________________
३७८
आचाराङ्ग सूत्रम् २/१/२/३/४२१
कर्मोपादानकर्मभिः, तद्यथा-'छादनतः' दर्भादिना, लेपनतः' गोमयादिनासंस्तारकम्-अपवर्तकमाश्रित्य,तथाद्वारमाश्रित्य बृहल्लधुत्वापादानतः,तथाद्वारस्थगनं-कपाटमाश्रित्य,तथापिण्डपातैषणामाश्रित्य, तथाहि-कस्मिंश्चिमतिश्रये प्रतिवसतःसाधून शय्यातरः पिण्डेनोपनिमन्त्रयेत्, तद्ग्रहे निषिद्धाचरणमाहेतप्रद्वेषादिसम्भवइत्यादिभिरुत्तरगुणैः शुद्धः प्रतिश्रयोदुरापः, शुद्धेचप्रतिश्रये साधुना स्थानादि विधेयं, यत उक्तम् ०॥१॥ मूलुत्तरगुणसुद्धं थीपसुपंडविवज्जियं वसहिं।
सेवेज सव्वकालं विवज्जए हुंति दोसा उ मूलोत्तरगुणशुद्धावाप्तावपि स्वाध्यायादिभूमीसमन्वितो विविक्तो दुराप इति दर्शयति ।
'से' इत्यादि, तत्र च भिक्षवः चर्यारताः- निरोधासहिष्णुत्वाच्चङ्क्रमणशीलाः, तथा 'स्थानरताः' कायोत्सर्गकारिणः 'निषीधिकारताः' स्वाध्यायध्यायिनःशय्या-सर्वाङ्गिकीसंस्तारकःअर्द्धतृतीय हस्तप्रमाणः, यदिवा शयनं शय्या तदर्थं संस्तारकः शय्यासंस्तारकस्तत्र केचिद्रताः ग्लानादिभावात्, तथा लब्धे पिण्डपाते ग्रासैषणारतास्तदेवं 'सन्ति' भवन्ति केचन भिक्षवः ‘एवमाख्यायिनः' यथाऽवस्थितवसतिगुणदोषाख्यायिनः ऋजवो नियागः-संयमो मोक्षो वा तं प्रतिपन्नाः, तथा अमायाविनः, एवंविशिष्टाः साधवः 'व्याख्याताः' प्रतिपादिताः, तदेवं वसतिगुणदोषानाख्याय गतेषुतेषुतैश्च श्रावकैरेवंभूतैषणीयवसत्यभावे साध्वर्थमादेरारभ्य वसति कृता पूर्वकृता वा छादनादिना संस्कृता भवेत्, पुनश्च तेष्वन्येषु वा साधुषु समागतेषु ‘सन्ति' विद्यन्ते तथाभूताः केचन गृहस्थाः य एवंभूतां छलनां विदध्युः, तद्यथा
प्राभृतिकेवप्राभृतिका-दानार्थंकल्पिता वसतिरिह गृह्यते, साचतैर्गृहस्थैः ‘उत्क्षिप्तपूर्वा' तेषामादौ दर्शिता यथाऽस्यां वसत यूयमिति, तथा 'निक्षिप्तपूर्वा' पूर्वमेव अस्माभिरात्मकृते निष्पादिता, तथा परिमाइयपुवत्तिपूर्वमेवास्माभिरियं भ्रातृव्यादेः परिकल्पितेत्येवंभूता भवेत्, तथाऽन्यैरपीयं परिभुक्तपूर्वा, तथापूर्वमेवास्माभिरियं परित्यक्तेति, यदिच भगवतां नोपयुज्यते ततो वयमेनामपनेष्यामः, इत्येवमादिका छलना पुनः सम्यग् विज्ञाय परिहर्त्तव्येति, ननु किमेवं छलनासम्भवेऽपियथाऽवस्थितवसतिगुणदोषादिकंगृहस्थेन पृष्टःसाधुव्याकुर्वन् कथयन्सम्यगेव व्याकरोतिय, यदिवैवं व्याकुर्वन्सम्यग् व्याकर्ताभवति?,आचार्यआह-हन्त इति शिष्यामन्त्रणे सम्यगेव व्याकर्ता भवतीति॥ तथाविधकार्यवशाच्चरककार्पटिकादिभिः सह संवासे विधिमाह
मू. (४२२) से भिक्खू वा० से जंपुण उवस्सयं जाणिज्जा खुड्डियाओ खुड्दुवारियाओ निययाओ संनिरूद्धाओभवन्ति, तहप्पगा० उवस्सए राओ वा वियाले वा निक्खममाणे वा प० पुरा हत्थेण वा पच्छ पाएण वा तओ संजयामेव निक्खमिज्ज वा २, केवली बूया आयाणमेयं, जे तत्थ समणाण वा माहणाण वा छत्तए वा मत्तए वा दंडए वा लट्ठिया वा मिसिया वा नालिया वा चेलं वा चिलिमिली वा चम्मए वा चम्मकोसए वा चम्मछेयणए वा दुब्बद्धे दुन्निक्खित्ते अनिकंपे चलाचले भिक्खू य राओ वा वियाले वा निक्खममाणे वा २ पयलिज वा २, से तत्थ पयलमाणे वा० हत्थं वा० लूसिज्ज वा पाणाणि वा ४ जाव ववरोविज वा, अह भिक्खूणं पुब्बोवइटुंजं तह० उवस्सए पुरा हत्थेण निक्ख. वा पच्छा पाएणं तओ संजयामेव नि० पविसिज्ज वा॥
वृ.स भिक्षुर्यं पुनरेवंभूतं प्रतिश्रयं जानीयात्, तद्यथा-'शुद्रिकाः' लध्ध्यः तथा क्षुद्रद्वाराः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org