________________
३८३
श्रुतस्कन्धः -२, चूडा-१, अध्ययनं-२, उद्देशक:३
वृ. से इत्यादि स्पष्टम् । इदानीं सुप्तविधिमधिकृत्याह
मू. (४४३) से भिक्खू वा० बहु० सयमाणे नो अन्नमन्नस्स हत्थेण हत्थं पाएण पायं काएण कायं आसाइजा, से अणासायमाणे तओ संजयामेव बहु० सइज्जा ।
से भिक्खू वा उस्ससमाणे वानीसासमाणे वा कासमाणे वा छीयमाणे वा जंभायमाणे वा उड्डोए वा वायनिसग्गं वा करेमाणे पुव्वामेव आसयं वा पोसयं वा पाणिणा परिपेहित्ता तओ संजयामेव ऊससिज्जा वा जाव वायनिसग्गंवा करेज्जा ।।
वृ. निगदसिद्धम्, इयमत्र भावना-स्वपद्भिहस्तमात्रव्यवहितसंस्तारकैः स्वप्तव्यमिति । एवं सुप्तस्य निश्वसितादिविधिसूत्रमुत्तानार्थं, नवरम् 'आयसं वत्ति आस्यं 'पोसयं वा' इत्यधिष्ठानमिति ॥साम्प्रतं सामान्येन शय्यामङ्गीकृत्याह
मू.(४४४) से भिक्खू वा० समा वेगया सिज्जा भविजा विसमा वेगया सि० पवाया वे० निवाया वे० ससरक्खा वे० अप्पससरक्खावे० सदंसमसगावेगया अप्पदंसमसगा० सपरिसाडा वे० अपरिसाडा० सउवसग्गा वे० निरुवसग्गा वे० तहप्पगाराहि सिजाहिं संविजमाणाहिं पग्गहियतरागां विहारं विहरिज्जा नो किंचिवि गिलाइजा, एवं खलु० जं सव्वटेहिं सहिए सया जए त्तिबेमि।
वृ. सुखोन्नेयं, यावत्तथाप्रकारासु वसतिषु विद्यमानासु 'प्रगृहीततर'मिति यैव काचिद्विषमसमाधिका वसति संपन्ना तामेव समचित्तोऽधिवसेत्-न तत्र व्यलीकादिकं कुर्यात्, एतत्तस्य भिक्षोः सामग्यं यत्सर्वार्थ सहितः सदा यतेतेति ॥
चूडा-१ अध्ययनं-२ उद्देशकः३, समाप्तः
चूडा-१ अध्ययनं-२ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिताशीलाझाचार्यविरचिता द्वीतीय श्रुतस्कन्धस्य द्वीतीयअध्ययनटीका परिसमाप्ता
अध्ययन-३ ईर्या वृ.उक्तंद्वीतीयमध्ययनं, साम्प्रतंतृतीयमारभ्यते, अस्य चायमभिसम्बन्धः-इहाद्येऽध्ययने धर्मशरीरंपरिपालनार्थपिण्डः प्रतिपादितः, सचावश्यमैहिकामुष्मिकापायरक्षणार्थवसतौभोक्तव्य इति द्वितीयेऽध्ययने वसति प्रतिपादिता, साम्प्रतं तयोरन्वेषणार्थं गमनं विधेयं, तच्च यदा यथा विधेयं यथा च विधेयमित्येतत्प्रतिपाद्यम्, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्र निक्षेपनियुक्तनुगमे नामनिक्षेपणार्थ नियुक्तिकृदाहनि. [३०८] नामं १ ठवणाइरिया २ दव्वे ३ खित्ते ४ य काल ५ भावे ६य ।
एसो खलु इरियाएनिक्खेवो छव्विहो होइ॥ वृ. कण्ठयं । नामस्थापनेक्षुण्णत्वादनात्य द्रव्येर्याप्रतिपादनार्थमाहनि. [३०९] दव्वइरियाओ तिविहा सचित्ताचित्तमीसगा चेव ।
खित्तंमिजंमि खित्ते काले कालो जहिं होइ॥ वृ.तत्र द्रव्येर्या सचित्ताचित्तमिश्रभेदात्रिविधा, ईरणमीर्या गमनमित्यर्थ, तत्र सचित्तस्य
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org