SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं -१, उद्देशकः२ ३३७ स भिक्षुर्यदि 'प्राचीनां' पूर्वस्यां दिशि संखडिं जानीयात्ततः 'प्रतीचीनम्' अपरदिग्भागं गच्छेत्, अथ प्रतीचीनां जानीयात्ततः प्राचीनं गच्छेत्, एवमुत्तरत्रापि व्यत्ययो योजनीयः, कथं गच्छेत् ? - ‘अनाद्रियमाणः' सङ्खडिमनादरयन्नित्यर्थ, एतदुक्तं भवति-यत्रैवासी सङ्घडि स्यात्तत्रर न गन्तव्यमिति, क व चासौ स्यादिति दर्शयति, तद्यथा-ग्रामे वा प्राचुर्येण ग्रामधर्मोपेतत्वात्, करादिगम्यो वा ग्रामः, नास्मिन् करोऽस्तीति नकरं, धूलिप्राकारोपेतं खेटे, कर्बर्ट-कुनगरं, सर्वतोऽर्द्धयोजन-परेण स्थितग्रामंमडम्बंपत्तनं-यस्यजलस्थलपथयोरन्यतरेणपर्याहारप्रवेशः, आकरः-ताम्रा-देरुत्पत्तिस्थानं, द्रोणमुखं-यस्य जलस्थलपथावुभावपि, निगमा वणिजस्तेषां स्थानं नैगमम्, आश्रमं यत्तीर्थस्थानं, राजधानी-यत्र राजा स्वयंतिष्ठति, सन्निवेशोयत्रप्रभूतानांभाण्डानां प्रवेश इति। तत्रैतेषुस्थानेषुसङ्घडिं ज्ञात्वा सङ्घडिप्रतिज्ञया नगमनम् अभिसंधारयेत्' न पर्यालोचयेत्, किमिति?,यतः केवली ब्रूयात् ‘आदानमेतत् कर्मोपादानमेतदिति, पाठान्तरंवा 'आययणमेयंति आयतनं-स्थानमेतद्दोषाणां यत्सङ्खडीगमनमिति, कथं दोषाणामायतनमिति दर्शयति-'संखडिं संखडिपडियाए'त्ति, या या सङ्खिडस्तांताम् 'अभिसन्धारयतः'तप्रतिज्ञया गच्छतःसाधोरवश्यमे तेषां मध्येऽन्यतमो दोषः स्यात्, तद्यथा-आधाकर्म वा औद्देशिकं वा मिश्रजातं वा क्रीतकृतं वा उद्यतकं वा आच्छेद्यं वा अनिसृष्टमभ्याहृतमि एतेषां दोषाणामन्यतमदोषदुष्टं भुञ्जीत, स हि प्रकरणकत्तैवमभिसंधारयेत्-यथाऽयं यतिर्मत्प्रकरणमुद्दिश्येहायातः, तदस्य मया येन केनचित्प्रकारेण देयमित्यभिसन्धायाधाकर्मादि विदध्यादिति, यदिवा यो हि लोलुपतया सङ्खडिप्रतिज्ञया गच्छेत् स तत एवाधाकर्माद्यपि भुञ्जीतेति । किञ्च-सङ्खडिनिमित्तमागच्छतः साधूनुद्दिश्य गृहस्थ एवंभूता वसतीः कुर्यादित्याह 'असंयतः' गृहस्थःसच श्रावकः प्रकृतिभद्रकोवास्यात्, तत्रासौ साधुप्रतिज्ञयाक्षुद्रद्वाराःसङ्कटद्वाराः सत्यस्ता महाद्वाराः कुर्यात्, व्यत्ययं वा कार्यापेक्षया कुर्यात्, तथा सभाः शय्यावसतयो विषमाः सागारिकापातभयात् कुर्यात्, साधुसमाधानार्थंवा व्यत्ययं कुर्यात्, तथाप्रवाताः शय्याः शीतथभयान्निवाताः कुर्यात्, ग्रीष्मकालापेक्षया वा व्यत्ययं विदध्यादिति, तथाऽन्तःमध्ये उपाश्रयस्य बहिर्वा हरितानि छित्त्वा छित्त्वा विदार्य विदार्य उपाश्रयं संस्कर्यात्, संस्तारकं वा संस्तारयेत्, गृहस्थश्चानेनाभिसन्धानेन संस्कर्याद् । यथैषः- साधुः शय्यायाः संस्कारे विधातव्ये 'विलुंगयामो त्तिनिर्ग्रन्थः अकिञ्चन इत्यतः सगृहस्थः कारणेसंयतो वा स्वयमेव संस्कारयेदित्युपसंहरति-तस्मात् तथाप्रकाराम्' अनेकदोषदुष्टां सङ्घडिं विज्ञाय सा पुरःसङ्घडि पश्चात्सङ्घडिर्वा भवेत्, जातनामकरणविवाहादिका पुरःसङ्खडि तथा मृतकसङ्खडिपश्चात्सङ्खडिरिति, यदिवापुरः अग्रतः सङ्खडिर्भविष्यतिअतोऽनागतमेवयायात्, वसतिंवा गृहस्थः संस्कुर्यात्, वृत्ता वा सङ्घडिरतोऽत्रतच्छेषोपभोगाय साधवः समागच्छेयुरिति, सर्वथा सर्वां सङ्ग्रडिं सङ्घडिप्रतिज्ञया 'नोऽमिसंधारयेत् न पर्यालोचयेद्गमनक्रियामिति, एवं तस्यभिक्षोः सामग्यं - सम्पूर्णतया भिक्षुभावस्य यत्सर्वथा सङ्खडि वर्जनमिति ॥ चूडा-१, अध्ययनं-१, उद्देशक :२ समाप्तः 1122 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy