SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ ३०६ आचाराङ्ग सूत्रम् 9/-1९/-/- [नि. २८३] स्थितिकण्डकसहेषुगतेषुसत्सुपरभविकनाम्नांचरमसमये त्रिंशतो नामप्रकृतीनांबन्धव्यवच्छेदं विद्यते, ताश्चेमाः-देवगतिस्तदानुपूर्वी पञ्चेन्द्रियजातिक्रियाहारकशरीरतदङ्गोपाङ्गानि तैजसकार्मणशरीरेचतुरनसंस्थानं वर्णगन्धरसस्पर्शागुरुलघूपघातपराघातोच्छ्वासप्रशस्तविहायोगतित्रसबाद रपर्यायप्तकप्रत्येकस्थिरमशुभसुभगसुस्वरादेयनिर्माणतीर्थकरनामान चेति, ततोऽपूर्वकरणचरमसमये हास्यरतिभयजुगुप्सानां बन्धव्यवच्छेदः, हास्यादिषट्कस्य तूदयव्यवच्छेदश्च, सर्वकर्मणामप्रशस्तोपशमनानिधत्तनिकाचनाकरणानि च व्यवच्छिद्यन्ते, तदेवमसंयतसम्यग्दृष्टयादिष्वपूर्वकरणान्तेषु सप्त कण्युिपशान्तानि लभ्यन्ते, तत ऊध्वमनिवृत्तिकरणं, सच नवमोगुणः, तत्रव्यवस्थित एकविंशतीनां मोहप्रकृतीनामन्तरं कृत्वा नपुंसकवदमुपशमयति, तदनन्तरंस्त्रीवेदं, ततोहास्यादिषट्कं,पुनः पुंवेदस्यबन्धोदयव्यवच्छेदः, तत ऊर्ध्वं समयोनावलिकाद्वयेन पुंवेदोपशमः, ततः क्रोधद्वयस्य पुनः सञ्जवलनक्रोधस्यैवं मानत्रिकस्यमायात्रिकस्यचततः सञ्जवलनलोभंसूक्ष्मखण्डानि विधत्ते, तत्करणकालचरमसमये लोभद्वयमुपशमयति, एवं चानिवृत्तिकरणान्ते सप्तविंशतिरुपशान्ता भवति, ततः सूक्ष्मखण्डान्यनुभवन् सूक्ष्मसम्परायो भवति, ___ तदन्ते ज्ञानान्तरायदशकदर्शनावरणचतुष्कयशःकीर्युच्चैौत्राणां बन्धव्यवच्छेदः, तदेवमष्टाविंशतिमोहप्रकृत्युपशमे सत्युपशान्तवीतरागो भवति, स च जघन्यत एकं समयमुत्कृष्टतोऽन्तर्मुहूर्तत, तत्प्रतिपातश्च भवक्षयेणाद्धाक्षयेण वा स्यात्, स च यथाऽऽरूढो बन्धादिव्यच्छेदं च यथा कृतवांस्तथैव प्रतिपतन्विधत्ते, कश्चिच्च मिथ्यात्वमपि गच्छेदिति, यस्तु भवक्षयेण प्रतिपतति तस्य प्रथमसमय एव सर्वकरणानि प्रवर्तन्ते, एकभव एव कश्चिद् वारद्वयमुपशमं विदध्यादिति। साम्प्रतंक्षपक श्रेणियावर्ण्यते-अस्याश्चमनुष्य एवाष्टवर्षोपरिवर्त्तमान आरम्भको भवति, सच प्रथममेव करणत्रयपूर्वकमनन्तानुबन्धिनोविसंयोजयति, ततःकरणत्रयपूर्वकमेव मिथ्यात्वं तच्छेषंचसम्यग्मिथ्यात्वे प्रक्षिपन्क्षपयति, एवंसम्यग्मिथ्यात्वं, नवरंतच्छेषं सम्यकत्वेप्रक्षिपति, एवं सम्यकत्वमपि, तच्चरमसमये च वेदकसम्यग्दृष्टिर्भवति, तत ऊर्ध्वं क्षायिकसम्यग्दृष्टिरिति, एताश्च सप्तापि कर्मप्रकृतीरसंयतसम्यग्दृष्ट्याद्यप्रमत्तान्ताः क्षपयन्ति, बद्धायुष्कश्चात्रैवावतिष्ठते, श्रेणिकवद्, अपरस्तुकषायाष्टकंक्षपयितुंकरणत्रयपूर्वकमारभते, तत्रयथाप्रवृत्तकरणमप्रमत्तस्यैव, अपूर्वकरणे तु स्थितिघातादिकं प्राग्वन्निद्राद्विकस्य देवगत्यादीनां च त्रिंशतां हास्यादिचतुष्कस्य (च) यथाक्रमंबन्धव्यवच्छेद उपशमश्रेणिक्रमेण वक्तव्यः, अनिवृत्तिकरणेतुस्त्यानद्धित्रिकस्य नरकतिर्यग्गतितदानुपूर्वेकेन्द्रियादिजातिचतुष्टयातपोद्योतस्थावरसूक्ष्मसाधारणानांषोडशप्रकृतीनां क्षयः, ततः कषायाष्टकस्यापि, अन्येषां तु मतं-पूर्वं कषायाष्टकं क्षप्यते, पश्चात् षोडशेति, ततो नपुंसकवेदं, तदनन्तरं हास्यादिषट्कं, पुनः पुंवेदं, ततः क्रमेण क्रोधादीन् सञ्जवलनान् क्षपयति, लोभं च खण्डशः कृत्वा क्षपयति, तत्र बादरखण्डानिक्षपयन्ननिवृत्तिबादरः सूक्ष्मानितु सूक्ष्मसम्पराय इति, तदन्ते चज्ञानावरणीयादीनांषोडशप्रकृतीनांबन्धव्यवच्छेदं विधत्ते, ततः क्षीणमोहोऽन्तर्मुहूर्तस्थित्वा तदन्ते द्विचरमसमये निद्राद्वयं क्षपयति, अन्तसमये च ज्ञानान्तरायदशकदर्शनावरणचतुष्कं च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy