________________
३१६
आचाराङ्ग सूत्रम् १/-/९/२/३००
जंसिप्पेगे पवेयन्ति सिसिरे मारुए पवायन्ते । तंसिप्पेगे अनगारा हिमवाए निवायमेसन्ति ।।
मू. (३००)
वृ. यस्मिन् शिशिरादावप्येके त्वक्त्राणाभावतया 'प्रवेपन्ते दन्तवीणादिसमन्विताः कम्पन्ते, यदिवा 'प्रवेदन्यन्ति' शीतजनितं दुःखस्पर्शमनुभवन्ति, आर्त्तध्यानवशगा भवन्तीत्यर्थः, तस्मिंश्च शिशिरे हिमकणिनि मारुते च प्रवाति सत्येके न सर्वे 'अनगाराः' तीर्थिकप्रव्रजिता हिमवाते सति शीतपीडितास्तदपनोदाय पावकं प्रज्वालयन्ति-अङ्गारशकटिकामन्वेषयन्ति, प्रावारादिकं याचन्ते, यदिवाऽनगारा इति पार्श्वनाथतीर्थप्रव्रजिता गच्छ्वासिन एव शीतार्दिता निवातमेषन्तिघङ्खशालादिकावसतीर्वातायनादिरहिताः प्रार्थयन्ति ।
मू. (३०१)
संघाडीओ पवेसिस्सामो एहा य समादहमाणा । पिहिया व सक्खामो अइदुक्खे हिमगसंफासा ।।
वृ. किंच - इहसङ्घाटीशब्देन शीतापनोदक्षमं कल्पद्वयं त्रयं वा गृह्यते, ताः सङ्घाटीः शीतार्दिता वयं प्रवेक्ष्यामः, एवं शीतार्दिता अनगारा अपि विदधति, तीर्थिकप्रव्रजितास्त्वेधाः-समिधः काष्ठानीतियावद् एताश्च समादहन्तः शीतस्पर्शं सोढुं शक्ष्यामः, तथा संघाट्या वा पिहिताः स्थगिताः कम्बलाद्यावृताशरीरा इति, किमर्थमेतत्कुर्वन्तीति दर्शयति-यतोऽतिदुःखमेतद्-अतिदुःसहमेतद्यदुत हिमसंस्पर्शाः शीतस्पर्शवेदना दुःखेन सह्यन्त इतियावत ।
मू. (३०२)
तंसि भगवं अपडिने अहे विगडे अहीयासए ।
दविए निक्खम्म एगया राओ ठाइए भगवं समियाए ॥
वृ. तदेवमेवंभूते शिशिरे यथोक्तानुष्ठाननवत्सु च स्वयूथ्येतरेष्वनगारेषु यद्भगवान् व्यघात्तद्दर्शयितुमाह- 'तस्मिन्' एवंभूते शिशिरे हिमवाते शीतस्पर्शे च सर्वंकषे 'भगवान्' ऐश्वर्यादिगुणोपेतस्तं शीतस्पर्शमध्यासयति- अधिसहते, किंभूतोऽसौ ? – 'अप्रतिज्ञो' न विद्यते निवातसतिप्रार्थनादिका प्रतिज्ञा यस्य स तथा, काध्यासयति ? - 'अधोविकटे' अधः-कुड्यादिरहिते छन्नेऽप्युपरि तदभावेऽपि चेति, पुनरपि विशिनष्टि-रागद्वेषविरहाव्यभूतः कर्म्मग्रन्थिद्रावणाद्वा द्रवः-संयमः सविद्यते यस्मासौ द्रविकः, स च तथाऽध्यासयन् यद्यत्यन्तं शीतेन बाध्यते ततस्तस्मात् छन्नाष्क्रिम्य बहिरेकदा रात्रौ मुहूर्तमात्रं स्थित्वा पुनः प्रविश्य स भगवान् शमितया सम्यग्वा समतया वा व्यवस्थितः सन् तं शीतस्पर्शं रासभष्टान्तेन सोढुं शक्नोति अधिसहत इति मू. (३०३) एस विही अनुक्तो माहणेण मईमया ।
बहुसो अडिनेण भगवया एवं रीयन्ति ॥ -त्तिबेमि ।
वृ. एतदेवोद्देशकार्थमुपसंजिहीर्षुराह - एस विही इत्याद्यनन्तरोद्देशकवन्नेयमिति । इतिब्रवीमीतिशब्दौ पूर्ववद् ।
अध्ययनं-९ उद्देशकः-२ समाप्तः
-: अध्ययनं - ९ - उद्देशकः ३ :
वृ. उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरोद्देशके भगवतः शय्याः प्रतिपादिताः, तासु च व्यवस्थितेन ये यथोपसर्गाः परीषहाश्च सोढास्तप्रतिपादनार्थमिदमुपक्रम्यत इत्येन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org