________________
३४४
आचाराङ्ग सूत्रम् २/१/१/४/३५८ व्रजतेत्येवं कुर्यात्, यदिवा तत्रैकस्य वास्तव्यस्य भिक्षोः 'पुरःसंस्तुताः ' भ्रातृव्यादयः 'पश्चात्संस्तुताः' श्वशुरकुलसंबद्धाः परिवसन्ति, तान् स्वनामग्राहमाह ।
"
तद्यथा-गृहपतिर्वेत्यादि सुगमं यावत्तथाप्रकाराणा कुलानि पुरः पश्चात्संस्तुतानि पूर्वमेव भिक्षाकालादहमेतेषु भिक्षार्थं प्रवेक्ष्यामि, अपि चैतेषु स्वजनादिकुलेष्वभिप्रेतं लाभं लप्स्ये तदेव दर्शयति-‘पिण्डं’ शाल्योदनादिकं 'लोयम्' इतीन्द्रियानुकूलं रसाद्युपेतमुच्यते, तथा क्षीरं वेत्यादि सुगमं यावत्सिहरिणीं वेति, नवरं मद्यमांसे छेदसूत्राभिप्रायेण व्याख्येये, अथवा कश्चिदतिप्रमादावष्टब्धोऽत्यन्तगृध्नुतया मधुमद्यमांसान्यप्याश्रयेद तस्तदुपादानं, 'फाणियं 'ति उदकेन द्रवीकृतो गुडः क्वथितोऽक्वथितो वा शिखरिणी मार्जिता, तल्लब्धं पूर्वमेव भुक्त्वा पेयं च पीत्वा पतद्ग्रहं संलिह्य निरवयवं कुत्वा संमृज्य च वस्त्रादिनाऽऽर्द्रतामपनीय ततः पश्चादुपागते भिक्षाकालेऽविकृतवदनः प्राधूर्णकभिक्षुमि सार्द्धं गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रवेक्ष्यामि निष्क्रमिष्यामि चेत्यभिसन्धिना मातृस्थानं संस्पृशेदसावित्यतः प्रतिषिध्यते नैवं कुर्यादिति ॥ कथं च कुर्यादित्याह
'सः' भिक्षु तत्र 'ग्रामादी प्राधूर्णकभिक्षुमि सार्द्धं 'कालेन' भिक्षावसरेण प्राप्तेन गृहपतिकुलमनुप्रविश्य तत्र 'इतरेतरेभ्यः' उञ्चावचेभ्यः कुलेभ्यः 'सामुदानिकं' भिक्षापिण्डम् 'एषणीयम्' उद्गमादिदोषरहितं 'वैषिकं' केवलवेषावाप्तंधात्रीदूतनिमित्तादिपिण्डदोषरहितं 'पिण्डपातं ' भैक्षं प्रतिगृह्य प्राघूर्णकादिभिः सह ग्रासैषणादिदोषरहितमाहारमाहारयेद्, एतत्तस्य भिक्षोः 'सामग्र्यं' संपूर्णो भिक्षुभाव इति ।
चूडा-१, अध्ययन नं-१, उद्देशक- ४ समाप्त :
चूडा-१, अध्ययन नं-१, उद्देशक - ५
वृ. उक्तश्चतुर्थोद्देशकः, अधुना पञ्चमः समारभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरोद्देशके पिण्डग्रहणविधिरभिहितः, अत्रापि स एवाभिधीयत इत्याह
मू. (३५९) से भिक्खू वा २ जाव पविट्टे समाणे से जं पुण जाणिज्जा-अग्गपिंडंउक्खिप्पमाणं पेहाए अग्गपिंडं निक्खिप्पमाणं पेहाए अग्गपिंडं हीरमाणं पेहाए अग्गपिंडं परिभाइजमाणं पेहाए अग्गपिंडं परिभुंजमाणं पेहाए अग्गपिंडं परिट्ठविजमाणं पेहाए पुरा असिणाइ वा अवहाराइ वा पुरा जत्थऽण्णे समण वणीमगा खद्धं २ उवसंकमंति से हंता अहमवि खद्धं २ उवसंकमामि, माइट्ठाणं संफासे, नो एवं करेजा ।।
वृ. समिक्षुर्गृहपतिकुलं प्रविष्टः सन् यत्पुनरेवं जानीयात्तद्यथा - अग्रपिण्डो- निष्पन्नस्य शाल्योदनादेराहारस्य देवताद्यर्थं स्तोकस्तोकोद्धारस्तमुत्क्षिप्यमाणं दृष्ट्वा, तथाऽन्यत्र निक्षिप्यमाणं, तथा 'ह्रियमाणं' नीयमानं देवतायतनादौ, तथा 'परिभज्यमानं' विभज्यमानं स्तोकं स्तोकमन्येभ्यो दीयमानं, तथा परिभुज्यमानं, तथा परित्यज्यमानं देवायतनाच्चतुर्दिक्षुक्षिप्यमाणं, तथा 'पुरा असिणाइ व' त्ति- 'पुरा' पूर्वमन्ये श्रमणादयो येऽमुमग्रपिण्डमशितवन्तः ।
तथा पूर्वमपहतवन्तो व्यवस्थायऽव्यवस्थया वा गृहीतवन्तः, तदभिप्रायेण पुनरपि पूर्वमिव वयमत्र लप्स्यामह इति यत्राग्रपिण्डादौ श्रमणादयः 'खद्धं खद्धं' ति त्वरितं त्वरितमुप- संक्रामन्ति, स भिक्षुरेतदपेक्ष्य कश्चिदेवं 'कुर्याद्' आलोचयेद्, यथा 'हन्त' इति वाक्योपन्या सार्थं अहमपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org