________________
श्रुतस्कन्धः - २, उपोद्घात :
३२७
“अदिस्समाणो कयविक्क एहिं "ति, अनेनापि तिनो विशोधिकोट्यो गृहीताः, ताश्चेमाः - क्रीणाति क्रापयति क्रीणन्तमन्यमनुजानीते, तथाऽष्टमस्य-विमोहाध्ययनस्य द्वितीयोद्देशक इदं सूत्रम् - " भिक्खू परक्क मेज्जा चिद्वेज वा निसीएज वा तुयट्टिज्ज वा सुसाणंसि वे" त्यादि यावद् "बहिया विहरिजा तं भिक्खु गाहावती उवसंकमित्तु वएज्जा अहमाउसंतो समणा ! तुब्मट्ठाए असणं वा पाणं वा खाइमं वा साइमं वा पाणाई भूयाइं जीवाई सत्ताइं समारब्य समुद्दिस्स कीयं पामिञ्च" मित्यादि, एतानि सर्वाण्यपि सूत्राण्याश्रित्यैकादश पिण्डैषणा निर्यूढाः ।
तथा तस्मिन्नेव द्वितीयाध्ययने पञ्चमोद्देशके सूत्रम्- “से वत्थं पडिग्गहं कंबलं पायपुंछणं उग्गहं च कडासण” मिति, तत्र वस्त्रंकम्बलंपादपुञ्छनं-ग्रहणाद् वस्त्रैषणा निर्यूढा, पतद्ग्रहपदात् पात्रैषणा निर्यूढा, अवग्रह इत्येतस्मादवग्रहप्रितमा निर्यूढा, कटासनमित्येतस्मच्छय्येति, तथा पञ्चमाध्ययनावन्त्याख्यस्य चतुर्थोद्देशके सूत्रम् - "गामाणुगामं दूइजमाणस्स दुज्जयंदुष्परिक्कं तं" इत्यादिनेर्या सङ्क्षेपेण व्यावर्णितेत्यत एव ईर्याध्ययनं निर्यूढम्, तथा षष्ठाध्ययनस्य धूताख्यस्य पञ्चमोद्देशके सूत्रम् - " आइक्खइ विहयइ किट्टइ धम्मकामी" त्येतस्माद्भाषाजाताध्ययनमकृष्टमित्येवं विजानीयास्त्वमिति । तथा महापरिज्ञाध्ययने सप्तोदेशकास्तेभ्यः प्रत्येकं सप्तापि सप्तैकका निर्यूढाः,
तथा शस्त्रपरिज्ञाध्ययनाद्भावना निर्यूढा, तथा धूताध्ययनस्य द्वितीयचतुर्थोद्देशकाभ्यां विमुक्त्यध्ययनं निर्यूढमिति, तथा 'आचारप्रकल्पः 'निशीथः, स च प्रत्याख्यानपूर्वेस्य यत्त तीयं वस्तु तस्यापि यदाचाराख्यं विंशतितमं प्राभृतं ततो निर्यूढ इति । ब्रह्मचर्याध्ययनेभ्य आचाराग्राणि निर्यूढान्यतो निर्यूहनाधिकारादेव तान्यपि शस्त्रपरिज्ञाध्ययनान्निर्यूढानीति दर्शयतिअव्वोast उ भणिओ सत्यपरिन्नाय दंडनिक्खेवो । विभजमाण तहा तहा होइ नायव्वो ।
नि. [२९५ ]
सो
वृ. 'अव्याकृतः' अव्यक्तोऽपरिस्फुट इतियावत् 'भणितः' प्रतिपादितः, कोडसी ? - 'दण्डनिक्षेपः' दण्डः-प्राणिपीडालक्षणस्तस्य निक्षेपः परित्यागः संयम इत्यर्थ, सच शस्त्रपरिज्ञायामव्यक्तोऽभिहितो यतस्तेन पुनः विभज्यमानः अष्टस्वप्यध्ययनेष्वसावेव तथा तथा अनेकप्रकारो ज्ञातव्यो भवतीति । कथं पुनरयं संयमः सङ्क्षेपाभिहितो विस्तार्यते य इत्याहनि. [२९६] एगविहो पुण सो संजमुत्ति अज्झत्थबाहिरो यदुहा । मणवयणकाय तिविहो चउव्विहो चाउजामोउ
नि. [२९७]
पंच य महव्वयाइं तु पंचहा राइभोअणे छट्ठा । सीलिंगसहस्साणि य आयारस्सप्पवीभागा
अविरतिनिवृत्तिलक्षण एकविधः संयमः, स एवाध्यात्मिकबाह्यभेदाद् द्विधा भवति, पुनर्मनोवाक्काययोगभेदात्त्रिविधः, स ए चतुर्यामभेदाश्चतुर्धा, पुनः पञ्चमहाव्रतभेदात्पञ्चधा, रात्री - भोजन - विरतिपरिग्रहाञ्च षोढा, इत्यादिकया प्रक्रियया भिद्यमानो यावदष्टादशशीलाङ्गसहनपरिमाणो भवतीति । किं पुनरसै संयमस्तत्र तत्र प्रवचने पञ्चमहाव्रतरूपतया मिद्यते य
इत्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org