________________
३२६
आचाराङ्ग सूत्रम् २/-///- [नि. २८८ ]
तत्र द्विपदेषु तीर्थकरश्चतुष्पदेषु सिंहः अपदेषु कल्पवृक्ष, अचित्तं वैडूर्यादि मिश्रं तीर्थकर एवालङकृत इति, प्रभूताग्रं त्वापेक्षिकं तद्यथा ।
119 11
"जीवा पोग्गल समया दव्व पएसा य पज्जवा चेव । थोवाऽनंतानंता विसेसमहिया दुवे नंता "
अत्र च यथोत्तरमग्रं, पर्यायाग्रं तु सर्वाग्रमिति, उपकाराग्रंतु यत्पूर्वोक्तस्य विस्तरतोऽनुक्तस्य च प्रतिपादनादुपकारे वर्त्तते तद् यथा दशवैकालिकस्य चूडे, अयमेव वा श्रुतस्कन्ध आचारस्येत्यातोऽत्रोपकाराग्रेणाधिकार इति । आह च नियुक्तिकारः
नि. [ २८९ ]
उवयारेण उ पगयं आयारस्सेव उवरिमाइं तु ।
रुक्खस्स य पव्वयस्स य जह अग्गाई तयाइं ॥
वृ. उपकाराग्रेणात्र प्रकृतम-अधिकारः, यस्मादेतान्याचारस्यैवोपरि वर्त्तन्ते, तदुक्तविशेषवादितया तत्संबद्धानि, यथा वृक्षपर्वतादेरग्राणीति । शेषाणि त्वग्राणि शिष्यमतिव्युत्पत्यर्थमस्य चोपकाराग्रस्य सुखप्रतिपत्त्यर्थमिति, तदुक्तम् ॥
119 11
“उञ्चारि अस्स सरिसं जं केणइ तं परुवए विहिणा । जेहिगारो तंमि उपरुविए होइ सुहगेज्झं "
तत्रेदमिदानी वाच्यं केनैतानि निर्यूढानि ? किमर्थ ? कुतो पेति ?, अत आहनि. [२९० ] थेऽणुगट्ठा सीसहिअं होउ पागडत्थं च ।
आयाराओ अत्थो आयारंगेसु पविभत्तो ॥
वृ. 'स्थविरैः' श्रुतवृद्धैश्चतुर्दशपूर्वविद्भिर्निर्यूढानीति, किमर्थं ? शिष्यहितं भवत्वितिकृत्वाऽनुग्रहार्थ, तथाऽप्रकटोऽर्थ प्रकटो यथा स्यादित्येवमर्थं च, कुतो निर्यूढानि ?, आचारात्सकाशात्मस्तोऽप्पर्थ आचाराग्रेषु विस्तरेण प्रविभक्त इति ॥
साम्प्रतं यद्यस्मान्निर्यूढं तद्विभागेनाचष्ट इतिनि. [२९१]
नि. [२९२]
नि. [२९३]
नि. [२९४]
Jain Education International
बिइअस्स य पंचमए अट्ठमगस्स बिइयंमि उद्देसे । भणिओ पिंडो सिज्जा वत्थं पाउग्गहो चेव ॥ पंचभगस्स चउत्थे इरिया वण्णिज्जई समासेणं । छट्ठस्स य पंचमए भासज्जायं वियाणाहि । सत्तिक्क गाणि सत्तवि निज्जूढाई महापरिन्नाओ । सत्थपरिन्ना भावण निज्जूढा उ धुय विभुत्ती ॥ आयारपकप्पो पुण पञ्चक्खाणस्स तइयवत्थूओ । आयारनामधिज्जा वीसइमा पाहुडच्छेया
बृ. ब्रह्मचर्याध्ययनानां द्वितीयमध्ययनं लोकविजयाख्यं तत्रपञ्चमोद्देशक इदं सूत्रम्“सव्वामगंधं परिन्नाय निरामगंधो परिव्वए" तत्रामग्रहणेन हननाद्यास्तिः कोट्यो गृहीता गन्धोपादानदपरास्तिः, एताः षडप्यविशोधिकोट्यो गृहीताः, ताश्चेमाः - स्वतो हन्ति धातयति ध्नन्तमन्यमनुजानीते, तथा पचति पाचयति पचन्त (मन्य) मनुजानीत इति तथा तत्रैव सूत्रम्
For Private & Personal Use Only
www.jainelibrary.org