________________
३५२
आचाराङ्ग सूत्रम् २/१/१/७/३७१
वृ.सभिक्षुर्भिक्षार्थं प्रविष्टः सन्यदिपुनरेवंचतुर्विधमप्याहारंजानीयात्, तद्यथा-'स्कन्धे' अर्द्धप्राकारे 'स्तम्भेवा' शैलदारुमयादी, तथामञ्चकेवामालेवाप्रासादेवाहतूंतलेवाअन्यतरस्मिन् वातथाप्रकारेऽन्तरिक्षजातेसआहारः 'उपनिक्षिप्तः' व्यवस्थापितो भवेत,तंच तथाप्रकारमाहारं मालाहृतमिति मत्वा लाभे सति न प्रतिगह्णीयात्, केवली ब्रूयाद्यत आदानमेतदिति, तथाहिअसंयतो भिक्षुप्रतिज्ञया साधुदानार्थं पीठकंवा फलकं वा निश्रेणिं वा उदूखलं वाऽऽहत्य-ऊर्ध्वं व्यवस्थाप्यारोहेत्, सतत्रारोहन्प्रचलेद्वाप्रपतेद्वा, सतत्र प्रचलन्प्रपतन्वा हस्तादिकमन्यतरद्वा कायेइन्द्रियजातं 'लूसेज्जति विराधयेत्, तथाप्राणिनो भूतानिजीवान्सत्त्वानभिहन्याद्वित्रासयेद्वा लेषयेद्वा-संश्लेषंवा कुर्यात्तथा संघर्षवाकुर्यात्तथा सङ्घडवाकुर्यात्, एतच्चकुर्वस्तान्परितापयेद्वा क्लामयेद्वास्थानात्स्थानं सङ्क्रामयेदवा, तदेतज्ञात्वा यदाहारजातंतथाप्रकारं मालाहृतं तल्लाभे सति नो प्रतिगृह्णीयादिति॥
सभिक्षुर्यदि पुनरेवंभूतमाहारंजानीयात्, तद्यथा-'कोष्ठिकातः' मृन्मयकुशूलसंस्थानायाः ता 'कोलेज्जाओ'त्ति अधोवृत्तखाताकाराद् असंयतः 'भिक्षुप्रतिज्ञया' साधुमुद्दिश्य कोष्ठिकातः 'उक्कुज्जियत्तिऊध्र्वकायमुन्नम्यततः कुब्जीभूय, तथाकोलेजाओ अवउजिअत्तिअधोऽवनम्य, तथा 'ओहरिय'त्ति तिरश्चीनो भूत्वाऽऽहारमाहृत्य दद्यात्, तच भिक्षुस्तथाप्रकारमधोमालाहृतमितिकृत्वा लाभे सतिन प्रतिगृह्णीयादिति ।।अधुना पृथिवीकायमधिकृत्याह
मू. (३७२) से भिक्खू वा (२) से ज० असणं वा ४ मट्टियाउलित्तंतहप्पगारं असणंवा ४ लाभेसं०, केवली० अस्संजए भि० मट्टिओलितं असणं वाउजिंदमाणंपुढविकायंसमारंभिज्जा तह तेउवाउवणस्सइतसकायंसमारंभिजा, पुनरवि उल्लिपंमाणे पच्छाकम्मंकरिजा, अह भिक्खूणं पुव्वो जंतहप्पगारं मट्टिओलितं असणं वा लाभे० ।
से भिक्खू० से ज० असणं वा ४ पुढविकायपइट्ठियं तहप्पगारं असणं वा असासुयं से भिक्खूजं असणंवा ४ आउकायपइट्ठियंचेव, एवं अगनिकायपइट्ठियं लाभे केवली, अस्संज० भि० अगणिं उस्सक्किय निस्सक्किय ओहरिय आहट्ट दलइजा अह भिक्खूणं० जाव नो पडि०॥
वृ. स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यदि पुनरेवं जानीयात्, तद्यथा-पिठरकादौ मृत्तिकयाऽवलिप्तमाहारं 'तथाप्रकार'मित्यवलिप्तं केनचित्परिज्ञानपश्चात्कर्मभयाञ्चतुर्विधमप्याहारं लाभे सति न प्रतिगृह्णीयात्, किमिति?, यतः केवली ब्रूयात्कर्मादानमेतदिति, तदेव दर्शयति'असंयतः'गृहस्थो भिक्षुप्रतिज्ञया मृत्तिकोपलिप्तमशनादिकम्-अशनादिभाजनं तच्चोद्भिनन्दन पृथिवीकायं समारभेत, स एव केवल्याह, तथा तेजोवायुवनस्पतित्रसकायं समारभेत, दत्ते सत्युत्तरकालंपुनरपिशेषरक्षार्थंतद्भाजनमवलिम्पन् पश्चात्कर्मकुर्यात्, अथ भिक्षूणांपूर्वोपदिष्टा एषाप्रतिज्ञा एष हेतुरेतत्कारणमयमुपदेशः यत्तथाप्रकारं मृत्तिकोपलिप्तमशनादिजातं लाभे सति नोप्रतिगृह्णीयादिति।
सभिक्षुर्गृहपतिकुलंप्रविष्टः सन्यदिपुनरेवंभूतमशनादिजानीयात्, तद्यथा-'सचित्तपृथिवीकायप्रतिष्ठितं' पृथ्वीकायोपरिव्यवस्थितमाहारं विज्ञायपृथिवीकायसङ्घट्टनादिभयाल्लाभेसत्यप्रासुकमनेषणीयंच ज्ञात्वा न प्रतिगृह्णीयादिति ॥ एवमकायप्रतिष्ठितमग्निकायप्रतिष्ठितं लाभे सति न प्रतिगृह्णीयाद्, यतः केवली ब्रूयादादानमेतदिति । तदेव दर्शयति-असंयतो भिक्षुप्रतिज्ञया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org