________________
श्रुतस्कन्धः - २, चूडा-१, अध्ययनं १, उद्देशक : ४
-
३४३
मू. (३५७) से भिक्खू वा २ जाव पविसिउकामे से जं पुण जाणिज्जा खीरिणियाओ गावीओ खीरिजमाणीओ पेहाए असणं वा ४ उवसंखडिज्ज्रमाणं पेहाए पुरा अप्पजूहिए सेवं नञ्चा नो गाहावइकुलं पिंडवायपडियाए निक्खमिज्ज वा पविसिज्ज वा ॥
से तमादाय एगंतमवक्क मिज्जा अणावायमसंलोए चिट्टिज्जा, अह पुण एवं जाणिज्जाखीरिणियाओ गावीओ खीरियाओ पेहाए असणं वा ४ उवक्खडियं पेहाए पुराए जूहिए सेवं नञ्चा तअ संजयामेव गाहा निक्खमिज्ज वा ।।
वृ. स भिक्षुर्गृहपतिकुलं प्रवेष्टुकामः सन्नथ पुनरेवं विजानीयाद्, यथा क्षीरिण्यो गावोऽत्र दुह्यन्ते, ताश्च दुह्यमानाः प्रेक्ष्य तथाऽशनादिकं चतुर्विधमप्याहारमुपसंस्क्रियमाणं प्रेक्ष्य तथा 'अप्पजूहिए' त्ति सिद्धेऽप्योदनादिके 'पुरा' पूर्वमन्येषामदत्ते सति प्रवर्त्तमानाधिकरणापेक्षी पूर्वत्र च प्रकृतिभद्रकादि कश्चिद्यतिं दृष्ट्वा श्रद्धावान् बहुतरं दुग्धं ददामीति वत्सकपीडां कुर्यात्त्रसेयुर्वा दुह्यमाना गावस्तत्र संयमात्मविराधना, अर्द्धपक्वोदने च पाकार्थं त्वरयाऽधिकं यत्नं कुर्यात् ततः संयमविराधनेति, तदेवं ज्ञात्वा स भिक्षुर्गृहपतिकुलं पिण्डपातप्रतिज्ञया न प्रविशेन्नापि निष्क्रामेदिति । यञ्च कुर्यात्तद्दर्शयितुमाह
‘सः’भिक्षु ‘तम्’ अर्थं गोदोहनादिकम् 'आदाय' गृहीत्वाऽवगम्येत्यर्थ, तत एकान्तमपक्रामेद्, अपक्रम्य च गृहस्थानामनापातेऽसंलोके च तिष्ठेत्, तत्र तिष्ठन्नथ पुनरेवं जानीयाद् यथा क्षीरिण्यो गावो दुग्धा इत्यादि पूर्वव्यत्ययेनालापका नेया यावन्निष्कामेत्प्रिविशेद्वेति ॥
पिण्डाधिकार एवेदमाह
मू. (३५८) भिक्खागा नामेगे एवमाहंसु-समाणा वा वसमाणा वा गामाणुगामं दूइज्जमाणे खुड्डा खलु अयं गामे संनिरुद्धाए नो महालए से हंता भयंतारो बाहिरगाणि गामा भिक्खायरियाए वयह, संति तत्थेगइयस्स भिक्खुस्स पुरेसंथुया वा पच्छासंधुवा वा परिवसंति, तंजहा- गाहावई वा गाहावइणीओ वा गाहावइपुत्ता वा गाहावइधूयाओ वा गाहावईसुण्हाओ वा धाइओवा दासा वादासीओ वा कम्मकरा वा कम्मकरीओ वा, तहप्पगाराइं कुलाइं पुरेसंथुयाणि वा पच्छासंथुयाणि वा पुव्वामेव भिक्खायरियाए अनुपविसिस्सामि ।
अविय इत्थ लभिस्सामि पिंडं वा लोयं वा खीरं वा दहिं वा नवनीयं वा घयं वा गुल्लं वा तिल्लं वा महुं वा मज्जं वा सक्कु लिं वा फाणियं वा पूयं वा सहिरिणं वा, तं पुव्वामेव भुञ्चा पिच्चा पडिग्गहं च संलिहिय संमज्जिय तओ पच्छा भिक्खूहिं सद्धिं गाहा पविसिस्सामिमवा निक्खमिस्सामि वा, माइट्ठाणं संफासे, तं नो एवं करिजा ।। से तत्थ भिक्खुहिं सद्धिं कालेन अनुपविसित्ता तत्थियरेयरेहिं कुलेहिं सामुदाणियं एसियं वेसियं पिंडवायं पडिगाहित्ता आहारं आहारिजा, एयं खलु तस्स भिक्खुस्स वा भिक्खुणी वा सामग्गियं ० ॥
वृ. भिक्षणशीला भिक्षुका नामैके साधवः केचनैवमुक्तवन्तः, किम्भूतास्ते इत्याह- 'समानाः ' इति जङ्घाबलपरिक्षीणतयैकस्मिन्नैव क्षेत्रे तिष्ठन्तः, तथा 'वसमानाः' मासकल्पविहारिणः, त एवंभूताः प्राघूर्णकान् समायातान् ग्रामानुग्रामं दूयमानान् गच्छत एवमूचुः यथा क्षुल्लकोऽयं ग्रामोऽल्पगृहभिक्षादोवा, तथा संनिरुद्धः सूतकादिना, नो महानिति पुनर्वचनमादरख्यापनार्थम्, अतिशयेन क्षुल्लक इत्यर्थ, ततो हन्त ! इत्यामन्त्रणं यूयं भवन्तः पूज्या बहिर्ग्रामेषु भिक्षाचर्यार्थं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org