________________
श्रुतस्कन्धः - १, अध्ययनं - 9,
॥५॥
॥६॥
कर्मानुभावदुःखित एवं मोहान्धकारगहनवति । अन्ध इव दुर्गमार्गे भ्रमति हि संसारकान्तारे ॥ दुःखप्रतिक्रियार्थं सुखाभिलाषाच्च पुनरपि तु जीवः । प्राणिवधादीन् दोषानधितिष्ठति मोहसंछन्नः ॥ बघ्नाति ततो बहुविधमन्यत्पुनरपि नवं सुबहु कर्म । तेनाथ पच्यते पुनरग्नेरग्निं प्रविश्येव ॥ एवं कर्माणि पुनः पुनः स बघ्नंस्तथैव मुञ्चंश्च । सुखकामो बहुदुःखं संसारमनादिकं भ्रमति ॥ एवं भ्रमतः संसारसागरे दुर्लभं मनुष्यत्वम् । संसारमहत्त्वाधार्मिकत्वदुष्कर्म्मबाहुल्यैः ॥ आर्यो देशः कुलरूपसम्पदायुश्च दीर्घमारोग्यम् । यतिसंसर्गः श्रद्धा धर्म्मश्रवणं च मतितैक्ष्ण्यम् ॥ एतानि दुर्लभानि प्राप्तवतोऽपि दृढमोहनीयस्य । कुपथाकुलेऽर्हदुक्तोऽतिदुर्लभो जगति सन्मार्गः ।। "
यदि वा योऽयं पुरुषः सर्वा दिशो ऽनुदिशश्चनुसञ्चरति तथाऽनेकरूपा योनीः सन्धावति विरूपरूपांश्च स्पर्शान् प्रतिसंवेदयति, सः 'अविज्ञातकर्मा' अविज्ञातम् - अविदितं कम्-क्रिया व्यापारो मनोवाक्कायलक्षणः, अकार्षमहं करोमि करिष्यामीत्येवंरूपः जीवोपमर्दात्मकत्वेन बन्धहेतुः सावद्यो येन सोऽयमविज्ञातकर्मा, अविज्ञातकर्मत्वेन च तत्र तत्र कर्मणि जीवोपमर्दादिके प्रवर्त्तते येन येनास्याष्टविधकर्म्मबन्धो भवति, तदुदयाच्चानेकरूप- योन्यनुसन्धानं विरूपरूपस्पर्शानुभवश्च भवतीति ॥ यद्येवं ततः किमित्यत आह
11011
॥८॥
॥९॥
119011
उद्देशक: १
॥११॥
३१
मू. (१०) तत्थ खलु भगवता परिण्णा पवेइआ ।
वृ. 'तत्र' कर्मणि व्यापारे अकार्षमहं करोमि करिष्यामीत्यात्मपरिणतिस्वभावतया मनोवाक्कायव्यापाररूपे ‘भगवता' वीरवर्द्धमानस्वामिना परिज्ञानं परिज्ञा सा प्रकर्षेण प्रशस्ताऽऽदौ वावेदिता प्रवेदिता, एतच्च सुधर्म्मस्वामी जम्बूस्वामिनाम्ने कथयति सा च द्विधा - ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञाच, तत्र ज्ञपरिज्ञया सावद्यव्यापारेण बन्धो भवतीत्येवं भगवता परिज्ञा प्रवेदिता, प्रत्याख्यानपरिज्ञया च सावद्ययोगा बन्धहेतवः प्रत्याख्येया इत्येवंरूपा चेति ॥
अमुमेवार्थं नियुक्तिकृदाहनि. [ ६७ ]
तत्थ अकारि करिस्संति बंधचिंता कया पुणो होइ ।
सहसम्मइया जाणइ कोइ पुण हेतुजुत्तीए ॥
वृ. 'तत्र' कर्मणि क्रियाविशेषे, किम्भूत इत्याह- 'अकारि करिस्संति' अकारीति कृतवान् करिस्सन्ति-करिष्यामीति अनेनातीतानागतोपादानेन तन्मध्यवर्तिनो वर्त्तमानस्य कारितानुमत्योश्चोपसङ्गहान्नवापि भेदा आत्मपरिणामत्वेन योगरूपा उपात्ता द्रष्टव्याः, तत्रानेनात्मपरिणामरूपेण क्रियाविशेषेण ‘बन्धचिन्ता कृता भवति' बन्धस्योपादानमुपात्तं भवति, 'कर्मयोगनिमित्तं बध्यते' इति वचनात्, एतच्च कश्चिज्जानाति आत्मना सह या सन्मतिः स्वमतिर्वा अवधिमनःपर्याय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org