________________
३२४
आचारागसूत्रम् १/-/९/-/इतश्चैतदेवमङ्गीकर्तव्यं, यतस्तीर्थकृदादिभिः क्रियारहितंज्ञानमप्यफलमुक्तं, उक्तंच॥॥ 'सुबहुं पिसुअमधीतं किं काहि चरणविपहूण(मुक्क)स्स?।
अंधस्सजह पलित्ता दीवसतसहस्सकोडीवि। दृशिक्रियापूर्वकक्रियाविकलत्वात्तस्येति भावः, न केवलं क्षायोपशमिकाज्ज्ञानाक्रिया प्रधाना, क्षायिकादपि,यतःसत्यपिजीवाजीवाद्यखिलवस्तुपरिच्छेदके ज्ञाने समुल्लसितेन व्युपरतक्रियानिवर्तिध्यानक्रियामन्तरेण भवधारणीयकोच्छेदः, तदच्छेदाच न मोक्षावाप्तिरित्यतो न ज्ञानप्रधानं, चरणक्रियायं पुनरैहिकामुष्मिकफलावाप्तिरित्यतः सैव प्रधानभावमनुभवतीति, तदेवं ज्ञानमृते सम्यक्रियाया अभावः, तदभावाश्च तदर्थप्रवृत्तस्य ज्ञानस्य वैफल्यम्।
एवमादीनांयुक्तीनामुभयत्राप्युपलब्धेव्याकुलितमतिः शिष्यपृच्छति-किमिदानीतत्त्वमस्तु?,आचार्यआह-नन्वभिहितमेव विस्मरणशीलो देवानांप्रियो यथाज्ञानक्रियानयौ परस्परसव्यपेक्षौ सकलकर्मकन्दोच्छेदात्मकस्य मोक्षस्य कारणभूताविति, प्रदीप्तसमस्तनगरान्तर्वतिपरस्परोपकार्योपकारकभावावाप्तानाबाधस्थानो पङ्वन्धाविवेति, तथा चोक्तम् - "संजोयसिद्धीऍफलंवदन्ती'त्यादि,स्वतन्त्रप्रवृत्तीतुनविवक्षितकार्यसाधयतइत्येतच्च प्रसिद्धमेव, यथा 'हयं नाण'मित्यादि, आगमेऽपि सर्वनयोपसंहारद्वारेणायमेवार्थोऽभिहितो, यथा॥१॥ 'सव्वेसिपि नयाणंबहुविहवत्तवयं निसामेत्ता।
तंसव्वणयविसुद्धं जंचरणगुणट्ठिओ साहू॥त्ति', तदेतदाचाराङ्गं ज्ञानक्रियात्मकं अधिगतसम्यक्पथानां कुश्रुतसरित्कषायझषकुलाकुलं प्रियविप्रयोगाप्रियसंप्रयोगाद्यनेकव्यसनोपनिपातमहावत मिथ्यात्वपवनेरणोपस्थापितभयशोकहास्यत्यरत्यादितरङ्गं विश्रसावेलाचितंव्याधिशतनक्रचक्रालयंमहागम्भीररंभयजननंपश्यतां त्रासोत्पादकंमहासंसारार्णवंसाधूनामुत्तितीर्षतांतदुत्ततरणसमर्थमव्याहतंयानपात्रमिति, अतो मुमुक्षुणाऽऽत्यन्तिकैकान्तिकानाबाधंशाश्वतमनन्तमजरममरमक्षयमव्याबाधमुपरतसमस्तुद्वन्द्वं सम्यग्दर्शनज्ञानव्रतचरणक्रियाकलापोपेतेन परमार्थपरमकार्यमनुत्तमं मोक्षस्थानं लिप्सुना समालम्बनीयमिति तदात्मकस्य ब्रह्मचर्याख्यश्रुतस्कन्धस्य निर्वृतिकुलीनश्रीशीलाचार्येण तत्त्वादित्यापरनाम्ना वाहरिसाधुसहायेन कृता टीका परिसमाप्तेति॥
द्वासप्तत्यकेषु हि शतेषु सप्तसु गतेषु गुप्तानाम् ।
संवत्सरेषु मासिच भाद्रपदे शुक्लपञ्चम्याम् ॥२॥ शीलाचार्येण कृता गम्भूतायां स्थितेन टीकैषा।
सम्यगुपयुज्य शोध्यं मात्सर्यविनाकृतैरायेंः ॥३॥ कुत्व: ।ऽचारस्य मया टीकां गत्किमपि संचितं पुण्यम्।
नाप्नुयाज्जगदिदं निर्वृतिमतुलां सदाचारम् ॥४॥ वर्णः पदमथ वाक्यं पद्यादिच यन्मया परित्यक्तम् ।
। तच्छोधनीयमत्रच व्यामोहः कस्य नो भवति?
- प्रथम श्रुतस्कन्धः समाप्तः मुनिदीपरलसागरेण संशोधिता-सम्पादिता शीलाशचार्यविरचिता नवमअध्ययनटीका एवं प्रथम श्रुतस्कन्धस्य टीका परिसमाप्ता॥
॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org