________________
श्रुतस्कन्धः - १, अध्ययनं - ९, उद्देशक - २
३१५
वृ. किं च - 'अथ' अनन्तरं कुत्सितं चरन्तीति कुचराः- चौरपारदारिकादयस्ते च क्वचिच्छून्यगृहादौ 'उपचरन्ति' उपसर्गयन्ति, तथा ग्रामरक्षादयश्च त्रिकचत्वरादिव्यवस्थितं शक्तिकुन्तादिहस्ता उपचरन्तीति, अथ 'ग्रामिका' ग्रामधम्र्म्माश्रिता उपसर्गा एकाकिनः स्युः, तथाहि काचित्स्त्री रूपदर्शनाध्युपपन्ना उपसर्गयेत्, पुरुषो वेति । किंच
मू. (२९६)
इहलोइयाइं परलोइयाइं भीमाइं अनेगरूवाइं । अवि सुम्मि दुब्मिगन्धाई सद्दाई अनेगरूवाई ॥
वृ. इहलोके भवा ऐहलौकिकाः मनुष्यकृताः केते ? 'स्पर्शाः' दुःखविशेषा दिव्यास्तैरश्चाश्च पारलौकिकास्तानुपसर्गापादितान् दुःखविशेषानध्यासयति-अधिसहते, यदिवा इहैव जन्मनि ये दुःखयन्ति दण्डप्रहारादयः प्रतिकूलोपसर्गास्त ऐहलौकिकाः, तद्विपर्यस्तास्तु पारलौकिकाः, 'भीमा' भयानका ‘अनेकरूपाः’नानाप्रकाराः, तानेव दर्शयति-अपि सुरभिगन्धाः प्रक्चन्दनादयो दुर्गन्धाःकुथितकडेवरादयः, तथा शब्दाश्चानेकरूपा वीणावेणुमृदङ्गादिजनिताः,
मू. (२९७)
अहियासए सया समिए फासाइं विरूवरूवाइं ।
अरई रई अभिभूय रीयइ माहणे अबहुवाई ॥
वृ. तथाक्रमेलकरसिताद्युत्थापितास्तांश्चाविकृतमना 'अध्यासयति' अघिसहते, 'सदा' सर्वकालं सम्यगितः समितः पञ्चभिः समितिभिर्युक्तः, तथा स्पर्शान्- दुःखविशेषानरतिं संयमे रतिं चोपभोगाभिष्वङ्गेऽभिभूयतिरस्कृत्य 'रीयते' संयमानुष्ठाने व्रजति, 'माहणे' त्ति पूर्ववद् 'अबहुवादी' अबहुभाषी, एकद्विव्याकरणं कचिन्निमित्ते कृतवानिति भावः ।
मू. (२९८)
सजणेहिं तत्थ पुच्छिंसु एगचरावि एगया राओ ।
अव्वाहिए कसाइत्था पेहमाणे समाहिं अपडिन्ने ।
वृ. 'स' भगवानर्द्धत्रयोदश पक्षाधिकाः समा एकाकी विचरन् तत्र शून्यगृहादौ व्यवस्थितः सन् 'जनैः' लोकैः पृष्टः, तद्यथा को भवान् ? किमत्र स्थितः ? कुतस्त्यो वेत्येवं पृष्टोऽपि तूष्णींभावमभजत्, तथोपपत्याद्या अप्येकचरा-एकाकिन एकदा-कदाचिद्रात्रावह्नि वा पप्रच्छुः, अव्याहृते च भगवता कषायिताः ततो ज्ञानावृतध्ष्टयो दण्डमुष्टयादिताडनतोऽनार्यत्वमाचरन्ति, भगवांस्तु तत् समाधिं प्रेक्षमाणो धर्म्मध्यानोपगतचित्तः सन् सम्यक्तितिक्षते किंभूतः ? - 'अप्रतिज्ञो' नाय वैरनिर्यातनप्रतिज्ञा विद्यत इत्यप्रतिज्ञः ।
मू. (२९९)
अयमंतरंसि को इत्थ ? अहमंसित्ति भिक्खु आहट्टु |
अयमुत्तमे से धम्मे तुसिणीए कसाइए झाइ ।
वृ. कथं ते पप्रच्छुरिति दर्शयितुमाह-अयमन्तः मध्ये कोऽत्र व्यवस्थितः ?, एवं सङ्केतागता दुश्चारिणः पृच्छन्ति कर्म्मकरादयो वा, तत्र नित्यवासिनो दुष्प्रणिहितमानसाः पृच्छन्ति, तत्र चैवं पृच्छतामेषां भगवांस्तूष्णीभावमेव भजते, क्वचिद्बहुतरदोषापनयनाय जल्पत्यपि, कथमिति दर्शयति- अहं भिक्षुरस्मीति, एवमुक्ते यदि तेऽवधारयन्ति ततस्तिष्ठत्येव, अथाभिप्रेतार्थव्याघातात् कषायिता मोहान्धाः साम्प्रतेक्षितयैवं ब्रूयः, यथा- तूर्णमस्मात्स्थानान्निर्गच्छ, ततो भगवानचियत्तावग्रह इतिकृत्वा निर्गच्छत्येव, यदिवा न निर्गच्छत्येव भगवान् किंतु सोऽयमुत्तमः प्रधानो धर्म्म आचार इतिकृत्वा स कषायितेऽपि तस्मिन् गृहस्थे तूष्णीभावव्यवस्थितो यद्भविष्यत्तया ध्यायत्येव-न ध्यानात्प्रच्यवते । किं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org