________________
श्रुतस्कन्धः - २, चूडा-१, अध्ययनं - १, उद्देशक : ११
३६७
पञ्चस्वभिग्रहः इत्यनेन 'विहरन्ति' यतन्त इति, यथाविहारिणश्च सर्वेऽपि ते जिनाज्ञां नातिलङ्घन्ते, तथा चोक्तम्
119 11 “जोऽवि” दुवत्थतिवत्थो बहुवत्थ अचेलओव्व संथरइ । न हु ते हीलंति परं सव्वेवि अ ते जिणाणाए '
"
एतत्तस्य भिक्षोर्भिक्षुण्या वा 'सामग्र्यं' सम्पूर्णो भिक्षुभावो यदात्मोत्कर्षवर्जनमिति चूडा-१, अध्ययनं-१, उद्देशकः-११ समाप्तः
चूडा-१, अध्ययनं -१ समाप्तम्
मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलाङ्काचार्य विरचिता द्वितीय श्रुतस्कन्धस्य प्रथम अध्ययनटीका परिसमाप्ता अध्ययनं - २ शय्यैषणा
उक्तं प्रथममध्ययनं, साम्प्रतं द्वितीयमारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तराध्ययने धर्माधारशरीरपरिपालनार्थमादावेव पिण्डग्रहणविधिरुक्तः, स च गृहीतः सन्नवश्यमल्पसागारिके प्रतिश्रये भोक्तव्य इत्यतस्तद्गतगुणदोषनिरुपणार्थं द्वितीयमध्ययनम्, अनेन च सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि व्यावर्णनीयानि, तत्र नामनिष्पन्ने निक्षेपे शय्यैषणेति, तस्या निक्षेपविधानाय पिण्डैषणानिर्युक्तिर्यत्र संभवति तां तत्रातिदिश्य प्रथमगाथया अपरासां च नियुक्तीनां यथायोगं संभवं द्वितीयगाथया आविर्भाव्य निक्षेपंच तृतीयगाथया शय्याषट्कनिक्षेपे प्राप्ते नामस्थापने अनाध्त्य निर्युक्तिकृदाह
नि. [३०१]
दव्वे खित्ते काले भावे सिज्जा य जा तहिं पगयं । केरिसिया सिज्जा खलु संजयजोगत्ति नायव्वा ॥
वृ. द्रव्यशय्या क्षेत्रशय्या कालशय्या भावशय्या, अत्र च या द्रव्यशय्या तस्यां प्रकृतं, तामेव च दर्शयति-कीद्दशी सा द्रव्यशय्या ? संयतानां योग्येत्येवं ज्ञातव्या भविष्यति ॥ द्रव्यशय्या - व्याचिख्यासयाऽऽह
नि. [ ३०२ ] तिविहा य दव्वसिज्जा सचित्ताऽचित्त मीसगा चेव । खित्तंमि जंमि खित्ते काले जा जंमि कालंमि ॥
वृ. त्रिविधा द्रव्यशय्या भवति, तद्यथा - सचित्ता अचित्ता मिश्रा चेति, तत्र सचित्ता पृथिवीकायादौ, अचित्ता तत्रैव प्रासुके, मिश्राऽपि तत्रैवार्द्धपरिणते, अथवा सचित्तामुत्तरगाथया स्वत एव नियुक्तिकृद् भावयिष्यति । 'क्षेत्र' मिति तु क्षेत्रशय्या, सा च यत्र ग्रामादिके क्षेत्रे क्रियते, कालशय्या तु या यस्मिन्न तुबद्धादिके काले क्रियते । तत्रसचित्तद्रव्यशय्यो दाहरणार्थमाहनि. [३०३] उक्कलकलिंग गोअम वग्गुमई चेव होइ नायव्वा ।
एयं तु उदाहरणं नायव्वं दव्वसिज्जाए ||
अस्या भावार्थ कथानकादवसेयः, तञ्चेदम्-एकस्यामटव्यां द्वौ भ्रातरावुत्कलकलिङ्गाभिधानी विषमप्रदेशे पल्लिं निवेश्य चौर्येण वर्तेते, तयोश्च भगिनी वल्गुमती नाम, तत्र कदाचिद् गौतमाभिधानो नैमित्तिकः समायातः, ताम्यां च प्रतिपन्नः, तया च वल्गुमत्योक्तं यथा नायं भद्रकः, अत्र वसन्
५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org