________________
३३८
आचाराङ्ग सूत्रम् २/१/१/२/३४७
-: -: चूडा-१, अध्ययन-१, उद्देशक-३ :
बृ. उक्तो द्वितीयः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्ध - इहानन्तरोद्देशके दोषसंभवात्सङ्घडिगमनं निषिद्धं, प्रकारान्तरेणापि तद्गतानेव दोषानाह
मू. (३४८) से एगइओ अन्नयरं संखडिं आसित्ता पिबित्ता छड्डिज वा वमिज्ज वा भुत्ते वा से नो सम्मं परिणमिज्जा अन्नयरे वा से दुक्खे रोगायंके समुप्पज्जिज्जा केवली बूया आयाणमेयं ॥
वृ. सभिक्षु 'एकदा ' कदाचिद् एकचरो वा 'अन्यतरां' काञ्चित्पुरः सङ्घडिं पश्चात्सङ्घडिं वा ‘सङ्घडि’मिति सङ्घडिमत्कम् 'आस्वाद्य' भुक्त्वा तथा पीत्वा शिखरिणीदुग्धादि, तञ्चातिलोलुपतया रसगुद्धयाऽऽहारितं सत् 'छड्डेज वा' छर्दि विदध्यात्, कदाचिञ्चापरिणतं सद्विशूचिकां कुर्यात्, अन्यतरो वा रोगः- कुष्ठादिकः आतङ्कस्त्वाशुजीवितापहारी शूलादिकः समुत्पद्येत, केवली - सर्वज्ञो बूयात्, यथा 'एतत्' सङ्खडीभक्तम् 'आदानं' कर्मोपादानं वर्त्तत इति । यथैतदादानं भवति तथा दर्शयति ।
मू. (३४९) इह खलु भिक्खू गाहावईहि वा गाहावईणीहिं वा परिवायएहिं वा परिवाईयाहिं वा एगज्जं सद्धिं सुंडं पाउं जो वइमिस्सं हुरत्था वा उवस्सयं पडिलेहेमाणो नो लभिज्जा तमेव उवस्सयं संमिस्सीभावभावज्जिज्जा, अन्नमणे वा से मत्ते विप्परियासियभूए इत्थिविग्गहे वा क्लिवे वा तं भिक्खु उवसंकमित्तु बूया ।
आउसंतो समणा ! अहे आरामंसि वा अहे उवस्सयंसि वा राओ वा वियाले वा गामधम्मनियंतियं कड्ड रहस्सियं मेहुणधम्मपरियारणाए आउट्टामो, तं चेवेगईओ सातिज्जिज्जाअकरणिज्जं चेयं संखाए एए आयाणा (आयतणाणि) संति संविजमाणा पञ्चवाया भवंति, तम्हा से संजए नियंठे तहप्पगारं पुरेसंखडिं वा पच्छासंखडिं वा संखडिं संखडिपडियाए नो अभिसंधारिजा गमणाए ॥
बृ. 'इहे' ति सङ्घडिस्थानऽस्मिन् वा भवेऽमी अपायाः आमुष्मिकास्तु दुर्गतिगमनादयः, खलुशब्दोवाक्यालङ्कारे, भिक्षणशीलो भिक्षु गृहपतिभिस्तद्भार्याभिर्वापरिव्राजकैः परिव्राजिकाभिर्वा सार्द्धमेकद्यम-एक-वाक्यतया संप्रधार्य 'सोंडं' ति सीधुमन्यद्वा प्रसन्नादिकं 'पातुं' पीत्वा ततः 'हुरवत्था वा' बहिर्वा निर्गत्योपाश्रयं याचेत, यदा च प्रत्युपेक्षमाणो विवक्षितमुपाश्रयं न लभेत ततस्तमेवोपाश्रयं यत्रासौ सङ्घडिस्तत्रान्यत्र वा गृहस्थपरिव्राजिकादिभिर्मिश्रीभावमापद्येत, तत्र घासावन्यमना मत्तो गृहस्थादिको विपर्यासीभूत आत्मानं न स्मरति, स वा भिक्षुरात्मानं न स्मरेत्, अस्मरणाञ्चैवं चिन्तयेद्-यथाऽहं गृहस्थ एव, यदिवा स्त्रीविग्रहे शरीरे 'विपर्यासीभूतः ' अध्युपपन्नः 'क्लीबे वा' नपुंसके वा, सा च स्त्री नपुंसको वा, तं भिक्षुम् 'उपसङक्रम्य' आसन्नीभूय ब्रूयात्, तद्यथा - आयुष्मन् ! श्रमण ! त्वया सहैकान्तमहं प्रार्थयामि, तद्यथा - आरामे वोपाश्रये वा कालश्च रात्रौ वा विकाले वा, तं भिक्षु ग्रामधर्मै- विषयोपभोगगतैव्यापरिर्नियन्त्रितं कृत्वा, तद्यथा-मम त्वया विप्रियं न विधेयं, प्रत्यहमहमनुसर्पणीयेति, एवमादिभिर्नियम्य ग्रामासन्ने वा कुत्रचिद्रहसि मिथुनं - दाम्पत्यं तत्र भवं मैथुनम् - अब्रह्मेति तस्य धर्मा-तद्गता व्यापारास्तेषा परियारणा- आसेवना तया 'आउट्टामो' त्ति प्रवर्त्तामहे, इदमुक्तं भवति ।
साधुमुद्दिश्य रहसि मैथुनप्रार्थनां काचित्कुर्यात्, तां चैकः कश्चिदेकाकी वा 'आयतनानि' कर्म्मपादानकारणानि 'सन्ति' भवन्ति 'संचीयमानानि ' प्रतिक्षणमुपचीयमानानि, इदमुक्तं भवति
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International