________________
૧૪
यू. (२९०) आगन्तारे आरा मागारे तह य नगरे व एगया वासो । सुसाणे सुन्नगारे वा रुक्खमूले व एगया वासो ।
वृ. किं च-प्रसङ्गायाता आआगत्य वा यत्र तिष्ठन्ति तदागन्तारं तत्पुनर्ग्रामान्नगराद्वा बहिः स्थानं तत्र, तथा अरामेऽगारं-गृहमारामागारं तत्र वा तथा नगरे वा एकदा वासः, तथा श्मशाने शून्यागारे वा, आवेशनशून्यागारयोर्भेदः सकुड्यकृतो, वृक्षमूले वा एकदा वास इति ॥ यू. (२९१) एएहिं मुणी सयणेहिं समणे आसि पतेरसवासे । राई दिवंपि जयमाणे अपमत्ते समाहिए झाइ ॥
आचाराङ्ग सूत्रम् १/-/९/२/२९०
वृ. किं च- 'एतेषु ' पूर्वोक्तेषु 'शयनेषु' वसतिषु स 'मुनिः' जगत्त्रयवेत्ता ऋतुबद्धेषु वर्षासु वा 'श्रमणः ' तपस्युद्युक्तः समना वाऽऽसीत् निश्चलमना इत्यर्थः कियन्तं कालं यावदिति दर्शयति- 'पतेलसवासे' त्ति प्रकर्षेण त्रयोदशं वर्षं यावत्समस्तां रात्रिं दिनमपि यतमानः संयमानुष्ठान उद्युक्तवान् तथाऽप्रमत्तो- निद्रादिप्रमादरहितः 'समाहितमनाः' विस्रोतसिकारहितो धर्म्मध्यान शुक्लध्यानं वा ध्यायतीति ॥ किं च
-
मू. (२९२)
निद्दपि नो पगामाए, सेवइ भगवं उट्ठाए । जग्गावइ य अप्पाणं इसिं साई य अपडिन्ने ।।
वृ. निद्रामप्यसावरपरप्रमादरहितो न प्रकामतः सेवते, तथा च किल भगवतो द्वादशसु संवत्सरेषु मध्येऽस्थिकग्रामे व्यन्तरोपसर्गान्ते कायोत्सर्गव्यवस्थितस्यैवान्तर्मुहूर्त्त यावत्स्वप्नदर्शनाध्यासिनः सकृन्निद्राप्रमाद आसीत्, ततोऽपि चोत्थायात्मानं 'जागरयति' कुशलानुष्ठाने प्रवर्त्तयति, यत्रापीषच्छय्याऽऽसीत् तत्राप्यप्रतिज्ञः प्रतिज्ञारहितो, न तत्रापि स्वापाभ्युपगमपूर्वकं शयति इत्यर्थः । पू. (२९३)
संबुज्झमाणे पुनरवि आसिंसु भगवं उट्ठाए । निक्खम्म एगया राओ बहि चंकमिया मुहुत्तागं ।।
वृ. किं च- स मुनिर्निद्राप्रमादाद् व्युत्थितचित्तः 'संबुध्यमानः' संसारपातायायं प्रमाद इत्येवमवगच्छन् पुनरप्रमत्तो भगवान् संयमोत्थानेनोत्थाय यदि तत्रान्तर्व्यवस्थितस्य कुतश्चिन्निद्राप्रमादः स्यात् ततस्तस्मान्निष्क्रम्यैकदा शीतकालरात्रादी बहिश्चङ्क्रम्य मुहूर्तमात्रं निद्राप्रमादापनयनार्थं ध्याने स्थितवानिति ।
मू. (२९४)
सयणेहिं तत्थुवसग्गा भीमा आसी अनेगरूवा । संसप्पगा य जे पाणा अदुवा जे पक्खिणो उवचरन्ति ।।
वृ. किं च - शय्यते - स्थीयते उत्कुटुकासनादिभिर्येष्विति शयनानि - आश्रयस्थानानि तेषु तैर्वा तस्य भगवत उपसर्गा 'भीमा' भयानका आसन् अनेकरूपाश्च शीतोष्णादिरूपतयाऽनुकूलप्रतिकूलरूपतया वा, तथा संसर्पन्तीति संसर्पकाः-शून्यगृहादावह्निकुलादयो ये प्राणिनः ‘उपचरन्ति’उप-सामीप्येन मांसादिकमश्नन्ति अथवा श्मशानादौ पक्षिणो गृध्रादय उपचरन्तीति वर्त्तते । मू. (२९५)
Jain Education International
अदु कुचरा उवचरन्ति गामरक्खा य सत्तिहत्था य । अदु गामिया उवसग्गा इत्थी एगइया पुरिसा य ।।
For Private & Personal Use Only
www.jainelibrary.org