SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ आचाराङ्ग सूत्रम् १/-/१/१/१० [नि. ६७] केवलजातिस्मरणरूपा तया जानाति, कश्चिच्च पक्षधर्मान्वयव्यतिरेकलक्षणया हेतुयुक्तयेति । अथ किमर्थमसौ कटुकविपाकेषु कर्माश्रवहेतुभूतेषु क्रियाविशेषेषु प्रवर्तत इत्याह - मू. (११) इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाईमरणमोयणाए दुक्खपडिधायहेउं। वृ. तत्र जीवितमिति-जीवन्त्यनेनायुःकर्मणेति जीवितं-प्राणधारणम्, तच्च प्रतिप्राणि स्वसंविदितमितिकृत्वा प्रत्यक्षासन्नवाचिनेदमा निर्दिशति, चशब्दो वक्ष्यमाणजात्यादिसमुच्चयार्थः, एवकारोऽवधारणे, अस्यैवजीवितस्यार्थे परिफल्गुसारस्य तडिल्लताविलसितचञ्चलस्यबाह्वपायस्य दीर्घसुखार्थंक्रियासुप्रवर्तते, तथाहि-जीविष्याम्यहमरोगः सुखेन भोगान् भोक्ष्येततोव्याध्यपनयनार्थं स्नेहापानलवकपिशितभक्षणादिषु क्रियासु प्रवर्तते, तथाऽल्पस्य सुखस्य कृते अभि मानग्रहाकुलितचेताबह्वारम्भपरिग्रहाद्बह्वशुभं कर्मादत्ते, उक्तं च - ॥१॥"द्वे वाससी प्रवरयोषिदपायशुद्धा, शय्याऽऽसनं करिवरस्तुरगो रथो वा। काले भिषग्नियमिताशनपानमात्रा, राज्ञः पराक्यमिव सर्वमवेहि शेषम् ॥ ॥२॥ पुष्टयर्थमन्नमिहयत्प्रतणिधिप्रयोगैः, संत्रासदोषकलुषो नृपतिस्तु भुङ्कते। यनिर्भयः प्रशमसौख्यरतिश्च भैक्षं, तत् स्वादुतां भृशमुपैति न पार्थिवान्नम् ।। ॥३॥ भृत्येषु मन्त्रिषु सुतेषुमनोरमेषु, कान्तासु वा मधुमदाङ्कुरितेक्षणासु। विश्रम्भमेतिन कदाचिदपि क्षितीशः, सर्वाभिशङ्कितमतेः कतरत्तु सौख्यम्॥" तदेवमनवबुद्धतरुणकिशलयपलाशचञ्चलजीवितरतयःकर्माश्रवेषुजीवितोपमर्दादिरूपेषु प्रवर्तन्ते, तथाऽस्यैव जीवितस्य परिवन्दनमाननपूजनार्थं हिंसादिषु प्रवर्तन्ते, तत्र 'परिवन्दनं' संस्तवः प्रशंसा तदर्थमाचेष्टते, तथाहि-अहंमयूरादिपिशिताशनाद्वली तेजसादेदीप्यमानो देवकुमार इव लोकानां प्रशंसास्पदं भविष्यामीति 'माननम्' अभ्युत्थानासनदानाञ्जलिप्रग्रहादिरूपं तदर्थं वाचेष्टमानः कर्माचिनोति तथा पूजनं पूजा-द्रविणवस्त्रान्नपानसत्कारप्रणामसेवाविशेषरूपंतदर्थं च प्रवर्त्तमानः क्रियासु कर्माश्रवैरात्मानं सम्भावयति, तथाहि - 'वीरभोग्या वसुन्धरे'ति मत्वा पराक्रमते, दण्डभयाच सर्वा प्रजा बिभ्यतीति दण्डयति, इत्येवं राज्ञामन्येषामपि यथासम्भवमायोजनीयम्, अत्र च वन्दनादीनां द्वन्द्वसमासं कृत्वा तादर्थ्य चतुर्थी विधेया, परिवन्दमाननपूजनायजीवितस्यकर्माश्रवेषुप्रवर्तन्तइति समुदायार्थः । न केवलंपरिवन्दनाद्यर्थमेव कर्मादत्ते, अन्यार्थमप्यादत्त इति दर्शयति-जातिश्चमरणं च मोचनं च जातिमरणमोचनमिति समाहारद्वन्द्वात्तादयं चतुर्थी, एतदर्थं च प्राणिनः क्रियासु प्रवर्त्तमानाः कर्माददते, तत्र जात्यर्थं क्रौश्चारिवन्दनादिकाः क्रिया विधत्ते, तथायान्यान्कामान्ब्राह्मणादिभ्योददातितांस्तानन्यजन्मनि पुनर्जातो भोक्ष्यते, तथा मनुनाऽप्युक्तम् - “वारिदस्तृप्तिमाप्नोति, सुखमक्षयमन्नदः । तिलप्रदः प्रजामिष्टामायुष्कमभयप्रदः॥ अत्र चैकमेवसुभाषितम्- 'अभयप्रदान् मिति तुषमध्ये कणिकावदिति, एवमादिकुमार्गोपदेशाद्धिंसादौ प्रवृत्तिं विदधाति । तथा मरणार्थमपि पितृपिण्डदानादिषु क्रियासु प्रवर्तते, यदिवा ममानेन सम्बन्धी व्यापादितस्तस्य वैरनिय्यार्तनार्थं वधबन्धादौ प्रवर्तते, यदिवा मरणनिवृत्त्यर्थमा- त्मनो दुर्गाधुपयाचितमजादिना बलिं विधत्ते यशोधर इव पिष्टमयकुक्कुटेन, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy