________________
श्रुतस्कन्धः - १, अध्ययनं - ९, उपोद्घातः
क्षपयित्वा निरावरणज्ञानदर्शनसमन्वितः केवली भवति,
सच सातावेदनीयमेवैकं बध्नाति यावत्सयोग इति, स चान्तर्मुहूर्त देशोनां पूर्वकोटिं वा यावद्भवति, ततोऽसावन्तर्मुहूर्त्तावशेषमायुर्ज्ञात्वा वेदनीयं च प्रभूततरमतस्तयोः स्थितिसाम्यापादनार्थं समुद्घातमेतेन क्रमेण करोति, तद्यथा - औदारिककाययोगी आलोकान्तादूर्ध्वाधःशरीरपरिणाहप्रमाणं प्रथमसमये दण्डं करोति, पुनर्द्वितीयसमये तिरश्चीनमालोकान्तात्कायप्रमाणमेवदारिककार्म्मणशरीरयोगी कपाटवत्कपाटंविधत्ते, तृतीयसमये त्वपरदिक्तिरश्चीनमेव कार्म्मणशरीरयोगी मन्थानवन्मन्थां करोति, अनुश्रेणिगमनाच्च लोकस्य प्रायशो बहु पूरितं भवति, ततश्चतुर्थसमये कार्मणकाययोगेनैव मन्धानन्तरालव्यापनात्सह निष्कुटैर्लोकः पूरितो भवति, पुनरनेनैव क्रमेण पश्चानुपूर्व्या समुद्घातावस्थां चतुर्भिरेव समयैरुपसंहरंस्तद्यापारवांस्तत्तद्योगो भवति, केवलं षष्ठसमये मन्थानमपसंहरन्नौदारिकमिश्रयोगी स्यादिति,
तदेवं केवली समुद्घातं संहृत्य प्रत्यप्य च फलकादिकं ततो योगनिरोधं विधत्ते, तद्यथापूर्वं मनोयोगं बादरंनिरुणद्धि, पुनर्वाग्योगं काययोगं च बादरमेवेति, पुनरनेनैव क्रमेण सूक्ष्ममनोयोगं निरुणद्धि, ततः सूक्ष्मवाग्योगं निरुणद्धि, ततः सूक्ष्मकाययोगं निरुन्धन् सूक्ष्मक्रियमप्रतिपाति तृतीयं शुक्लध्यानभेदमारोहति, तन्निरोधे च व्युपरतक्रियमनिवर्त्ति चतुर्थं शुक्लध्यानमारोहति, तदारूढश्चायोगिकेवलिभावमुपगतः सन्नन्तर्मुहूर्त्त यावत्कालमजघन्योत्कृष्टमास्ते, तत्र चासौ येषां कर्म्मणामुदयो नास्ति तानि स्थितिक्षयेण क्षपयन् वेद्यमानासु चापराप्रकृतिषु सङ्क्रामयन् क्षपयंश्च तावद्गतो यावद्गिचरमसमयं,
तत्र च द्विचरमसमये देवगतिसहगताः कर्म्मप्रकृतीः क्षपयति, ताश्चेमाः देवगतिस्तदानुपूर्वी वैक्रियाहारकशरीरतदङ्गोपाङ्गचतुष्टयमेतद्बन्धनसङ्घाताविति च, तथा तत्रैवापरा इमाः क्षपयति, तद्यथा - औदारिकतैजसकार्मणानि शरीराणि एतद्बन्धनानि त्रीणि सङ्घातांश्च षट् संस्थानानि षट् संहननानि औदारिकशरीराङ्गोपाङ्ग वर्णगन्धरसस्पर्शा मनुष्यानुपूर्व्यागुरुलघूपघातपराघातोच्छ्वासप्रशस्ताप्रशस्तविहायोगतयस्तथाऽपर्याप्तकप्रत्येकस्थिरास्थिराशुभाशुभसुभगदुर्भगसुस्वरदुः स्वरानादेयायशः कीर्त्तिनिर्माणानि तथा नीचैर्गोत्रन्यतरद्वेदनीयमिति, चरमसमये तु मनुष्यगतिपञ्चेन्द्रियजातित्रसबादरपर्याप्तकसुभगादेययशः कीर्त्तितीर्थकरत्वान्यतरद्वेदनीयायुष्को
त्राण्येता द्वादशतीर्थकृत् केषांचिन्मतेनानुपूर्वीसहितास्त्रयोदश अतीर्थकृच्च द्वादशैकादश वा क्षपयति, अशेषकर्म्मक्षयसमनन्तरमेव चास्पर्शवद्गत्या ऐकान्तिकात्यन्तिकानाबाधलक्षणं सुखमनुभवन् सिद्धाद्धयाख्यं लोकाग्रमुपैतीत्ययं गाथातात्पर्यार्थः ॥
साम्प्रतमुपसंहरस्तीर्थक- रासेवनतः प्रपोचनतां दर्शयितुमाह
नि. [ २८४ ]
एवं तु समणुचिन्नं वीरवरेणं महानुभावेणं । जं अणुचरित्तु धीरा सिवमचलं जन्ति निव्वाणं ।।
वृ. 'एवम् उक्तविधिना भावोपधानं ज्ञानादि तपो वा वीरवर्द्धमानस्वामिना स्वतोऽनुष्ठितमतोऽन्येनापि मुमुक्षुणैतदनुष्ठेयमिति गाथार्थः ।। समाप्ता ब्रह्मचर्याध्ययननियुक्तिः
साम्प्रतं सूत्रानुगमे सूत्रमुच्चारणीयं तच्चेदम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org