________________
---- ........ ३२१
श्रुतस्कन्धः- १, अध्ययनं - ९, उद्देशक:४ मू. (३२६) गामं पविसे नगरं वा घासमेसे कडं परछाए।
सुविसुद्धमेसियाभगवं आयतजोगयाए सेवित्था । वृ. ग्रामं नगरं वा प्रविश्य भगवान् ग्रासमन्वेषयते, परार्थाय कृतमित्युद्गमदोषरहितं, तथा सुविशुद्धमुत्पादनादोषरहितं, तथैषणादोषपरिहारेणैषित्वा-अन्वेष्य भगवानायतः-संयतो योगो-मनोवाक्कायलक्षणः आयतश्चासौ योगचायतयोगोज्ञानचतुष्टयेन सम्यग्योगप्रणिधानमायतयोगस्य भावआयतयोगता तया सम्यगाहारंशुद्धंग्रासैषणादोषपरिहारेण सेवितवानिति। मू. (३२७) अदु वायसा दिगिछत्ताजे अन्ने रसेसिणो सत्ता।
घासेसणाए चिट्ठन्ति सययं निवइए यहाए॥ वृ.किंच-अथंभिक्षांपर्यटतोभगवतः पथिवायसाः-काका दिगिंछत्तिबुभुक्षा तयाऽऽर्ता बुभुक्षात्ता ये चान्ये रसैषिणः-पानार्थिनः कपोतपारापतादयः सत्त्वाः तथा ग्रासस्यैषणार्थम्अन्वेषणार्थंचयेतिष्ठन्ति तान्सततम्-अनवरतंनिपतितान्भूमौ प्रेक्ष्य' दृष्ट्वा तेषांवृत्तिव्यवच्छेद वर्जयन्मन्दमाहारार्थी पराक्रमते। मू. (३२८) अदुवा माहणं च समॆवा गामपिण्डोलगं च अतिहिं वा।
सोवागमूसियारिं वा कुकुरं वावि विट्ठियं पुरओ। वृ. किं च-अथ ब्राह्मणं लाभार्थमुपस्थितं दृष्ट्वा तथा श्रमणं शाक्याजीवकपरिव्राट्तापसनिर्ग्रन्थानामन्यतमं 'ग्रामपिण्डोलक' इति भिक्षयोदरभरणार्थंग्राममाश्रिस्तुन्दपरिमृजो द्रमक इति, तथाऽतिथिं वा-आगन्तुकम्तथा श्वपाकं-चाण्डालं मार्जारी वा कुकुरं वापि-श्वानं विविधं स्थितं 'पुरतः' अग्रतः मू. (३२९) वित्तिच्छेयं वजन्तो तेसिमप्पत्तियं परिहरन्तो।
मन्दं परक्कमे भगवं अहिंसमाणो घासमेसित्था ।। वृ. समुपलभ्य तेषां वृत्तिच्छेदं वर्जयन् मनसो दुष्प्रणिधानं च वर्जयन् मन्द-मनाकं तेषां त्रासमकुर्वन् भगवान् पराक्रमते, तथा परांश्च कुन्थुकादीन् जन्तून् अहिंसन् ग्रासमन्वेषितवानिति ।। किंचमू. (३३०) अवि सूइयं वा सुक्क वा सीयं पिंडं पुराणकुम्मासं ।
अदु बुक्कसं पुलागं वा लद्धे पिंडे अलद्धे दविए। वृ. 'सूइयं'त्तिदध्यादिना भक्तमार्दीकृतमपितथाभूतं शुष्कं वा-बल्लचनकादि शीतपिण्डं वा-पर्युषितभक्तम् तथा 'पुराणकुल्माषं वा' बहुदिवससिद्धस्थितकुल्माषं, 'बुक्कसं'ति चिरन्तनधान्यौदनं, यदिवापुरातनसक्तुपिण्डं, यदिवा बहुदिवससम्भृतगोरसंगोधमण्डकंचेति, तथा 'पुलाकं' यवनिषअपावादि, तदेवम्भूतं पिण्डमवाप्य रागद्वेषविरहाद् द्रविको भगवान् तथाऽन्यस्मिन्नपि पिण्डे लब्धेऽलब्धेवा द्रविक एव भगवानिति, तथाहि-लब्धे पर्याप्ते शोभनेवा नोत्कर्ष याति, नाप्यलब्धेऽपर्याप्तेऽशोभने वाऽऽत्मानमाहारदातारं वा जुगुप्सते। मू. (३३१) अवि आइ से महात्ये महावीरे आसणत्ये अकुयूए झाणं ।
___ उडे अहे तिरियं च पेहमाणे समाहिमपडित्रे॥ वृ. किं च - तस्मिंस्तथाभूत आहारे लब्ध उपभुक्तेऽलब्धे चापि ध्यायति स महावीरो, 121
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org