________________
आचाराङ्गसूत्रम् 9/-/९/१/२६५
अध्ययनं-९-उद्देशक:-१:मू. (२६५) अहासुयं वइस्सामि जहा से समणे भगवं उठाए।
संखाए तंसि हेमंते अहुणो पव्वइए रीइत्या। वृ. आर्यसुधर्मस्वामी जम्बूस्वामिने पृच्छते कथयति, यथाश्रुतं यथासूत्रं वा वदिष्यामि, तद्यथा-स श्रमणो भगवान् वीरवर्द्धमानस्वाम्युत्थाय-उद्यतविहारंप्रतिपद्य सर्वालङ्कारं परित्यज्य पञ्चमुष्टिकं लोचं विधायैकेन देवदूष्येणेन्द्रक्षिप्तेन युक्तः कृतसामायिकप्रतिज्ञ आविर्भूतमनःपर्यायज्ञानोऽटप्रकारकर्मक्षयार्थं तीर्थप्रवर्तनार्थं चोत्थाय 'संख्याय' ज्ञात्वा तस्मिन् हेमन्ते मार्गशीर्षदशम्यांप्राचीनगामिन्यांछायायांप्रव्रज्याग्रहणसमनन्तरमेव रीयतेस्म' विजहार, तथा चकिल कुण्डग्रामान्मुहूर्तशेषेदिवसेकारग्राममाप, तत्रचभगवानित आरभ्यनानाविधाभिग्रहोपेतो घोरान्परीषहोपसर्गानधिसहमानोमहासत्त्वतयाम्लेच्छानप्युपशमनयन्द्वादशवर्षाणिसाधिकानि छद्मस्थोमौनव्रतीतपश्चचार,अत्रचसामायिकारोपणसमनन्तरमेवसुरपतिनाभगवदुपरिदेवदूष्यं चिक्षिपे, तत् भगवताऽपि निःसङ्गाभिप्रायेणैव धर्मोपकरणमृते न धर्मोऽनुष्ठातुं मुमुक्षुभिरपरैः शक्यतइति कारणापेक्षयामध्यस्थवृत्तिनातथैवावधारितं, नपुनस्तस्य तदुपभोगेच्छाऽस्तीति॥ मू. (२६६) नोचेविमेण वत्येण पिहिस्सामि तंसि हेमंते।
से पारए आवकहाए, एयंखु अनुघम्मियं तस्स॥ वृ. एतद्दर्शयितुमाह-न चैवाहमनेन वस्त्रेणेन्द्रप्रक्षिप्तेनात्मानं पिधास्यामि-स्थगयिष्यामि तस्मिन् हेमन्तेतद्वा वस्त्रं त्वक्त्राणीकरिष्यामि, लज्जाप्रच्छादनं वा विधास्यामि, किंभूतोऽसाविति दर्शयति-'स' भगवान्प्रतिज्ञायाः परीषहाणांसंसारस्यवापारंगच्छतीतिपारगः, कियन्तंकालमिति दर्शयति-यावत्कथं यावज्जीवमित्यर्थः, किमर्थं पुनरसौ बिभर्तीति चेद्दर्शयति-खुरवधारणे सच भिन्नक्रमः, एतद्वावज्ञाधारणं तस्य भगवतोऽनु-पश्चाद्धार्मिकमनुधार्मिकमेवेति, अपरैरपि तीर्थकृद्मिः समाचीर्णमित्यर्थः, तथा चागमः
“से बेमिजे य अईया जेयपडुप्पन्नाजे यआगमेस्सा अरहंता भगवन्तो जेयपव्वयन्ति जे अपव्वइस्सन्ति सव्वे ते सोवही धम्मो देसिअव्वोत्तिकट्ठ तित्यधम्मयाए एसाऽणुधम्मिगत्ति एगं देवदूसमायाए पव्वइंसुवा पव्वयंति वा पव्व इस्सन्तिव"त्ति, अपि च
'गरीयस्त्वात्सचेलस्य, धर्मास्यान्यैस्तथागतैः ।
शिष्यस्य प्रत्ययाच्चैव, वस्त्रंदने न लज्जया॥" मू (२६७) चत्तारि साहिए मासे बहवे पाणजाइया आगम्म।
___ अभिरुज्झकायं विहरिंस. आरुसियाणंतत्थ हिंसिंस॥ वृ. इत्यादि।।तथा भगवतः प्रव्रजतो ये दिव्याः सुगन्धिपटवासा आसंस्तद्गन्धाकृष्टाश्च भ्रमरादयः समागत्य शरीरमुपतापयन्तीति, एतद्दर्शयितुमाह-चतुरः समधिकान् मासान् बहवः प्राणिजातयो-भ्रमरादिकाः समागत्य आरुह्य च 'कायं शरीरं' 'विजहुः' काये प्रविचारं चक्रुः:, तथामांसशोणितार्थितयाऽऽरुह्य तत्र काये णमितिवाक्यालसरे, हिंसिंसुइतश्चेतश्चविलुम्पन्ति स्मेत्यर्थः॥ मू. (२६८) संवच्छरं साहियं मासंजंन रिक्कासि वत्यगंभगवं।
अचेलए तओ चेइ तं वोसिज्ज वत्थमनगारे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org