SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं - २, उद्देशक : ३ - द्वितीयसूत्रे गुरुत्वादुत्क्षेपणादावात्मविराधनादिदोषः । - तृतीयसूत्रेऽप्रतिहारकत्वात्तत्परित्यागादिदोषः । - चतुर्थसूत्रे त्वबद्धत्वात्तद्बधनादिपलिमन्थदोषः । - पञ्चमसूत्रे त्वल्पाण्डं त्संस्तारको ग्राह्य इति सूत्रपञ्चकसमुदायार्थ । साम्प्रतं संस्तारकमुद्दिश्याभिग्रहविशेषानाह मू. (४३४) इञ्चेयाइं आयतणाइं उवाइक्कम- अह भिक्खू जाणिज्जा इमाइं चउहिं पडिमाहिं संथारगं एसित्तए, तत्थ खलु इमा पढमा पडिमा । भिक्खू वा २ उद्दिसिय २ संथारगं जाइज्जा, तंजहा - इक्कडं वा कढिणं वा जंतुयं वा परगं वा मोरगं वा तणगं वा सोरगं वा कुरूं वा कुचगं वा पिप्पलगं वा पलालगं वा, से पुव्वामेव आलोइज्जाआउसोति वा भ० दाहिसि मे इत्तो अन्नयरं संथारगं ? तह० संथारगं सयं वा णं जाइज्जा परो वा देज्जा फासुयं एसणिज्जं जाव पडि०, पढमा पडिमा ॥ ३८१ यावदल्पसन्तानकलघुप्रातिहारिकावबद्धत्वात्सर्वदोषविप्रमुक्तत्वा वृ. 'इत्येतानि' पूर्वोक्तानि ' आयतनादीनि' दोषरहितस्थानानि वसतिगतानि संस्तारकगतानि च 'उपातिक्रम्य' परिहृत्य वक्ष्यमाणांश्च दोषान् परिहृत्य संस्तारको ग्राह्य इति दर्शयति-‘अथ' आनन्तर्ये स भावभिक्षुर्जानीयात् 'आभि' करणभूतांमिश्चतसृभि 'प्रतिमाभि' अभिग्रहविशेषभूताभिः संस्तारकमन्वेष्टुं ताश्चेमाः । उद्दिष्ट १ प्रेक्ष्य २ तस्यैव ३ यथासंस्तृत ४ रूपाः, तत्रोद्दिष्टा फलहकादीनामन्यतमद्ग्रहीष्यामि नेतरदिति प्रथमा १, यदेव प्रागुद्दिष्टं तदेव द्रक्ष्यामि ततो ग्रहीष्यामि नान्यदिति द्वितीया प्रतिमा २, तदपि यदि तस्यैव शय्यातरस्य गृहे भवति ततो ग्रहीष्यामि नान्यत आनीय तत्र शयिष्य इति तृतीया ३ तदपि फलहकादिकं यदि यथासंस्तृतमेवास्ते ततो गृहीष्यामि नान्यथेति चतुर्थी प्रतिमा आसु च प्रतिमास्वाद्ययोः प्रतिमयोर्गच्छनिर्गतानामग्रहः, उत्तरयोरन्यतरस्यामभिग्रहः, गच्छान्तर्गतानां तु चतनोऽपि कल्पन्त इति, एताश्च यथाक्रमं सूत्रैर्दर्शयति-तत्र खल्विमा प्रथमा प्रतिमा तद्यथा - उद्दिश्योद्दिश्येक्कडादीनामन्यतमद्रहीष्यामीत्येवं यस्याभिग्रहः सोऽपरलाभेऽपि न प्रतिगृह्णीयादिति शेषं कण्ठ्यं नवरं 'कठिनं' वंशकटादि 'जन्तुकं' तृणविशेषोत्पन्नं 'परकं' येन तृणविशेषेण पुष्पाणि 'मोरगं 'ति मयूरपिच्छनिष्पन्नं 'कुच्चगं' ति येन कूर्चकाः क्रियन्ते एते चैवंभूताः संस्तारका अनूपदेशे सार्द्रादिभूम्यन्तरणार्थमनुज्ञाता इति । मू. (४३५) अहावरा दुञ्चा पंडिमा से भिक्खू वा० पेहाए संथारगं जाइज्जा, तंजहागाहावई वा कम्मकरिंवा से पुव्वामेव आलोइज्जा आउ० ! भइ० ! दाहिसि मे ? जाव पडिगाहिज्जा, दुश्चा पडिमा |२| अहावरा तञ्चा पडिमा से भिक्खू वा० जस्सुवस्सए संवसिज्जा जे तत्थ अहासमन्नागए, तंजहा -इक्क डे इ वा जाव पलाले इ वा तस्स लाभे संवसिज्जा तस्सालभे उक्कुडुए वा नेसज्जिए वा विहरिजातञ्चा पडिमा | ३ | वृ. अत्रापि पूर्ववत्सर्वं भणनीयं, यदि परं तमिक्कडादिकं संस्तारकं दृष्ट्वा याचते नादृष्टमिति एवं तृतीयाऽपि नेया, इयांस्तु विशेषः-गच्छान्तर्गतो निर्गतो वा यदि वसतिदातैव संस्तारकं प्रयच्छति ततो गृह्णाति, तदभावे उत्कटुको वा निषण्णो वा पद्मासनादिना सर्वरात्रमास्त इति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy