________________
श्रुतस्कन्धः-२, चूडा-१, अध्ययनं-१, उद्देशक:१
३३३
पुरुषान्तरं तत्कृतं वा अपुरुषान्तरकृतं वा।
तथा तेनैव दात्रा कृतं, तथा गृहानिर्गतमनिर्गतंवा, तथा तेनैव दात्रा स्वीकृतमस्वीकृतं वा, तथा तेनैव दात्रा तस्माद्बहुपरिभूक्तमपरिभूक्तं वा, तथा स्तोकमास्वादितमनास्वादितं वा, तदेवमप्रासुकमनेषणीयं च मन्यमानो लाभे सति न प्रतिगृह्णीयादिति । एतञ्च प्रथमचरमतीर्थकृतोरकल्पनीयं,मध्यमतीर्थकराणांचान्यस्यकृतमन्यस्यकल्पतइति एवंबहून्साधर्मिकान समुद्दिश्य प्राग्वञ्चर्च। तथा साध्वीसूत्रमप्येकत्वबहुत्वाभ्यां योजनीयमिति॥
पुनरपि प्रकारान्तरेणाविशुद्धिकोटिमधिकृत्याह
मू. (३४१) से भिक्खू वा० जाव समाणे से जंपुण जाणिज्जा असणं वा ४ बहवे समणा माहणाअतिहि किवणवणीमएपगणिय२ समुद्दिस्स पाणाइंवा ४ समारब्भजावनोपडिग्गाहिजा
वृ. स भावभिक्षुर्यावद्गृहपतिकुलं प्रविष्टस्तद्यत्पुनरेवंभूतमशनादि जानीयात्, तद्यथाबहून् श्रमणानुद्दिश्य, ते च पञ्चविधाः-निर्ग्रन्थशाक्यतापसगैरिकाजीविका इति, ब्राह्मणान् भोजनकालोपस्थाप्यपूर्वो वाडतिथिस्तानिति कृपणा दरिद्रास्तान् वणीमका-बन्दिप्रायास्तानपि श्रमणादीन् बहून् ‘उद्दिश्य'
प्रगणय्य प्रगणय्योद्दिशति, तद्यथा-द्वित्राः श्रमणाः पञ्चषाः ब्राह्मणा इत्यादिना प्रकारेण श्रमणादीन् परिसङख्यातानुद्दिश्य, तथा प्राण्यादीन् समारभ्य यदशनादि संस्कृतं तदासेवितमनासेवितं वाऽप्रासुकमनेषणीयमाधाकर्म, एवं मन्यमानो लाभेसतिनप्रतिगलीयादिति विशोधिकोटिमधिकृत्याह
मू. (३४२) से भिक्खू वा० भिक्खूणी वा जाव पविढे समाणे सेजंपुण जाणिज्जा-असणं वा ४ बहवे समणा माहणा अतिहिं किवणवणीमए समुद्दिस्स जावचेएइतंतहप्पगारंअसणंवा ४ अपुरिसंतरकडं वाअबहियानीहडं अणत्तट्ठियं अपरिभुतंअणासेवियं अफासुयं अणेसणिणं जाव नो पडिग्गाहिज्जा । अह पुण एवं जाणिज्जा पुरिसंतरकडं बहिया नीहडं अत्तट्ठियं परिभुत्तं आसेवियं फासुयं एसणिजंजावपडिग्गाहिज्जा ॥
वृ. स भिक्षुर्यत्पुनरशनादि जानीयात्, किंभूतमिति दर्शयति-बहून् श्रमणब्राह्मणातिथिकृपणवणीमकान्समुद्दिश्यश्रमणाद्यर्थमिति यावत्, प्राणादींश्च समारभ्ययावदाहृत्य कश्चिद् गृहस्थो ददाति, तत्तथाप्रकारमशनाद्यपुरुषान्तरकृतमबहिर्निर्गतमनात्मीकृतमपरिभुक्तमनासेवितमप्रासुकमनेषणीयं मन्यमानो लाभे सतिन प्रतिगृह्णीयात् । इयं च “जावंतिया भिक्ख" त्ति, एतद्गत्ययेन ग्राह्यमाह-अथशब्दःपूवपिक्षीपुनःशब्दोविशेषणार्थअथसभिक्षु पुनरेवंजानीयात्, तद्यथा-'पुरुषान्तरकृतम्' अन्यार्थकृतंबहिर्निर्गतमात्मीकृतंपरिभुक्तमासेवितंप्रासुकमेषणीयं च ज्ञात्वा लाभे सति प्रतिगृह्णीयात्, इदमुक्तं भवति-अविशोधिकोटिर्यथा तथा न कल्पते, विशोधिकोटिस्तु पुरुषान्तरकृतात्मीयकृतादिविशिष्टा कल्पत इति ॥
विशुद्धि-कोटिमधिकृत्याह
मू. (३४३) से भिक्खू वाभिक्खुणी वा गाहावइकुलं पिंडवायपडियाएपविसिउकामे से जाइं पुण कुलाइं जाणिज्जा-इमेसु खलु कुलेसु निइए पिंडे दिज्जइ अग्गपिंडे दिज्जइ नियए माए दिज्जइ नियए अवड्ढभाए दिज्जइ, तहप्पगाराई कुलाई निइयाइं निइउमाणाइं नो भत्ताए वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org