SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ २९ श्रुतस्कन्धः-१, अध्ययनं-१, उद्देशक: विशिष्टक्रियापरिणतिरूप आत्माऽभिहितः, ततश्चार्यभावार्थो भवति-सएवाहं येन मयाऽस्य देहादेः पूर्वंयौवनावस्थायामिन्द्रियवशगेनविषयविषमोहितान्धचेतसा तत्तदकाय्यानुष्ठानपरायणेनाऽऽनुकूल्यमनुष्ठितम्, उक्तंच॥१॥ "विहवावलेवनडिएहिं जाइं कीरंतिजोव्वणमएणं। वयपरिणामे सरियाइँ ताई हियए खुडुक्कंति॥" ___ तथा अचीकरमह'मित्यनेन परोऽकार्यादौ प्रवर्त्तमानो मया प्रवृत्ति कारितः, तथा कुर्वन्तमन्यमनुज्ञातवानित्येवं कृतकारितानुमतिभिभूतकालाभिधानं, तथा 'करोमी' त्यादिना वचनत्रिकेण वर्तमानकालोल्लेखः, तथा करिष्यामि कारयिष्यामि कुर्वतोऽन्यान् प्रति समनुज्ञापरायणो भविष्यामीत्यनागतकालोल्लेखः, अनेन च कालत्रयसंस्पर्शेनदेहेन्द्रियातिरिक्तस्यात्मनो भूतवर्तमानभविष्यत्कालपरिणतिरूपस्यास्तित्वावगतिरावेदिता भवति, साचनैकान्तक्षणिकनित्यवादिनांसम्भवतीत्यतोऽनेन ते निरस्ताः, क्रियापरिणामेनात्मनः परिणामित्वाभ्युपगमादिति, एतदनुसारेणैव सम्भवानुमानादतीतानागतयोरपि भवयोरात्मास्तित्वमवसेयम्। यदिवाअनेन क्रियाप्रबन्धप्रतिपादनेन कर्मण उपादानभूतायाः क्रियायाः स्वरूपमायेवेदितमिति ॥ अथ किमेतावत्य एव क्रिया उतान्या अपि सन्तीति, एता एवेत्याहम. (७) एयावंति सव्वावंति लोगंसि कम्मसमारंभा परिजाणियव्वा भवंति। वृ. एतावन्तः सर्वेऽपि लोके' प्राणिसङ्घाते 'कर्मसमारम्भाः' क्रियाविशेषा ये प्रागुक्ताः अतीतानागतवर्तमानभेदेन कृतकारितानुमतिभिश्च अशेषक्रियानुयायिना च करोतिना सर्वेषां सङ्गहादिति, एतावन्त एव परिज्ञातव्या भवन्ति नान्य इति । परिज्ञा च ज्ञप्रत्याख्यानभेदाद्विधा, तत्रज्ञपरिज्ञयाऽऽत्मनोबन्धस्यचास्तित्वमेतावद्भिरेव सर्वैः कर्मसमारम्भैज्ञतिभवति, प्रत्याख्यानपरिज्ञया च सर्वे पापोपादानहेतवः कर्मसमारम्भाः प्रत्याख्यातव्या इति । इयता सामान्येन जीवास्तित्वंप्रसाधितमधुना तस्यैवात्मनोदिगादिभ्रमणहेतूपदर्शनपुरस्सरमपायान्प्रदर्शितुमाहयदिवा यस्तावदात्मकर्मादिवादी स दिगादिभ्रमणान्मोक्ष्य इतरस्य तु विपाकान् दर्शयितुमाह मू. (८) अपरिण्णायकम्मा खलुअयंपुरिसेजोइमाओ दिसाओअनुदिसाओअनुसंचरइ, सव्वाओ दिसाओ सव्वाओ अनुदिसाओ साहेति। वृ. योऽयं पुरि शयनात्पूर्णः सुखदुःखानां वा पुरुषो-जन्तुर्मनुष्यो वा, प्राधान्याच्च पुरुषस्योपादानम्, उपलक्षणंचैतत्, सर्वोऽपिचतुर्गत्यापनःप्राणी गृह्यते, दिशोऽनुदिशोवाऽनुसञ्चरति, सः अपरिज्ञातकर्मा अपरिज्ञातंकमनिनेत्यपरिज्ञातकम्, खलुरवधारणेअपरिज्ञातकर्मैव दिगादौ भ्राम्यति नेतर इति, उपलक्षण चैतद्, अपरिज्ञातात्मापरिज्ञातक्रियश्चेति, यश्चापरिज्ञातकमा स सर्वा दिशः सर्वाश्चानुदिशः ‘साहेति' स्वयंकृतेन कर्मणा सहानुसञ्चरति, सर्वग्रहणं सर्वासां प्रज्ञापकदिशां भावदिशांचोपसङ्गहार्थम् । स यदाप्नोति तदर्शयति मू. (९) अनेगरूवाओ जोणीओ संधेइ, विरूवरूवे फासे पडिसंवेदेइ । वृ.अनेकंसंकटविकटादिकंरूपंयासांतास्तथा, यौति-मिश्रीभवत्यौदारिकादिशरीरवर्गणापुद्गलैरसुमान् यासुतायोनयः-प्राणिनामुत्पत्तिस्थानानि,अनेकरूपत्वंचासांसंवृतविवृतोभयशीतोष्णोभयरूपतया यदिवा चतुरशीतिलक्षभैदेन, ते चामी चतुरशीतिर्लक्षाः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy