________________
३६६
आचाराङ्ग सूत्रम् २/१/१/११/३९६ हस्तः संसृष्टं मात्रं सावशेषं द्रव्यमित्येष गच्छनिर्गतानामपि कल्पते, शेषास्तु भङ्गा गच्छान्तर्गतानां सूत्रार्थहान्यादिकं कारणमाश्रित्य कल्पन्त इति ।
अपरा चतुर्थी पिण्डेषणाऽल्पलेपा नाम, सा यत्पुनरेवमल्पलेपं जानीयात्, तद्यथा- 'पृथुकम्' इतिभुग्नशाल्याद्यपगततुषं यावत् 'तन्दुलपलम्बं' इति भुग्नशाल्यादितन्दुलानिति, अत्र च पृथुकादिके गृहीतेऽप्यल्पं पश्चात्कर्मादि, तथाऽल्पं पर्यायजातमल्पं तुषादि त्यजनीयमित्येवंप्रकारमल्पलेपम्, अन्यदपि वल्लचनकादि यावत्परिगृह्णीयादिति ।
अथापरापञ्चमी पिण्डैषणाऽवगृहीता नाम, तद्यथा-स भिक्षुर्यावदुपहतमेव भोक्तुकामस्य भाजनस्थितमेव भोजनजातं ढौकितं जानीयात्, तत्पुनर्भाजनं दर्शयति, तद्यथा-'शरावं' प्रतीतं ‘डिण्डिमं’ कंश (कांस्य) भाजनं 'कोशकं' प्रतीतं, तेन च दात्रा कदाचित् पूर्वमेवोदकेन हस्तो मात्र कंवा धौतं स्यात्, तथा च निषिद्धं ग्रहणम्, अथ पुनरेवं जानीयाद्बहुपर्यापन्नः परिणतः पाण्यादिपूदकलेपः, तत एवं ज्ञात्वा यावद् गृह्णीयादिति ।
अथापरा षष्ठी पिण्डैषणा प्रगृहीता नाम-स्वार्थं परार्थं वा पिठरकादेरुध्धृत्त्य चटुकादिनोत्क्षिप्ता परेण च न गृहीता प्रव्रजिताय वा दापिता सा प्रकर्षेण गृहीता प्रगृहीता तां तथाभूतां प्राभृतिकां 'पात्रपर्यापन्नां वा' पात्रस्थितां 'पाणिपर्यापन्नां वा' हस्तस्थितां वा यावत्प्रतिगृह्णीयादिति ।
अथापरा सप्तमी पिण्डैषणा उज्झितधर्मिका नाम, सा च सुगमा । आसु च सप्तस्वपि पिण्डैषणासु संसृष्टाद्यष्टभङ्गका भणनीयाः, नवरंचतुर्थ्यांनानात्वमिति, तस्या अलेपत्वात्संसृष्टाद्यभाव इति ।
एवं पानैषणा अपि नेया भङ्गकाश्चायोज्याः, नवरं चतुर्थ्यां नानात्वं, स्वच्छत्वाञ्च तस्या अल्पलेपत्वं, ततश्च संसृष्टाद्यभाव इति, आसां चैषणाना यथोत्तरं विशुद्धितारतम्यादेष एव क्रमो न्याय्य इति । साम्प्रतमेताः प्रतिपद्यमानेन पूर्वप्रतिपन्नेन वा यद्विधेयं तद्दर्शयितुमाह
मू. (३९७) इचेयासिं सत्तण्हं पिंडेसणाणं सत्तण्हं पाणेसणाणं अन्नयरं पडिमं पडिवज्रमाणे नो एवं वइज्जा-मिच्छापडिवन्ना खलु एए भयंतारो, अहमेगे सम्मं पडिवन्ने, जे एए भयंतारो एयाओ पडिमाओ पडिवजित्ता णं विहरंति जो य अहमंसि एवं पडिमं पडिवजित्ताणं विहरामि सव्वेऽवि ते उ जिणाणाए उवट्ठिया अनुन्नसमाहीए, एवं चणं विहरंति, एवं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं ॥
वृ. इत्येतासां सप्तानां पिण्डैषणानां पानैषणानां वाऽन्यतरां प्रतिमां प्रतिपद्यमानो नैतद्वदेत्, तद्यथा-'मिध्याप्रतिपन्नाः' न सम्यक् पिण्डैषणाद्यभिग्रहवन्तो भगवन्तः साधवः, अहमेवैकः सम्यक्प्रतिपन्नौ, यतो मया विशुद्धः पिण्डैषणाभिग्रहः कृत एभिश्च न, इत्येवं गच्छनिर्गतेन गच्छान्तर्गतेन वा समदृष्टया द्रष्टव्याः, नापि गच्छान्तर्गतेनोत्तरोत्तरपिण्डैषणाभिग्रहवता पूर्वपूर्वतरपिण्डैषणाभिग्रहवन्तो दृष्या इति, यच्च विधेयं तद्दर्शयति ।
य एते भगवन्तः-साधव एताः ‘प्रतिमाः’पिण्डैषणाद्यभिग्रहविशेषान् ‘प्रतिपद्य’गृहीत्वा ग्रामानुग्रामं 'विहरन्ति' यथायोगं पर्यटन्ति, यां चाहं प्रतिमां प्रतिपद्य विहरामि, सर्वेऽप्येते जिनाज्ञायां जिनाज्ञया वा 'समुत्थिताः' अभ्युद्यतविहारिणः संवृत्ताः, ते चान्योऽन्यसमाधिना यो यस्य गच्छान्तर्गतादेः समाधिरभिहितः, तद्यथा - सप्तापि गच्छ्वासिनां तन्निर्गतानां तु द्वयोरग्रहः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
1