SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं:९ ३२३ सम्मत्यादौ लक्षणतो विधानतश्च न्यक्षेणाभिहिता इति । अध्ययनं-९ समाप्तम् इह पुनस्त एव ज्ञानक्रियानयान्तर्भावद्वारेण समासतः प्रोच्यन्ते, अधिकृताचाराङ्गस्य ज्ञानक्रियात्मकतयोभयरूपत्वात् ज्ञानक्रियाधीनत्वान्मोक्षस्य तदर्थं च शास्त्रप्रवृत्तेरिति भावः, अत्रच परस्पररतः सव्यपेक्षावेव ज्ञानक्रियानयौ विवक्षितकार्यसिद्धयेऽलं नान्योऽन्यनिरपेक्षावित्येतत्प्रपञ्चयते, तत्रज्ञाननयाभिप्रायोऽयम्-यथा ज्ञानमेवप्रधानंन क्रियेति, समस्तहेयोपादेयहानोपादानप्रवृत्तेख़नाधीनत्वात्, तथा हि-सुनिश्चितात् सम्यग्ज्ञानात्प्रवृत्तोऽर्थक्रियार्थी न विसंवाद्यते, तथा चोक्तम्॥१॥ "विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता। मिथ्याज्ञानात् प्रवृत्तस्य, फलासंवाददर्शनाद् ।।" इत्यादि, संविनिष्ठत्वाच्च विषयव्यवस्थितीनां तत्पूर्वकसकलदुःखप्रहीणत्वाचान्वयव्यतिरेकदर्शनाच्च ज्ञानस्य प्राधान्यं, तथाहि – ज्ञानाभावेऽनर्थपरिहाराय प्रवर्त्तमानोऽपि तत्करोति येन नितरां पतङ्गवदनर्थेन संयुज्यते, ज्ञानसद्भावे च समस्तानप्यानर्थसंशयांश्च यथाशक्तिः परिहरति, तथा चागमः - ‘पढमं नाणं तओ' इत्यादि, एवं तावत्क्षायोपशमिकं ज्ञानमाश्रित्योक्तं, क्षायिकमप्याश्रित्य तदेव प्रधानं, यस्माद्भगवतः प्रणतसुरासुरमुकुटकोटिवेदिकाङ्कितचरणयुगलपीठस्य भवाम्भोधितटस्थस्य प्रतिपन्नदीक्षस्य त्रिलोकबन्धोस्तपश्चरणवतोऽपि न तावदपवर्गप्राप्तिः सजायते यावज्जीवाजीवाद्यखिलव स्तुपरिच्छेदरूपं घनघातिकर्मसंहतिक्षयात्केवलज्ञानंनोत्पन्नमित्यतोज्ञानमेवप्रधानमैहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वादिति। अधुना क्रियानयाभिप्रायोऽभिधीयते, तद्यथा-क्रियैव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वात्, यस्माद्दर्शितेऽपि ज्ञानेनार्थक्रियासमर्थेऽर्थे प्रमाता प्रेक्षापूर्वकारी यदिहानोपादानरूपांप्रवृत्तिक्रियां न कुर्यात्ततो ज्ञानं विफलतामियात्, तदर्थत्वात्तस्येति, यस्य हि यदर्थं प्रवृत्तिस्तत्तस्य प्रधानमितरप्रधानमिति न्यायात्, संविदात विषयव्यवस्थानस्याप्यर्थक्रियार्थ त्वाक्रियायाः प्राधान्यम्, अन्वयव्यतिरेकावपि क्रियायां समुपलभ्येते, यतः-सम्यक् चिकित्साविधिज्ञोऽपि यथार्थोषधावाप्तावपि उपयोगक्रियारहितो नोल्लाघतामेति, तथाचोक्तम् ॥१॥ “शास्त्राण्यधीत्यापि भवन्ति मूर्खा, यस्तु क्रियावान् पुरुषः स विद्वान् । संचिन्त्य तामौषधमातुरं हि, किं ज्ञानमात्रेण करोत्यरोगम् ? ॥" ॥१॥ (तथा) "क्रियेव फलदा पुसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ।।" इत्यादि, तक्रियायुक्तस्तुयथाऽभिलषितार्थभाग्भवत्यपि, कुत इतिचेत्न हि दृष्टेऽनुपपन्नं नाम, न च सकललोकप्रत्यक्षसिद्धेऽर्थेऽन्यत्प्रमाणान्तरं मृग्यत इति, तथाऽऽमुष्मिकफलप्राप्त्यर्थिनाऽपि तपश्चरणादिका क्रियैव कर्तव्या, मौनीन्द्रं प्रवचनमप्येवमेव व्यवस्थितं, यत उक्तं ॥१॥ चेइयकुलगणसङ्के आयरियाणंच पवयण सुए य। सब्वेसुऽवि तेण कयं तवसअममुज्जमन्तेणं ।' For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy