________________
श्रुतस्कन्धः - १, अध्ययनं - ९, उद्देशक : १
यू. (२८५)
३१३
अप्पं तिरियं पेहाए अप्पिं पिट्ठओ पेहाए । अप्पं बुइएs पडिभाणी पंथपेहि चरे जयमाणे ॥
वृ. अल्पशब्दोऽभावे वर्त्तते, अल्पं तिर्यक्-तिरश्चीनं गच्छन् प्रेक्षते, तथाऽल्पं पृष्ठतः स्थित्वोत्प्रेक्षते, तथा मार्गादि केनचित्पृष्टः सन्नप्रतिभाषी सन्नल्पं ब्रूते, मौनेन गच्छत्येव केवलमिति दर्शयति-पथिप्रेक्षी 'चरेद्' गच्छेद्यतमानः प्राणिविषये यत्नवानिति ।
मू. (२८६)
सिसिरंसि अद्धपडिवन्ने तं वोसिज्जं वत्थमनगारे । पसारितु बाहुं परक्क मे नो अवलम्बियाण कंधमि ।।
किंच-अध्वप्रतिपन्ने शिशिरे सति तद्देवदूष्यं वस्त्रं व्युत्सृज्यानगारो भगवान् प्रसार्य बाहू पराक्रमते, न तु पुनः शीतार्दितः सन् सङ्कोचयति, नापि स्कन्धेऽवलम्ब्य तिष्ठती ति । मू. (२८७) एस विही अणुक्क न्तो माहणेण मईमया ।
बहुसो अपडिन्नेण भगवया एवं रियंति ॥ त्तिबेमि
वृ. साम्प्रतमुपसजिहीर्षुराह-एष चर्याविधिरनन्तरोक्तोऽनुक्रान्तः - अनुचीर्णः 'माहणेण त्ति श्रीवर्द्धमानस्वामिना ‘मतिमता' विदितवेद्येन 'बहुशः' अनेकप्रकारमप्रतिज्ञेन-अनिदानेन 'भगवता ' एश्वर्यादिगुणोपेतेन, ‘एवम्' अनेन पथा भगवदनुचीर्णेनान्ये मुमुक्षवोऽशेषकर्म्मक्षयाय साधवो 'रीयन्ते' गच्छन्तीति । इतिरधिकारपरिसमाप्तौ ब्रवीमीति पूर्ववद् ।
अध्ययनं - ९ उद्देशकः १ समाप्तः
-: अध्ययनंः ९ - उद्देशकः २ :
वृ. उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरोद्देशके भगवतश्चर्याऽभिहिता, तत्र चावश्यं कयाचिच्छय्यया वसत्या भाव्यमतस्तव्यतिपादनायायमुद्देशकः प्रक्रम्यते इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादि सूत्रम्मू. (२८८) चरियासणाई सिज्जाओ एगइआओ जाओ बुइआओ ।
आइक्ख ताई सयणासणाइं जाई सेवित्था से महावीरे
वृ. चर्यायामवश्यंभावितया यानि शय्यासनान्याभिहितानि सामर्थ्यायातानि तानि शयनासनानि शय्याफलकादीन्याचक्ष्व सुधर्म्मस्वामी जम्बूनाम्नाऽभिहितो यानि सेवितवान् महावीरो - वर्द्धमनस्वामीति, अयं च श्लोकश्चिरन्तरनटीकाकारेण न व्याख्यतः, तत्र किं सुगमत्वादुताभावात्, सूत्रपुस्तकेषु तु दृश्यते, तदभिप्रायं च वयं न विद्म इति ॥ आवेसणसभापवासु पणियसालासु एगया वासो ।
मू. (२८९)
अदुवा पलियठाणेसु पलालपुञ्जेसु एगया वासो ।।
वृ. प्रश्नप्रतिवचनमाह - भगवतो ह्याहाराभिग्रहवत् प्रतिमाव्यतिरेकेण प्रायशो न शय्याऽभिग्रह आसीत्, नवरं यत्रैव चरमपौरुषी भवति तत्रैवानुज्ञाप्य स्थितवान्, तद्दर्शयतिआ-समन्ताद्विशन्ति यत्र तदावेशनं- शून्यगृहं सभा नाम ग्रामनगरादीनां तद्वासिलोकास्थाविकार्थमागन्तुकशयनार्थं च कुड्याद्याकृतिः क्रियते, 'प्रपा' उदकदानस्थानम् आवेशनं च सभा च प्रपा च आवेशनसभाप्रपास्तासु, तथा 'पण्यशालासु' आपणेषु 'एकदा ' कदाचिद्वासो भगवतोऽथवा 'पलिय 'न्ति कर्म्म तस्य स्थानं कर्म्मस्थानं-अयस्कारवर्द्धकिकुड्यादिकं, तथा पलालपुञ्जेषु मञ्जोपरि व्यवस्थितेष्वधो, न पुनस्तेष्वेव, झुषिरत्वादिति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org