________________
"
आचाराङ्ग सूत्रम् १/-19/१/४ [नि. ६४-६६]
नामोल्लेखेन पूवदिदिश आगतमात्मानमविच्छइन्नसंततिपतितं द्रव्यार्थतया नित्यं पर्यायार्थतया त्वनित्यं जानाति स परमार्थतः आत्मवादीति सूत्रकृद्दर्शयति
मू. (१) से आयावादी लोयावदा कम्मावादी किरियावादी।
वृ. 'स' इति यो भ्रान्तः पूर्वं नारकर्तियग्नरामराद्यासु भावदिक्षु पूर्वाद्यासुचप्रज्ञापकदिक्षु अक्षणिकाम दिलक्षणोपेतमात्मानमवैति, सइत्थंभूतः ‘आत्मवादी'तिआत्मानंवदितुंशीलमस्येति, यः पुनरेवंभूतमात्मानं नाभ्युपगच्छति सोऽनात्मवादी नास्तिक इत्यर्थः । योऽपि सर्वव्यापिनं नित्यं क्षणिक वाऽऽत्मानमभ्युपैति सोऽप्यनात्मवाद्येव, यतः सर्वव्यापिनो निष्क्रियत्वाद्भवान्तरसंक्रान्तिर्न स्यात्, सर्वथा नित्यत्वेऽपि ‘अप्रच्युतानुत्पन्नस्थिरैकस्वभावं नित्यमितिकृत्वा मरणाभावेन भवान्तरसंक्रान्तिरेवन स्यात्सर्वथा क्षणिकत्वेऽपि निर्मूलविनाशात्सोऽहमित्यनेन पूर्वोत्तरानुसन्धानं न स्यात् । य एव चात्मवादी स एव परमार्थतो लोकवादी, यतो लोकयतीति लोकः-प्राणिगणसतंवदितुंशीलमस्येति, अनेनचात्माद्वैतवादिनिरासेनात्मबहुत्वमुक्तं, यदिवा 'लोकापाती ति लोकः-चतुर्दशरज्वात्मकः प्राणिगणो वा, तत्रापतितुं शीलमस्येति, अनेन च विशिष्टाकाशखण्डस्य लोकसंज्ञाऽऽवेदिता, तत्र च जीवास्तिकायस्य सम्भवेन जीवानां गमनागमनमावेदितं भवति, य एव च दिगादिगमनपरिज्ञानेनात्मवादी लोकवादी च संवृत्तः, स एवासुमान् ‘कर्मवादी' कर्मज्ञाना- वरणीयादि तद्वदितुं शीलमस्य, यतो हि प्राणिनो मिथ्यात्वाविरतिप्रमादकषाययोगैः पूर्वंगत्यादियोग्यानिकर्माण्याददते, पश्चात्तासुतासुविरूपरूपासु योनिषूत्पद्यन्ते, कर्म च प्रकृतिस्थित्यनुभावप्रदेशात्मकमवसेयमितिअनेन च कालयदृच्छानियतीश्वरात्मवादिनो निरस्ता द्रष्टव्याः । तथा य एव कर्मवादी स एव क्रियावादी, यतः कर्म योगनिमित्तं बध्यते, योगश्च व्यापारः, सच क्रियारूपः, अतः कर्मणः कार्यभूतस्य वदनात्तत्कारणभूतायाः क्रियाया अप्यसावेवपरमार्थतो वादीति, क्रियायाश्च कर्मनिमित्तत्वं प्रसिद्धमागमे, स चायमागमः-“जाव णं भंते ! एस जीवे सया समियं एयइ वेयइ चलति फंदति घट्टति तिप्पति जावतंतंभावंपरिणमतितावंचणंअट्ठविहबंधएवासत्तविहबंधएवाछव्विहबंधएवाएगविहबंधए वा नो णं अबंधए"त्ति, एवं च कृत्वा च एव कर्मवादी स एव क्रियावादीति, अनेन च सांख्याभिमतमात्मनोऽक्रियावादित्वं निरस्तं भवति ।।
साम्प्रतंपूर्वोक्तां क्रियामात्मपरिणतिरूपांविशिष्टकालाभिधायिना तिप्रत्ययेनाभिदधदहंप्रत्ययसाध्यस्यात्मनस्तद्भव एवावधिमनःपर्यायकेवलज्ञानजातिस्मरणव्यतिरेकेणैव त्रिकालसंस्पर्शिना मतिज्ञानेन सद्भावावगमंदर्शयितुमाह
मू. (६) अकरिस्संचऽहं, कारवेसुंचऽहं, करओ आवि समणुन्ने भविस्सामि ।
वृ. इह भूतवर्तमानभविष्यत्कालापेक्षया कृतकारितानुमतिभिर्नव विकल्पाः संभवन्ति, तेचामी-अहमकार्षमचीकरमहं कुर्वन्तमन्यमन्वनुज्ञासिषमहंकरोमिकारयाम्यनुजानाम्यहमिति करिष्याम्यहंकारयिष्याम्यहंकुर्वन्तमन्यमनुज्ञास्याम्यहमिति, एतेषांचमध्ये आद्यन्तौसूत्रेणैवोपात्तौ, तदुपादानाच्चतन्मध्यपातिनां सर्वेषांग्रहणम्, अस्यैवार्थस्याविष्करणाय द्वितीयो विकल्पः 'कारवेसुं चऽहंमितिसूत्रेणोपात्तः, एतेचचकारद्वयोपादानादपिशब्दोपादानाच्च मनोवाक्कायश्चिन्त्यमानाः सप्तविंशतिर्भेदा भवन्ति, अयमत्र भावार्थः-अकार्षमहमित्यत्राहिमित्यनेनात्मोल्लेखिना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org