________________
३२०
आचाराङ्गसूत्रम् 9/-/९/४/३२० वृ किं च - 'विरतो' निवृत्तः केभ्यो ? - 'ग्रामधर्मेभ्यो' यथास्वमिन्द्रियाणां शब्दादिभ्यो विषयेभ्यो 'रीयते' संयमानुष्ठाने पराक्रमते, 'माहणे'त्ति, किंभूतो भगवान् ? असावबहुवादी, सकृद्व्याकरणभावाद्बहुशब्दोपादानम्, अन्यथा हि अवादीत्येव ब्रूयात्, तथैकदा शिशिरसमये स भगवांच्छायायां धर्मशुक्लध्यानध्याय्यासीच्चेति। मू. (३२१) आयावइ य गिम्हाणं अच्छइ उक्कुडुए अभित्तावे।
अदुजाव इत्य लूहेणं ओयणमंथुकुम्मासेणं । वृ. किं च - सुब्यत्ययेन सप्तम्यर्थे षष्ठी, ग्रीष्मेष्वातापयति, कथमिति दर्शयतितिष्ठत्युत्कुटुकासनोऽभिताप-तापाभिमुखमिति, अथ' आनन्तर्ये धमाधारंदेहंयापयति स्मरूक्षणस्नेहरहितेन केन?-'ओदनमन्थुकुल्माषेण' ओदनंच-कोद्रदवीदनादिमन्थुच-बदरचूर्णादिकं कुल्माषाश्च-माषविशेषा एवोत्तरापथे धान्यविशेषभूताः पर्युषितमाषा वा सिद्धमाषा वा ओदनमन्थुकुल्माषमिति समाहारद्वन्द्वः तेनात्मानं यापयतीति सम्बन्ध इति । एतदेव कालावधिविशेषणतो दर्शयितुमाहम. (३२२) एयाणि तिनि पडिसेवे अट्ठ मासे अजावयं भगवं।
अपि इत्थ एगया भगवं अद्धमासं अदुवा मासंपि ॥ वृ. "एतानि' ओदनादीन्यनन्तरोक्तानि प्रतिसेवते, तानि च समाहारद्वन्द्वेन तिरोहितावयवसमुदायप्रधानेन निर्देशात्कस्यचिन्मन्दबुद्धेः स्यादारेका यथा-त्रीण्यपिसमुदितानि प्रतिसेवतइति, अतस्तद्वयुदासाय त्रीणीत्यनया सङ्घयया निर्देश इति, त्रीणिसमस्तानि व्यस्तानि वा यथालाभं प्रतिसेवत इति, कियन्तं कालमिति दर्शयति-अष्टौ मासान् ऋतबद्धसंज्ञकानात्मानं अयापयद्-वर्तितवान् भगवानिति, तथा पानमप्यर्द्धमासमथवा मासं भगवान् पीतवान् । मू. (३२३) अवि साहिए दुवे मासे छप्पि मासे अदुवा विहरित्या। .
राओवरायं अपडिने अनगिलायमेगया भुजे॥ वृ. अपि च मासद्वयमपि साधिकम् अथवा षडपि मासान् साधिकान् भगवान्पानकमपीत्वाऽपि रात्रोपरात्र मित्यहर्निशं विहतवान्, किंभूतः? – 'अप्रतिज्ञः पानाभ्युपगमरहित इत्यर्थः, तथा 'अनगिलायन्ति पर्युषितं तदेकदा भुक्तवानिति । मू. (३२४) छटेण एगया भुजे अदुवा अट्ठमेण दसमेणं।
दुवालसमेण एगया भु पेहमाणे समाहिं अपडिन्ने । वृ.किंच-षष्ठेनैकदा भुङ्को, षष्ठंहिनामैकस्मिन्नहन्येकमक्तं विधायपुनर्दिनद्वयभुक्त्वा चतुर्थेऽह्नयेकभक्तमेव विधत्ते, ततश्चाद्यन्तयोरेकभक्तदिनयोक्तद्वयं मध्यदिवसयोश्च भक्तचतुष्टयमित्येवंषण्णांभक्तानांपरित्यागात्षष्ठंभवति, एवं दिनादिवृद्धयाऽष्टमाद्यायोज्यमिति, अथाष्टमेनदशमेनाथवाद्वादशमेनैकदाकदाचिद्भुक्तवान्, 'समाधि शरीरसमाधानं प्रेक्षमाणः' पालोचयन् न पुनर्भगवतः कथंचिद्दौर्मनस्यं समुत्पद्यते, तथाऽप्रतिज्ञः-अनिदान इति । मू. (३२५) नचाणं से महावीरे नोऽविय पावगं सयमकासी।
अन्नेहिं वा न कारित्या कीरंतंपि नाणुजाणित्था । वृ.किंच-ज्ञात्वाहेयोपादेयंसमहावीरः कर्मप्रेरणसहिष्णुपिचपापकंकर्मस्वयमकार्षीत् नचाप्यन्यैरचीकरत्नच क्रियमाणमपरैरनुज्ञातवानिति॥ किंच
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org