं निद्दोसं होइ परिसुद्धं ॥ वृ. भावविषयेर्या द्विधा-चरणेर्या संयमेर्या च, तत्र संयमेर्या सप्तदशविधसंयमानुष्ठानं, यदिवाऽसङख्येयेषु संयमस्थानेष्वेकस्मात्संयमस्थानादपरंसंयमस्थानंगच्छतःसंयमेर्या भवति, चरणेर्यातु अभ्र वभ्रमभ्रचर गत्यर्था': चरते वेल्युट्चरणंतद्रूपेर्याचरणेर्या, चरणंगतिर्गमनमित्यर्थ, तच्च श्रमणस्य कथं' केन प्रकारेण भावरूप गमनं निर्दोषंभवति? इति॥आहनि. [३११] आलंबणे य काले मग्गेजयणाइ चेव परिसुद्धं ।
भंगेहिं सोलसविहं जंपरिसुद्धं पसत्थं तु॥ वृ. 'आलम्बनं' प्रवचनसङ्घगच्छाचार्यादिप्रयोजनं 'कालः' साधूनां विहरणयोग्योऽवसरः 'मार्ग' जनैः पयां क्षुण्णः पन्थाः ‘यतना' उपयुक्तस्ययुगमात्रष्टित्वं, तदेवमालम्बवकालमार्गयतनापदैरेकैकपदव्यभिचारा ये भङ्गास्तैः षोडशविधं गमनं भवति ॥ तस्य च यत्परिशुद्धं तदेव प्रशस्तं भवतीति दर्शयितुमाहनि. [३१२] चउकारणपरिसुद्धं अहवावि (हु) होज्ज कारणज्जाए।
आलंबणजयणाए काले मग्गे यजइयव्वं ॥ वृ.चतुर्भिकारणैः साधोर्गमनं परिशुद्धं भवति, तद्यथा-आलम्बनेन दिवा मार्गेण यतनया गच्छतइति, अथवाऽकालेऽपि ग्लानाद्यालम्बनेन यतनया गच्छतःशुद्धमेव गमनं भवति, एवंभूते चमार्गे साधुना यतितव्यमिति॥उक्तोनामनिष्पन्नो निक्षेपः, साम्प्रतमुद्देशार्थाधिकारमधिकृत्याहनि. [३१३] सव्वेवि ईरियविसोहिकारगा तहवि अस्थि उ विसेसो।
उद्देसे उद्देसे वुच्छामि जहक्कम किंचि ॥ वृ. 'सर्वेऽपि त्रयोऽपि यद्यपीर्याविशुद्धिकारकास्तथाऽपि प्रत्युद्देशकमस्ति विशेषः, तं च यथाक्रमं किञ्चिद्वक्ष्याम इति ॥ यथाप्रतिज्ञातमाहनि. [३१४] पढमे उवागमण निग्गमो य अद्धाण नावजयणा य।
बिइए आरूढ छलणं जंघासंतार पुच्छा य॥ वृ. प्रथमोद्देशके वर्षाकालदावुपागमनं-स्थानं तथा निर्गमश्च शरत्कालादौ यथा भवति तदत्र प्रतिपाद्यमध्वनि यतनाचेति, द्वितीयोद्देशके नावादावारूढस्यं छलनं-प्रक्षेपणं व्यावय॑ते, जङ्घासन्तारेच पानीये यतना, तथा नानाप्रकारे च प्रश्ने साधुनायद्विधेयमेतच्च प्रतिपाद्यमिति॥ नि. [३१५] तइयंमि अदायणया अप्पडिबंधो यहोइ उवहिमि ।
वजेयव्वं च सया संसारियरायगिहगमणं॥ वृ. तृतीयोद्देशकेयदिकश्चिदुदकादीनि पृच्छति, तस्य जानताऽप्यदर्शनता विधेयेत्ययमधि कारः, तथोपधावप्रतिबन्धो विधेयः, तदपहरणे च स्वजनराजगृहगमनं च वर्जनीयं, न च तेषामाख्येयमिति ।। साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org