SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ३४ अध्ययनं -१, उद्देशक :- २ उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः प्रस्तूयते - अस्य चायमभिसम्बन्धः-प्रथमोद्देशके सामान्येन जीवास्तित्वं प्रसाधितम्, इदानीं तस्यैवेकेन्द्रियादिपृथिव्याद्यस्तित्वप्रतिपिपादयिषयाऽऽह-यदिवा प्राक् परिज्ञातकर्मत्वं मुनितवकारणमुपादेशि, यः पुनरपरिज्ञातकर्मत्वान्मुनिर्न भवति-विरतिं न प्रतिपद्यते स पृथिव्यादिषु बम्भ्रमीति, अथ क एते पृथिव्यादय इत्यतस्तद्विशेषास्तित्वज्ञापनार्थमिदमुपक्रम्यत इति । अनेनाभिसम्बन्धेनायातस्यास्योद्देशकस्य चत्वार्यनुवोगद्वाराणि वाच्यानि, यावन्नामनिष्पन्ने निक्षेपे पृथिव्युद्देशक इति, तत्रोद्देशकस्य निकक्षेपादेरन्यत्र प्रतिपादितत्वान्नेह प्रदर्श्यते, पृथिव्यास्तु यन्निक्षेपादि सम्भवति तन्निर्युक्तिकृद्दर्शयितुमाहपुढवीए निक्खेवो परूवणालक्खणं परीमाणं । भोग सत्थं वेयणाय वहणा निवत्ती य ॥ नि. [ ६८ ] वृ. प्राग् जीवोद्देशके जीवस्य प्ररूपणा किं न कृतेत्येतच्च नाशङ्कनीयं, यतो जीवसामान्यस्य विशेषाधारत्वात् विशेषस्य च पृथिव्यादिरूपत्वात् सामान्यजीवस्य चोपभोगादेरसम्भवात् पृथिव्यादिचर्च्चयैव तस्य चिन्तितत्वादिति । तत्र पृथिव्या नामादिनिक्षेपो वक्त्व्यः, प्ररूपणासूक्ष्मबादरादिभेदा, लक्षणं साकारानाकारोपयोगकाययोगादिकं परिमाणं संवर्त्तितलोकप्रतरासंख्येयभागमात्रादिकम्, उपभोगः-शयनासनचङक्रमणादिकः, शस्त्रं- स्नेहाम्ल क्षारादि, वेदनास्वशरीराव्यक्त-चेतनानुरूपा सुखदुःखानुभवस्वभावा, वधः कृतकारितानुमतिभिरुपमर्द्दनादिकः, निवृत्ति:- अप्रमत्तस्य मनोवाक्कायगुप्तयाऽनुपमद्दकेति समासार्थः । व्यासार्थं तु निर्युक्तिकृद्यथाक्रममाह - नि. [ ६९ ] आचाराङ्ग सूत्रम् १/-/१/२/ नामंठवणापुढवी दव्वपुढवी य भावपुढवी य । एसो खलु पुढवीए निक्खेवो चउविहो होइ ॥ वृ. स्पष्टा, नामस्थापने क्षुण्णत्वादनाद्दत्याहनि. [ ७०] दव्वं सरीरभविओ भावेण य होइ पुढविजीवो उ । जो पुढविनामगोयं कम्मं वेएइ सो जीवो ॥ वृ. दव्यपृथिवी आगमुतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तु पृथिवीपदार्थज्ञस्य शरीरं जीवोपेतं तथा पृथिवीपदार्थज्ञत्वेन भव्यो- बालादिस्ताभ्यां विनिर्मुक्तो द्रव्यापृथिवीजीवः- एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्च, भावपृथिवीजीवः पुनर्यः पृथिवीनामादिकर्मोदीर्णं वेदयति । गतं निक्षेपद्वारं, साम्प्रतं प्ररूपणाद्वारम् नि. [७१] दुविहाय पुढविजीवा सुहुमा तह बायरा य लोगंमि । सुहुमा य सव्वलोए दो चेव य बायरविहाणा ।। वृ. पृथिवीजीवा द्विविधाः सूक्ष्मा बादराश्च, सूक्ष्मनामकर्मोदयात् सूक्ष्माः, वादरनामकर्मोदयात् बादराः, कर्मोदयजनिते एवैषां सूक्ष्मबादरत्वे न त्वापेक्षिके बदरामलकयोरिव ।। तत्र सूक्ष्माः समुद्गकपर्याप्तप्रक्षिप्तगन्धावयववत् सर्वलोकव्यापिनः, बादरास्तु मूलभेदाद्विविधा इत्याह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy