SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ३० 11911 ॥२॥ 119 11 ॥२॥ ॥३॥ ॥४॥ ॥५॥ ॥२॥ ॥३॥ एताश्चानेकरूपा योनीर्दिगादिषु पर्यटन्त्रपरिज्ञातकर्माऽसुमान् 'संधेइ' त्ति सन्धयति - सन्धि करोत्यात्मना, सहाविच्छेदेन संघट्टयतीत्यर्थः, 'संधावइ' त्ति वा पाठान्तरं, 'सन्धावति' पौनःपुन्येन तासु गच्छतीत्यर्थः, तत्सन्धाने च यदनुभवति तद्दर्शयति-विरूप-बीभत्सममनोज्ञं रूपं स्वरूपं येषां स्पर्शानां दुःखोपनिपातानां ते तथा, स्पर्शाश्रिता दुःखोपनिपाताः स्पर्शा इत्युक्ताः, 'तात्स्थ्यात्तद्वयपदेश' इतिकृत्वा, उपलक्षणं चैतन्मानस्योऽपि वेदना ग्राह्याः, अतस्तानेवम्भूतान् स्पर्शान् ‘प्रतिसंवेदयति' अनुभवति, प्रतिग्रहणाप्रत्येकं शारीरान्मानसांश्च दुःखोपनिपातानुभवतीत्युक्तं भवति, स्पर्शग्रहणं चेह सर्वसंसारान्तर्वर्त्तिजीवराशिसङग्रहार्थं, स्पर्शनेन्द्रियस्य सर्वजीवव्यापित्वाद्, अत्रेदमपि वक्तव्यं-सर्वान्विरूपरूपान् रसगन्धरूपशब्दान् प्रतिसंवेदयतीति, विरूपरूपत्वं च स्पर्शानां कार्यभूतानां विचित्रकर्मोदयात्कारणभूताद्भवतीति वेदितव्यं, विचित्रकर्मोदयाच्चापरिज्ञातकर्मा संसारी स्पर्शादीन्विरूपरूपांस्तेषु तेषु योन्यन्तरेषु विपाकतः परिसंवेदयतीति, आह च“तैः कर्मभिः स जीवो विवशः संसारचक्र मुपयाति । द्रव्यक्षेत्राद्धाभावभिन्त्रमावर्त्तते बहुशः ॥ - 11911 नरकेषु देवयोनिषु तिर्यग्योनिषु च मनुजयोनिषु च । पर्यटति घटीयन्त्रवदात्मा बिभ्रच्छरीराणि ॥ सततानुबद्धमुक्तं दुःखं नरकेषु तीव्रपरिणामम् । तिर्यक्षु भक्षुतृड्वधा दिदुःखं सुखं चाल्पम् ॥ सुखदुःखे मनुजानां मनःशरीराश्रये बहुविकल्पे । सखमेव हि देवानां दःखं स्वल्पं च मनसि भवम ॥ For Private & Personal Use Only ॥४॥ आचाराङ्ग सूत्रम् १/-/१/१/९ 'पुढवीजलजलणमारुय एक्के क्के सत्त सत्त लक्खाओ । वण पत्तेय अणंते दस चोद्दस जोणिलक्खाओ ।। विगलिंदिएसु दो दो चउरो चउरो य नारयसुरेसुं । तिरिएसु हुंति चउरो चोद्दस लक्खा य मणुएसु ॥ -तथा शुभाशुभभेदेन योनीनामनेकरूपत्वं गाथाभिः प्रदर्श्यते - 'सीयादी जोणीओ चउरासीती य सयसहस्साइं । असुभाओ य सुभाओ तत्थ सुभाओ इमा जाण ॥ अस्संखाउमणुस्सा राईसर संखमादिआऊणं । Jain Education International तित्थगरनामगोत्तं सव्वसुहं होइ नायव्वं ॥ तत्थवि य जाइसंपन्नतादि सेसाउ हुति असुभाओ । देवेसु किव्विसादी सेसाओ हुंति उ सुभाओ ।। पंचिंदियतिरिएसुं हयगयरयणे हवंति उ सुभाओ । साओ अ सुभाओ सुभवण्णेगिंदियादीया ॥ देविंदचक्क वट्टित्तणाई मोत्तुं च तित्थगरभावं । अनगारभाविताविय सेसा उ अनंतसो पत्ता ।। www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy