________________
श्रुतस्कन्धः-२, चूडा-१, अध्ययनं-१, उद्देशक:
३३१ उर्ध्वपाटिताः 'तिरश्चीनच्छिन्नाः कन्दलीकृताःतथा तरुणिकांवाफलींजीवितादपक्रान्तां भग्नां चेति, तदेवंभूतमाहारजातं प्रासुकमेषणीयं च मन्यमानो लाभे सति कारणे गृह्णीयादिति । ग्राह्याग्राह्याधिकार एवाहार विशेषमधिकृत्याह
मू. (३३७) से भिक्खू वा० जाव समाणे से जंपुण जाणिज्जा-पिहुयंबहुरयंवा जियंवा मंथु वा चाउलं वा चाउलपलंबं वा सइं संभजियंसफासुयं जाव नो पडिगाहिज्जा ॥ से भिक्खू वा० जाव समाणे सेजंपुण जाणिज्जा-पिहुयं वाजाव चाउलपलंबं वाअसई भजियंदुक्खुत्तो वा तिक्षुत्तो वा भज्जियं फासुयं एसणिज्जंजाव पडिगाहिज्जा॥
वृ. स भावभिक्षुर्गृहपतिकुलं प्रविष्टः सन् इत्यादि पूर्ववद्यावत् 'पिहुयं वत्ति पृथुकं जातावेकवचनं नवस्य शालिव्रीह्यादेरग्ना ये लाजाः क्रियन्ते त इति, बहु रजः- तुषादिकं यस्मिंस्तद्बहुरजः, 'भुज्जियन्ति अग्न्यर्द्धपक्वंगोधूमादेः शीर्षकमन्यद्वा तिलगोधूमादि, तथा गोधूमादेः “मन्थु चूर्णं तथा 'चाउलाः' तन्दुलाः शालिव्रीह्यादेः त एव चूर्णीकृतास्तत्कणिका वा चाउलपलंबंति, तदेवंभूतं पृथुकाद्याहारजातं ।
सकृद्एकवारं संभज्जियंतिआमर्दितंकिञ्चिदग्निना किञ्चिदपरशस्त्रेणाप्रासुकमनेषणीयं मन्यमानो लाभे सति न प्रतिगृह्णीयात् । एतद्विपरीतं ग्राह्यमित्याह-पूर्ववत्, नवरं यदसकृद्अनेकशोऽग्यादिना पक्वमामर्दितं वा दुष्पक्वादिदोषरहितं प्रासुकं मन्यमानो लाभे सति गृहणीयादिति ॥साम्प्रतं गृहपतिकुलप्रवेशविधिमाह
मू. (३३८) सेभिक्खूवा भिक्खूणी वा गाहावइकुलंजाव पविसिउकामे नो अन्नउत्थिएण वागारथिएणवा परिहारिओवाअप्परिहारिएणं सद्धिंगाहावइकुलं पिंडवायपडियाएपविसिज वा निक्खमिज्ज वा ।। से भिक्खू वा० बहिया वियारभूमि वा विहारभूमि वा निक्खममाणे वा पविसमाणे वा नो अन्नउत्थिएण वा गारथिएण वा परिहारिओ वा अपरिहारिएण सद्धिं बहिया वियारभूमिं वाविहारभूमिं वानिक्खमिज्ज वा पविसिज्ज वा ॥से भिक्खूवा गामाणुगामंदूइज्जमाणे नो अनउत्थिएण वा जाव गामाणुगामं दूइजिज्जा ॥
वृ. स भिक्षुर्यावद्गृहपतिकुलं प्रवेष्टुकाम एभिर्वक्ष्यमाणैः सार्द्धन प्रविशेत् प्राक् प्रविष्टो वाननिष्कामेदितिसम्बन्धः ।यैः सहनप्रवेष्टव्यंतान्स्वनामग्राहमाह-तत्रान्यतीर्थिकाः-सरजस्कादयः 'गृहस्थाः' पिण्डोपजीविनो धिग्जातिप्रभृतयः, तैः सह प्रविशताममी दोषाः, तद्यथा-ते पृष्ठतो वा गच्छेयुरग्रतो वा, तत्राग्रतो गच्छन्तो यदि साध्वनुवृत्त्या गच्छेयुस्ततस्तत्कृतईप्रित्ययः कर्मबन्धः प्रवचनलाघवंच, तेषां वा स्वजात्याद्युत्कर्षइति, अथ पृष्ठतस्ततस्तप्रद्वेषो दातुर्वाऽभद्रकस्य, लाभंच दाता संविभज्य दद्यात्तेनावमौदर्यादौ दुर्भिक्षादौ प्राणवृत्तिर्न स्यादित्येवमादयो दोषाः, तथापरिहरणं-परिहारस्तेनचरतिपारिहारिकः-पिण्डदोषपरिहरणादुद्युक्तविहारीसाधुरित्यर्थ
सएवंगुणकलितंसाधुः 'अपरिहारिकेण पार्श्वस्थावसन्नकुशीलसंसक्तयथाच्छन्दरूपेण नप्रविशेत, तेन सह प्रविष्ठानामनेषणीय भिक्षाग्रहणाग्रहणकृता दोषाः, तथहि-अनेषणीयग्रहणे तत्प्रवृत्तिरनुज्ञाता भवति, अग्रहणे तैः सहा सङ्खडादयो दोषाः, तत एतान् दोषान् ज्ञात्वा साधुगृहपतिकुलं पिण्डपा-तप्रतिज्ञयातैःसहनप्रविशेनापि निष्कामेदिति॥तैः सह प्रसङ्गतोडन्य त्रापिगमन प्रतिषमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org