________________
श्रुतस्कन्धः-१, अध्ययनं-१, उद्देशकः१
तथा मुक्त्यर्थमज्ञा- नावृतचेतसः पश्चाग्नितपोऽनुष्ठानादिकेषु प्राण्युपमईकारिषु प्रवर्त्तमानाः कर्माददते, यदिवा जातिमरणयोर्विमोचनाय हिंसादिकाः क्रियाः कुर्वते । ‘जाइमरणभोयणाए'त्ति वा पाठान्तरं, तत्र भोजनार्थं कृष्यादिकर्मसु प्रवर्तमाना वसुधाजलज्वलनपवनवनस्पतिद्वित्रिचतुष्पञ्चेन्द्रियव्यापत्तये व्याप्रियन्त इति । तथा दुःखप्रतिघातमुररीकृत्यात्मपरित्राणार्थमारम्भानासेवन्ते, तथाहि-व्याधि-वेदना" लावकपिशितमदिराद्यासेवन्ते, तथा वनस्पतिमूलत्वक्पत्रनिर्यासादिसिद्धशतपा- कादितैलार्थमग्न्यादिसमारम्भेण पापं कुर्वन्ति स्वतः कारयन्त्यन्यैः कुर्वतोऽन्यान्समनुजानत इत्येवमतीतानागतकालयोरपि मनोवाक्काययोगैः कर्मादानं विदधतीत्यायोजनीयम् । तथा दुःखप्रतिधातार्थमेवसुखोत्पत्त्यर्थंच कलत्रपुत्रगृहोपस्कराधाददते, तल्लाभपालनार्थं च तासु तासु क्रियासु प्रवर्त्तमानाः पापकर्मासेवन्त इति, उक्तंच॥७॥ "आदौ प्रतिष्ठाऽधिगमे प्रयासो, दारेषु पश्चाद्गृहिणः सुतेषु।
कर्तुं पुनस्तेषु गुणप्रकर्ष, चेष्टा तदुच्चैःपदलङ्घनाय ॥" । तदेवंभतैः क्रियाविशेषैः कर्मोपादाय नानादिश्वनसञ्चरन्ति अनेकरूपास च योनिष सन्धावन्ति विरूपरूपांश्च स्पर्शान्प्रतिसंवेदयन्ति, इत्येतज्ज्ञाजात्वा क्रियाविशेषनिवृत्तिर्विधेयेति ।। एतावन्त एव च क्रियाविशेषा इति दर्शयितुमाह -
मू. (१२) एयावंति सव्वावंति लोगंसि कम्मसमारंभा परिजाणियव्वा भवंति।
वृ. “एआवन्ती सव्वावन्तीति एतौ द्वौ शब्दौ मागधदेशीभाषाप्रसिद्धया तावन्तः सर्वेऽपीत्येतत्पर्यायौ, एतावन्त एव सर्वस्मिन्, 'लोके' धर्माधर्मास्तिकायावच्छिन्ने नभःखण्डे ये पूर्व प्रतिपादिताः 'कर्मसमारम्माः' क्रियाविशेषाः, नैतेभ्योऽधिकाः केचन सन्तीत्येवंपरिज्ञातव्या भवन्ति, सर्वेषां पूर्वत्रोपादानादिती भावः तथाहि-आत्मपरोभयैहिकामुष्मिकातीतानागतवर्तमानकालतकारितानुमतिभिरारम्भाः क्रियन्ते, तेचसर्वेऽपिप्रागुपात्तायथासम्भवमायोज्या इति ।। एवं सामान्येन जीवास्तित्वं प्रसाद्य तदुपमर्द्दकारिणां च क्रियाविशेषाणां बन्धहेतुत्वं प्रदोपसंहारद्वारेण विरतिं प्रतिपादयन्नाह -
मू. (१३) जस्सेते लोगंसि कम्मसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे त्तिबेमि ।।
वृ. भगवान् समस्तवस्तुवेदी केवलज्ञानेन साक्षादुपलभ्यैवमाह - ‘यस्य' मुमुक्षोः ‘एते' पूर्वोक्ताः 'कर्मसमारम्भाः' क्रियाविशेषाः कर्मणो वा-ज्ञानावरणीयाद्यष्टप्रकारस्य समारम्भाउपादानहेतवस्तेच क्रियाविशेषाएव, परि-समन्तात्ज्ञाताः-परिच्छिन्नाः कर्मबन्धहेतुत्वेन भवन्ति, हुरवधारणे, मनुतेमन्यतेवाजगतस्त्रिकालावस्थामिति मुनिः स एव मुनि परिज्ञयापरिज्ञातकर्मा प्रत्याख्यानपरिज्ञया च प्रत्याख्यातकर्बन्धहेतुभूतसमस्तमनोवाक्कायव्यापार इति, अनेन च मोक्षाङ्गभूते ज्ञानक्रिये उपात्ते भवतो, नह्याभ्यां विना मोक्षो भवति, यत उक्तम्- “ज्ञानक्रियाभ्यां मोक्ष" इति । इतिशब्द एतावानयमात्मपदार्थविचारः कर्मबन्धहेतुविचारश्च सकलोद्देशकेन परिसमापित इतिप्रदर्शकः, यदिवा 'इति' एतदहं ब्रवीभि यत्प्रागुक्त यच्च वक्ष्ये तत्सर्वं भगवदन्तिके साक्षात् श्रुत्वा ॥
अध्ययनं-१, उद्देशकः-१ समाप्त ः [113
Jain
on International
For Private & Personal Use Only
www.jainelibrary.org