SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं - ९, उद्देशक : ३ दुःखचिकित्साप्रतिज्ञा विद्यत इत्यप्रतिज्ञः ॥ कथं दुःखसहो भगवानित्येतद्द ष्टन्तद्वारेण दर्शयितुमाह मू. (३१६) सूरो सङ्गामसीसे वा संवुडे तत्थ से महावीरे । पडिसेवमाणे फरुसाइं अचले भगवं रीयित्था । वृ. यथा हि संग्रामशिरसि 'शूरः' अक्षोभ्यः परैः कुन्तादिभिर्भिद्यमानोऽपि वर्म्मणा संवृताङ्गो न भङ्गमुपयातीति, एवं स भगवान्महावीर ः 'तत्र' लाढादिजनपदे परीषहानीकतुद्यमानोऽपि प्रतिसेवमानश्च 'परुषान्' दुःखविशेषान् मेरुरिवाचलो- निष्प्रकम्पो धृत्या संवृताङ्गो भगवान् 'रीयते स्म' ज्ञानदर्शनचारित्रात्मके मोक्षाध्वनि पराक्रमते स्मेति । मू. (३१७) एस विही अणुक्कन्तो० जाव कासवेण महेसिणा ।। तिबेमि । वृ. उद्देशकार्थमुपसंजिहीर्षुराह - 'एस विही' त्यादि पूर्ववद् । अध्ययनं - ९ - उद्देशकः - ३ - समाप्तः ३१९ -: अध्ययन-९ उद्देशकः-४ : वृ. उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः इहानन्तरोद्देशके भगवतः परीषहोपसर्गादिसहनं प्रतिपादितं तदिहापि रोगातपीडाचिकित्साव्युदासेन सम्यगधिसहते ततुद्पत्तौ च नितरां तपश्चरणायोद्यच्छतीत्येतत्प्रतिपाद्यते, तदनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् - मू. (३१८) Jain Education International ओमोयरियं चाएइ अपुट्ठेऽवि भगवं रोगेहिं । पुट्ठे वा अपुट्ठे वा नो से साइजई तेइच्छं । वृ. अपि शीतोष्णदंशमशकाक्रोशताडाद्याः शक्याः परीषहाः सोढुं न पुनरवमोदरतां, भगवांस्तु पुना रोगैरस्पृष्टोऽपि वातादिक्षोभाभावेऽप्यवमौदर्यं न्यूनोदरतां शक्नोति कर्तुं, लोको हि रोगैरभिद्रुतः संस्तदुपशमनायावमोदरतां विधत्ते भगवांस्तु तदभावेऽपि विधत्त इत्यपिशब्दार्थः, अथवाऽस्पृष्टोऽपि कासश्वासादिभिर्द्रव्यरोगैः अपिशब्दात्स्पृष्टोऽप्यसद्वेदनीयादिभिर्भावरोगैर्न्यनोदरतां करोति, । अथ किं द्रव्यरोगातङ्का भगवतो न प्रादुष्ष्यन्ति येन भावरोगैः स्पृष्ट इत्युक्तं ?, तदुच्यते, भगवतो हि न प्राकृतस्येव देहजाः कासश्वासादयो भवन्ति, आगन्तुकास्तु शस्त्रप्रहारजा भवेयुः, इत्येतदेव दर्शयति-स च भगवान् स्पृष्टो वा श्वभक्षणादिभिरस्पृष्टो वा कासश्वासादिभिर्नासौ चिकित्सामभिलक्षति, न द्रव्यौषधाद्युपयोगतः पीडोपशमं प्रार्थयतीति । मू. (३१९) संसोहणं च वमणं च गायब्भंगणं च सिणाणं च । संबाहणं च न से कप्पे दन्तपक्खालणं च परिन्नाए । वृ. एतदेव दर्शयितुमाह- गात्रस्य सम्यक् शोधनं संशोधनं-विरेचनं निःसोत्रादिभिः तथा वमनं मदनफळलदिभिः, चशब्द उत्तरपदसमुच्चयार्थी, गात्राभ्यङ्गनं च सहस्रपाकतैलादिभिः स्नानं चोद्वर्त्तनादिभिः संबाधनं च हस्तपादादिभिस्तस्य भगवतो न कल्पते, तथा सर्वमेव शरीरमशुच्यात्मकमित्येवं 'परिज्ञाय' ज्ञात्वा दन्तकाष्ठादिभिर्दन्तप्रक्षालनं च न कल्पत इति । मू. (३२०) विरए गामधम्मेहिं रीयइ माहणे अबहवाई । सिसिरंमि एगया भगवं छायाए झाइ आसीय । For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy