________________
३३०
आचाराङ्ग सूत्रम् २/१/१/१/३३५
__ यश्चाहारादिकं पातुं भोक्तुंवा न शक्नुयायाचुर्यादशुद्ध पृथक्करणासम्भवाद्वा स भिक्षु 'तद्' आहारजातमादायैकान्तमपक्रामेत, अपक्रम्य च तदाहारजातं परिष्ठापयेत् 'त्यजेदिति सम्बन्धः, यत्र च परिष्ठापयेत्तदर्शयति-'अथ' आनन्तर्यार्थे वाशब्द उत्तरापेक्षया विकल्पार्थ : 'झामे' ति दग्धं तस्मिन् वा स्थण्डिलेऽस्थिराशी वा किट्टो-लोहादिमलस्तद्राशी वा तुषराशौ वा गोमयराशौ वा, कियद्वा वक्ष्यते इत्युपसंहरति-अन्यतरराशी वा तयाप्रकारे पूर्वसशे प्रासुके स्थण्डिले गत्वा तत्प्रत्युपेक्ष्य प्रत्युपेक्ष्यअक्षणाप्रमृज्य २ रजोहरणादिना, अत्रापिद्विवचनमादरख्यापनार्थमिति, प्रत्युपेक्षप्रमार्जनपदाभ्यांसप्तभङ्गका भवन्ति, तद्यथा।अप्रत्युपेक्षितमप्रमार्जितम् १, अप्रत्युपेक्षितं प्रमार्जितं २, प्रत्युपेक्षितमप्रमार्जितं ३, तत्राप्यपयुपक्ष्य प्रमृजन् स्थानात्स्थानसङक्रमणेन त्रसान् विराधयति, प्रत्युपेक्ष्याप्यप्रमृजनागन्तुकपृथ्वीकायादीन् विराधयतीति, चतुर्थभङ्गकेतु चत्वारोऽमी, तद्यथा-दुष्प्रत्युपेक्षितंदुष्प्रमार्जितं ४, दुष्प्रत्युपेक्षितं सुप्रमार्जितं५, सुप्रत्युपेक्षितंदुष्प्रमार्जित ६, सुप्रत्युपेक्षतंसुप्रमार्जितमिति७, स्थापना।तत्रैवंभूते सप्तभमझायाते स्थण्डिले संयत एव' सम्यगुपयुक्त एव शुद्धाशुद्धपुअभागपरिकल्पनया परिष्ठापयेत् ॥
साम्प्रतमौषधि-विषयं विधिमाह
'मू. (३३६) से भिक्खू वा भिक्खूणी वा गाहावइ जाव पविढे समाणे से जाओ पुण ओसहीओजाणिज्जा-कसिणाओ सासिवाना अविदलकडाओआतेरिच्छच्छिन्नाओअवुच्छिन्नाओ तरुणियं वा छिवाडिं अणभिकंतभजियं पेहाए अफासुयं अणेसणिजंति मन्त्रमाणे लाभे संते नो पडिग्गाहिजा ॥सेभिक्खूवा० जावपविढेसमाणेसेजाओपुण ओसहीओजाणिज्जा-अकसिणाओ असासियाओ विदलकडाओ तिरिच्छछिन्नाओ वुच्छिन्नाओ तरुणियं वा छिवाडिं अभिक्वंतं भज्जियं पेहाए फासुयं एसणिजंति मन्त्रमाणे लाभे संते पडिग्गाहिज्जा ॥
वृ.सभावभिक्षुर्गृहपतिकुलंप्रविष्टःसन्याः पुनः “औषधीः" शालिबीजादिकाः एवंभूता जानीयात्, तद्यथा-'कसिणाओ'त्ति 'कृत्स्नाः ' सम्पूर्णा अनुपहताः, अत्र च द्रव्यभावाभ्यां चतुर्भङ्गिका, तत्र द्रव्यकृत्स्ना अशस्त्रोपहताः, भावकृत्स्नाः सचित्ताः, तत्र कृत्स्ना इत्यनेन चतुर्भङ्गकेष्वाद्यं भङ्गत्रयमुपात्तं, 'सासियाओ ति, जीवस्य स्वाम्-आत्मीयामुत्पत्तिं प्रत्याश्रयो यासु ताः स्वाश्रयाः, अविनष्टयोनय इत्यर्थ, आगमे च कासाश्चिदौषधीनामविनष्टो योनिकालः पठ्यते, तदुक्तम्-“एतेसिणंभंते! सीलाणं केवइअंकालं जोणी संचिट्ठइ?" इत्याद्यालापकाः _ 'अविदलकडाओ तिनद्विदलकृताःअद्विदलकृताः, अनूपाटिता इत्यर्थः ‘अतिरिच्छच्छिन्नाओ'त्ति तिरश्चीनं छिनाः- कन्दलीकृतास्तप्रतिषेधादतिरश्चीनच्छिन्नाः, एताश्च द्रव्यतः कृत्स्ना भावतो भाज्याः, 'अव्वोच्छिन्नाओ' ति व्यवच्छिन्ना-जीवरहिता न व्यवच्छिन्नाः अव्यवच्छिन्नाः, भावतः कृत्स्ना इत्यर्थ, तथा 'तरुणियंवा छिवार्डि'ति, 'तरुणीम्' अपरिपक्वां 'छिवाडि' न्तिमुद्गादेःफलिं, तामेव विशिनष्टि-'अनभिक्कंतभज्जिय'न्ति, नाभिक्रान्ता जीविताद् अनभिक्रान्ता, सचेतनेत्यर्थ, 'अभज्जियं' अभग्नाम्-अमर्दितामविराधितामित्यर्थ, इति प्रेक्ष्य' दृष्ट्वा तदेवंभूत-माहारजातमप्रासुकमनेषणीयं वा मन्यमानो लाभे सति न प्रतिगृह्णीयात।
___साम्प्रतमेतदेव सूत्रं विपर्ययेणाह-स एव भावभिक्षुर्याःपुनरौषधीरेवंजानीयात्, तद्यथा'अकृत्स्नाः' असम्पूर्णा द्रव्यतो भावतश्चपूर्ववचर्चः 'अस्वाश्रयाः विनष्टयोनयः, 'द्विदलकृताः'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org