________________
३३४
आचाराङ्ग सूत्रम् २/१/१/१/३४३ पाणाए वा पविसिज्ज वा निक्खमिज्ज वा । एयं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं जं सव्वट्ठेहिं समिए सया जए ॥ - त्तिबेमि ॥
वृ. स भिक्षुर्यावद्गृहपतिकुलं प्रवेष्टुकामः से- तच्छब्दार्थे स च वाक्योपन्यासार्थ, यानि पुनरेवंभूतानि कुलानि जानीयात्, तद्यथा-इमेषु कुलेषु 'खलु' वाक्यालङ्कारे 'नित्यं' प्रतिदिनं ‘पिण्डः’दोषो दीयते, तथा अग्रपिण्डः - शाल्योदनादेः प्रथममुध्धृत्य मिक्षार्थं व्यवस्थाप्ये सोऽग्रपिण्डो नित्यं भाग:- अर्धपोषो दीयते, तथा नित्यमुपार्द्धभागः - पोषचतुर्थभागः, तथाप्रकाराणि कुलानि 'नित्यानि ' नित्यदानयुक्तानि नित्यदानादेव ।
'निइउमाणाइ' न्ति नित्यम् 'उमाणं' ति प्रवेशः स्वपक्षपरपक्षयोर्येषु तानि तथा, इदमुक्तं भवति - नित्यलाभात्तेषु स्वपक्ष-संयतवर्ग परपक्षः - अपरभिक्षाचरवर्ग सर्वो भिक्षार्थं प्रविशेत्, तानि च बहुभ्यो दातव्यमिति तथाभूतमेव पाकं कुर्यु, तत्र च षटायवधः, अल्पे च पाके तदन्तरायः कृतः स्यादित्यतस्यानि नो भक्तार्थं पानार्थं वा प्रविशेन्निष्क्रामेद्वेति ॥ सर्वोपसंहारार्थमाह
'एतदिति यदादेरारभ्योक्तं खलुशब्दो वाक्यालङ्कारार्थ, एतत्तस्य भिक्षोः 'सामग्र्यं' समग्रता यदुद्गमोत्पादनग्रहणैषणासंयोजनाप्रमाणेङगालधूमकारणैः सुपरिशुद्धस्य पिण्डस्योपादानं क्रियते तज्ज्ञानाचारसामग्र्यं दर्शनचारित्रतपोवीर्याचारसंपन्नता चेति, अथवैतत्सामग्र्यं सूत्रेणैव दर्शयतियत् 'सर्वाथैः' सरसविरसादिभिराहारगतैः यदिवा रूपरसगन्धस्पर्शगतैः सभ्यगितः समितः, संयत इत्यर्थ, पञ्चभिर्वा समितिभिः समितः शुभेतरेषु रागद्वेषविरहित इतियावत्, एवंभूतश्च सह हितेन वर्त्तत इति सहितः सहितो वा ज्ञानदर्शनचारित्रैः, एवंभूतश्च सदा 'यतेत' संयमयुक्तो भवेदित्युपदेशः, ब्रवीमीति जम्बूनामानं सुधर्मस्वामीदमाह-भगवतः सकाशाच्छ्रुत्वाऽहं ब्रवीमि, न तु स्वेच्छयेति । शेषं पूर्ववदिति ।
चूडा-१ अध्ययन : १ उद्देशकः -१ समाप्तः
-: चूडा-१ अध्ययन : १ उद्देशक-२ :
बृ. उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरोद्देशके पिण्डः प्रतिपादितस्तदिहापि तद्गतामेव विशुद्धकोटिमधिकृत्याह
मू. (३४४) से भिक्खू वा भिक्खुणी वा गाहावइकुलं पिंडवायपडियाए अनुपविट्ठे समाणे से जंपुर्ण जाणिज्जा असणं वा ४ अट्ठमि-पोसहिएसु वा अद्धमासिएसु वा मासिएसु वा दोमासिएसु वा तेमासिएसु वा चाउम्मासिएसु वा पंचमासिएसु वा छम्मासिएसु वा उऊसु वा उउसंधीसु वा उउपरियट्टेसु वा बहवे समणमाहणअतिहिकिवणवणीमगे ।
एगाओ उक्खाओ परिएसिजमाणे पेहाए दोहिं उक्खाहिं परिएसिजमाणे पेहाए तिहिं उक्खाहिं परिएसिजमाणे पेहाए कुंभीमुहाओ वा कलोवाइओ वा संनिहिसंनिचयाओ वा परिएसिज्रमाणे पेहाए तहप्पगारं असणं वा ४ अपुरिसंतरकडं जाव अणासेवियं अफासुयं जाव नो पडिग्गाहिज्जा । अह पुण एवं जाणिज्जा पुरिसंतरकडं जाव आसेवियं फासूयं पडिग्गाहिज्जा ॥ वृ. स भावभिक्षुर्यत्पुनरशनादिकमाहारभेवंभूतं जानीयात्, तद्यथा- अष्टम्यां पौषधःउपवासादिकोऽष्टमीपौषधः स विद्यते येषा तेऽष्टमीपौषधिका उत्सवाः तथाऽर्द्धमासिकादयश्च ऋतुसन्धि-ऋप्तोः पर्यवसानम् ऋतुपरिवर्त्ताः - ऋत्वन्तरम्, इत्यादिषु प्रकरणेषु बहून् श्रमणब्राह्म
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org