SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, अध्ययनं-१, उद्देशकः१ २७ सूत्रेयत्पदंतत्रजाणणत्ति ज्ञानमुपात्तं भवति, मतिज्ञाने' मननंमतिरितिकृत्वा, तच्च किंभूतमिति दर्शयति- 'अवधिमनःपर्यायकेवलजातिस्मरणरूपं मिति, तत्रावधिज्ञानी संख्येयानसंख्येयान्वा भवान्जानाति, एवंमनःपर्यायज्ञान्यपि, केवली तु नियमतोऽनन्तान, जातिस्मरणस्तु नियमतः संख्येया निति, शेषं स्पष्टम् । अत्र च सहसम्मत्यादिपरिज्ञाने सुखप्रतिपत्त्यर्थं त्रयो दृष्टान्ताः प्रदर्शयन्ते,तद्यथा वसन्तपुरे नगरे जितशत्रू राजा, धारणी नाम महादेवी, तयोर्द्धर्मारुच्यभिधानः सुतः, स च राजाऽन्यदा तापसत्वेन प्रव्रजितुमिच्छुर्द्धर्मरुचिं राज्ये स्थापयितुमुद्यतः, तेनचजननी पृष्ठाकिमिति तातोराज्यश्रियंत्यजति?,तयोक्तम्-किमनयाचपलयानारकादिसकलदुःखहेतुभूतया स्वर्गापवर्गमार्गार्गलयाअवश्यमपायिन्यापरमार्थत इहलोकेऽप्यभिमानमात्रफलयेत्यतोविहायैनां सकलसुखसाधनं धर्मं कर्तुमुद्यतः, धर्मरुचिस्तदाकर्योकतवान्-यद्येवं किमहं तातस्यानिष्टो ? येनैवंभूतांसकलदोषाश्रयिणीं मयि नियोजयति, सकलकल्याणहेतोर्द्धर्मात्प्रच्यावयतीत्यभिधाय पित्राऽनुज्ञातस्तेन सह तापसाश्रममगात्, तत्र च सकलास्तापसक्रिया यथोक्ताः पालयन्नास्ते, अन्यदाऽमावास्यायाः पूर्वाह्ने केनचित्तापसेनो ष्टम्-यथा भोभोः तापसाः! श्वोऽनाकुट्टिभविता, अतोऽद्यैव समित्कुसुमकुशकन्दफलमूलाधाहरणं कुरुत, एतच्चाकर्ण्य धर्मरुचिनाजनकः पृष्टःतात! केयमनाकुट्टिरिति, तेनोक्तम्-पुत्र ! कन्दफलादीनामच्छेदनं, तद्धयमावास्यादिके विशिष्टे पर्वदिवसेन वर्तते, सावद्यत्वाच्छेदनादिक्रियायाः,श्रुत्वाचैतदसावचिन्तयत्-यदिसर्वदाऽनाकुट्टिः स्याच्छोभनं भवेद्, एवमध्यवसायिनस्तस्यामावास्यायां तपोवनासन्नपथेन गच्छतां साधूनां दर्शनमभूत्, ते च तेनाभिहिताः-किमद्य भवतामनाकुट्टिर्न सञ्जाता? येनाटवी प्रस्थिताः, तैरप्यभिहितम्-'यथाऽस्माकंयावज्जीवमनाकुट्टि'रित्यभिधायातिक्रान्ताः साध्वः, तस्य चतदाकण्र्येहापोहविमर्शेन जातिस्मरणमुत्पन्नं-यथाऽहंजन्मान्तरेप्रव्रज्यांकृत्वादेवलोकसुखमनुभूयेहागत इति, एवं तेन विशिष्टदिगागमनं स्वमत्या-जातिस्मरणरूपया विज्ञातं, प्रत्येकबुद्धश्चजातः, एवमन्येऽपि वल्कलचीरिश्रेयांसप्रभृतयोऽत्र योज्या इति। परव्याकरणेत्विदमुदाहरणम्-गौतमस्वामिना भगवान्वर्द्धमानस्वामीपृष्टो-भगवन्! किमिति मे केवलज्ञानं नोत्पद्यते?, भगवता व्याकृतं-भो गौतम ! भवतोऽतीव ममोपरि स्नेहोऽस्ति, तद्वशात्तेनोक्तम्- 'भगवन्नेवमेवं, किंनिमित्तः पुनरसौ मम भगवदुपरि स्नेहः?, ततो भगवता तस्य बहुषु भवान्तरेषु पूर्वसम्बन्धः समावेदितः 'चिरसंसिट्ठोऽसि मे परिचिओऽसि मे गोयमे त्येवमादि, तच्च तीर्थकृद्वयाकरणमाकर्ण्य गौतमस्वामिनो विशिष्टदिगागमनादिविज्ञानमभूदिति।अन्यश्रवणे त्विदमुदाहरणम्-मल्लिस्वामिनाषण्णां राजपुत्राणा-मुद्वाहार्थमागतानामवधिज्ञानेन तत्प्रतिबोधनार्थं यथाजन्मान्तरे सहितैरेवप्रवज्याकृता, यथा चतत्फलं देवलोके जयन्ताभिधानविमानेऽनुभूतं तथाऽऽख्यातं, तच्चाकर्ण्य ते लघुकर्मत्वाप्रतिबुद्धा विशिष्टदिगागमनविज्ञानं च सञ्जातं, उक्तंच ॥१॥ किं थ तयं पम्हुटुंज च तया भो! जयंतपवरंभि । वुच्छा समयनिबद्धं देवा! तं संभरह जातिं ।। इति गाथात्रयतात्पय्यार्रथः। साम्प्रतं प्रकृतमनुयिते-यो हि सोऽहमित्यनेनाहङ्कारज्ञाने Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy