________________
श्रुतस्कन्धः - २, चूडा-१, अध्ययनं - २, उद्देशक : ३
३७९
'नीचाः' उच्चेस्त्वरहिताः 'संनिरूद्धा:' गृहस्थाकुला वसतयो भवन्ति, ताश्चैवं भवन्ति-तस्यां साधुवसतौ शय्यातरेणान्येषामपि कतिपयदिवसस्थायिनां चरकादीनामवकाशो दत्तो भवेत् । तेषां वा पूर्वस्थितानां पश्चात्साधूनामुपाश्रयो दत्तो भवेत्, तत्र कार्यवशाद्वसता रात्र्यादौ निर्गच्छता प्रविशता वा यथा चरकाद्युपकरणोपघातो न भवति तदवयवोपघातो वा तथा पुरो हस्तकरणादिकया गमनागमनादिक्रियया यतितव्यं, शेषं कण्ठयं, नवरं 'चिलिमिली' यमनिका 'चर्मकोशः' पार्ष्णित्रं खल्लकादि । इदानीं वसतियाचनाविधिमधिकृत्याह
मू. (४२३) से आगंतारेसु वा अणुवीय उवस्सयं जाइज्जा, जे तत्थ ईसरे जे तत्थ समहिट्ठाए ते अवस्सयं अनुन्नविज्जा-कामं खलु आउसो ! अहालंदं अहापरिन्नायं वसिस्सामो जाव आउसंतो ! जाव आउसंतस्स उवस्सए जाव साहम्मियाइंततो उवस्सयं गिण्हिस्सामो तेण परं विहरिस्सामो वृ. स भिक्षुरागन्तागारादीनि गृहाणि पूर्वोक्तानि तेषु प्रविश्यानुविचिन्त्य च-किंभूतोऽयं प्रतिश्रयः ? कश्चात्रेश्वरः? इत्येवं पर्यालोच्य च प्रतिश्रयं याचेत, यस्तत्र 'ईश्वरः' गृहस्वामी यो वा तत्र 'समधिष्ठाता' प्रभुनियुक्तस्तानुपाश्रयमनुज्ञापयेत्, तद्यथा - 'कामं तवेच्छया आयुष्मन् त्वया यथापरिज्ञातं प्रतिश्रयं कालतो भूभागतश्च तथैवाधिवत्स्यामः, एवमुक्तः स कदाचिद् गृहस्थ एवं ब्रूयाद्-यथा कियत्कालं भवतामत्रावस्थानमिति ?, एवं गृहस्थेन पृष्टः साधुः वसति प्रत्युपेक्षक एतद् ब्रूयाद् यथा ।
कारणमन्तरेण ऋतुद्धे मासमेकं वर्षासु चतुरो मासानवस्थानमिति, एवमुक्तः कदाचित्परो ब्रूयात्-नैतावन्तं कालं ममात्रावस्थानं वसतिर्या, तत्र साधुस्तथाभूतकारणसद्भावे एवं ब्रूयाद्यावत्कालमिहायुष्मन्त आसते यावद्वा भवत उपाश्रयस्तावत्कालमेवोपाश्रयं गृहीष्यामः, ततः परेण विहरिष्याम इत्युत्तरेण सम्बन्धः, साधुप्रमाणप्रश्ने चोत्तरं दद्याद् यथा समुद्रसंस्थानीयाः सूरयो, नास्ति परिमाणं, यतस्तत्र कार्यार्थिनः केचनागच्छन्ति अपरे कृतकार्या गच्छन्त्यतो यावन्तः साधर्मिकाः समागमिष्यन्ति तावतामयमाश्रयः, साधुपरिमाणं न कथनीयमिति भावार्थः । । किञ्चमू. (४२४) से भिक्खू वा० जस्सुवस्सए संवसिज्जा तस्स पुव्वामेव नामगुत्तं जाणिज्जा, तओ पच्छा तस्स गिहे निमंतेमाणस्स वा अनिमंतेमाणस्स वा असणं वा ४ अफासुयं जाव नो पडिगाहेज्जा ॥
वृ. सुगमं, नवरं साधूनां सामाचार्येषा, यदुत शय्यातरस्य नामगोत्रादि ज्ञातव्यं, तत्परिज्ञानाञ्च सुखेनैव प्राघूर्णिकादयो भिक्षामटन्तः शय्यातरगृहप्रवेशं परिहरिष्यन्तीति ।। किञ्च
मू. (४२५) से भिक्खू वा० से जं० ससागारियं सागणियं सउदयं नो पन्नस्स निक्खमणपवेसाए जावऽनुचिंताए तहप्पगारे उवस्सए नो ठा० ॥
वृ. स भिक्षुर्यं पुनरेवंभूतं प्रतिश्रयं जानीयात्, तद्यथा-ससागारिकं साग्निकं सोदकं, तत्र स्वाध्यायादिकृते स्थानादि न विधेयमिति ॥ तथा
मू. (४२६ ) से भिक्खू वा० से जं० गाहावइकुलस्स मज्झंमज्झेणं गंतुं पंथए पडिबद्धं वा नो पन्नस्स जाव चिंताए तह उ० नो ठा० ॥
वृ. यस्योपाश्रयस्य गृहस्थगृहमध्येन पन्थास्तत्र बह्वपायसम्भवात्तत्र न स्थातव्यमिति ॥
तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org