________________
३२२
आचाराङ्ग सूत्रम् १/-/९/४/३३१ दुष्प्रणिधानादिना नापध्यानं विधत्ते, किमवस्थो ध्यायतीति दर्शयति - आसनस्थः-उत्कुटुकगोदोहिकावीरासनाद्यवस्थोऽकौत्कुचः सन् मुखविकारदिरहितो ध्यानं धर्म्मशुक्लयोरन्यतरदारोहति किं पुनस्तत्र ध्येयं ध्यायतीति दर्शयितुमाह- ऊध्र्वमधस्तिर्यग्लोकस्य ये जीवपरमाण्वादिका भावा व्यवस्थितास्तन् द्रव्यपर्यायनित्यानित्यादिरूपतया ध्यायति, तथा समाधिम्अन्तःकरणशुद्धिं च प्रेक्षमाणोऽप्रतिज्ञो ध्यायतीति ।
मू. (३३२)
अकसाई विगयगेही य सद्दरूवेसु अमुच्छइए झाई । छउमत्थोऽवि परक्कममाणो न पमायं सइंपि कुव्वित्था ॥
वृ. किंचन कषाय्यकषायी तदुदयापादितभ्रुकुटयादिकार्याभावात्, तथा विगता गृद्धिःगार्ध्य यस्यासौ विगतगृद्धिः, तथा शब्दरूपादिष्विन्द्रियार्थेष्वमूर्च्छितो ध्यायति, मनोऽनुकूलेषु न रागमुपयाति नापीतरेषु द्वेषवशघोऽभूदिति, तथा छद्मनि ज्ञानदर्शनावरणीयमोहनीयान्तरागात्मके तिष्ठतीति छद्मस्थ इत्येवंभूतोऽपि विविधम्-अनेकप्रकारं सदनुष्ठाने पराक्रममाणो न प्रमादंकषायादिकं सकृदपि कृतवानिति ।
मू. (३३३)
सयमेव अभिसमागम्म आयतजोगमायसोहीए । अभिनिव्वुडे अमाइल्ले आवकहं भगवं समियासी ॥
वृ. किं च - स्वयमेव - आत्मना तत्त्वमभिसमागम्य विदितसंसारस्वभावः स्यंयबुद्धः संस्तीर्थप्रवर्त्तनायोद्यतवान्, तथा चोक्तम्
11911
“आदित्यादिर्विबुधविसरः सारमस्यां त्रिलोक्यामास्कन्दन्तं पदमनुपमं यच्छिवं त्वामुवाच । तीर्थं नाथो लघुभवभयच्छेदि तूर्णं विधत्स्वेत्येतद्वाक्यं त्वदधिगतये नो किमु स्यान्नियोगः ? ॥
इत्यादि, कथं तीर्थप्रवर्त्तनायोद्यत इति दर्शयति- 'आत्मशुद्धया' आत्मकर्म्मक्षयोपशमोपशमक्षयलक्षणवाऽऽयतयोगं सुप्रणिहितं मनोवाक्कायात्मकं विधाय विषयकषायाद्युपशमादिभिर्निवृत्तः-शीतीभूतः, तथा अमायावी मायारहित उपलक्षणार्थत्वादस्याक्रोधाद्यपि द्रष्टव्यं, 'यावत्कथ'मितियावज्जीवं भगवान् पञ्चभिः समितिभिः समितः तथा तिसृभिर्गुप्तिभिर्गुप्तश्चासीदिति मू. (३३४) एस विही अणु० जाव कासवेण महेसिणा ।। त्तिबेमि ॥
,
वृ. श्रुतस्कन्धाध्ययनोद्देशकार्थमुपसंजिहीर्षुराह एषः - अनन्तरोक्तः शस्त्रपरिज्ञादेरारभ्य योऽभिहितः सोऽनुक्रान्तः - अनुष्ठित आसेवनापरिज्ञया सेवितः केन ? श्री वर्द्धमानस्वामिना 'मतिमता' ज्ञानचतुष्टयान्वितेन बहुशः - अनेकशोऽप्रतिज्ञेन - अनिदानेन भगवता-ऐश्वर्यादिगुणोपेतेन, अतोऽपरोऽपि मुमुक्षुनेनैव भगवदाचीर्णेन मोक्षप्रगुणेन पथाऽऽत्महितमाचरन् रीयतेपराक्रमते, इतिरधिकारपरिसमाप्तौ, ब्रवीमीति सुधर्मस्वामी जम्बूस्वामिने कथयति-सोऽहं ब्रवीमि येन मया भगवद्वदनारविन्दादर्थजातं निर्यातमवधारितमिति ।।
अध्ययनं-९ उद्देशकः-४ समाप्त :
उक्तोऽनुगमः सूतरालापकनिष्पन्ननिक्षेपश्च ससूत्रस्पर्शनियुक्तिकः, साम्प्रतं नयाः, ते च नैगमसङ्गग्रहव्यवहारऋजुसूत्र शब्दसमभिरूढैवंभूतभेदभिन्नाः सामान्यतः सप्त, ते चान्यत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org