________________
३१८
आचाराङ्गसूत्रम् १/-/९/३/३०९ ___ वृ. किं च-एवमपि यष्ट्यादिकया सामण्या श्रमणा विहरन्तः ‘स्पृष्टपूर्वा' आरब्धपूर्वाः श्वभिरासन्, तथा संलुच्यमाना' इतश्चेतश्च भक्ष्यमाणाः श्वभिरासन, दुर्निवारत्वात्तेषां, 'तत्र' तेषुलाढेष्वार्यलोकानांदुःखेन चर्यन्त इति दुश्चराणि-ग्रामादीनीति। मू. (३१०) निहाय दण्डं पाणेहिं तं कायं वोसज्जमणगारे।
अह गामकण्टए भगवन्ते अहिआसए अभिसमिच्चा।। वृतदेवंभूतेष्वपिलाढेषुकथं भगवान्विहृतवानितिदर्शयितुमाह-प्राणिषुयोदण्डनाद्दण्डोमनोवाक्कायादिकस्तंभगवान् निधाय त्यक्त्वा, तथातच्छरीरमप्यगारोव्युत्सृज्याथ ग्रामकण्टकान् नीचवनरूक्षालापानपि भगवांस्तांस्तान् सम्यक्करणतयानिर्जरामभिसमेत्य-ज्ञात्वाऽध्यासयतिअधिकसहते। मू. (३११) नागो संगामसीसेवा पारए तत्थ से महावीरे।
एवंपि तत्थ लादेहिं अलद्धपुव्वोवि एगया गामो ॥ वृ.कथमधिसहत इति दृष्टान्तद्वारेणदर्शयितुमाह-'नागो हस्तीयथाऽसौसंग्राममूर्द्धनि परानीकं जित्वा तत्पारगो भवति, एवं भगवानपि महावीरस्तत्र लाढेषु परीषहानीकं विजित्य पारगोऽभूत, किंच-तत्र' लाढेषु विरलत्वाद्राग्माणां क्वचिदेकदावासायालब्धपूर्वो ग्रामोऽपि भगवता ।। किंचमू. (३१२) उवसंकमन्तमपडिनंगामंतियम्मि अप्पत्तं ।
___पडिनिक्खमित्तु लूसिंसु एयाओ परं पलेहित्ति । वृ. 'उपसझमन्तं' भिक्षायै वासाय वा गच्छन्तं, किंभूतम् ? – 'अप्रतिज्ञं नियतनिवासादिप्रतिज्ञारहितं ग्रामान्तिकं प्राप्तमप्राप्तमपि तस्माद्ग्रामा प्रतिनिर्गत्य ते जना भगवन्तमलूषिषुः, एतच्चोचुः-इतोऽपिस्थानात्परं दूरतरं स्थानं पर्येहि' गच्छेति । मू. (३१३) हयपुव्वो तत्य दण्डेण अदुवा मुट्ठिणा अदु कुन्तफलेण।
अदु लेलुणा कवालेण हन्ता हन्ता बहवे कन्दिंसु॥ वृ. किंच-तत्रग्रामादेर्बहिर्व्यवस्थितः पूर्वंहतोहतपूर्वः, केन? – 'दण्डेनाथवामुष्टिनाऽथवा कुन्तादिफलेनाथवा लेष्टुना कपालेन-घटखपरादिना हत्वा हत्वा बहवोऽनार्याश्चक्रन्दुः-पश्यत यूयं किंभूतोऽयमित्येवं कलकलं चक्रुः । मू. (३१४) मंसाणि छिन्नपुव्वाणि उटुंभिया एगया कायं।
परीसहाई लुंचिंसु अदुवा पंसुणा उवकरिसु॥ वृ. किं च - मांसानि च तत्र भगवतच्छिन्नपूर्वाणि एकदा कायमवष्टभ्य-आक्रम्य तथा नानाप्रकाराः प्रतिकूलपरीषहाश्च भगवन्तमलुञ्चिषुः, अथवा पांसुनाऽवकीर्णवन्त इति । मू. (३१५) उच्चालइय निहणिंसु अदुवा आसणाउ खलइंसु।
वोसट्टकायपणयाऽऽसी दुक्खसहे भगवं अपडिन्ने । वृ. किं च - भगवन्तमूर्ध्वमुक्षिप्य भूमौ 'निहतवन्तः' क्षिप्तवन्तः, अथवा 'आसनात्' गोदोहिकोत्कुटुकासनवीरासनादिकात् स्खलितवन्तो निपातितवन्तः, भगवास्तुपुनर्तुत्सृष्टकायः परीषहसहनं प्रति प्रणत आसीत्, परीषहोपसर्गकृतं दुःखं सहत इति दुःखसहोभगवान्, नास्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org