________________
३००
आचाराङ्गसूत्रम् H८/८/२५७
उत्क्रामयेत्, पापोपादानादात्मानंनिवर्तयेदितियावत्, तत्रचधृतिसंहननाद्युपेतोऽप्रतिकर्मशरीरः प्रवर्धमानशुभाध्यवसायकण्डकोऽपूर्वापूर्वपरिणामारोही सर्वज्ञप्रणीतागमानुसारेण पदार्थस्वरूपनिरूपणाहितमतिः अन्यदिदं शरीरं त्याज्यमित्येवंकृताध्यवसायः सर्वान् स्पर्शान् दुःखविशेषाननुकूलप्रतिकूलोपसर्गपरीषहापादितान् तथा वातपित्तश्लेष्मद्वन्द्वैतरप्रोमूतान् कर्मक्षयायोद्यतो मयैवैतदवद्यं कृतं सोढव्यंचेत्येतदध्यवसायी अध्यासयेद्-अधिसहेत,
__ यतो यन्मया त्यक्तं शरीरमेतदेवोपद्रवन्ति न पुनर्जिधृक्षितं धर्माचरणमित्याकलय्य सर्वपीडासहिष्णुर्भवेदितिमू. (२५८) अयंचाययतरे सिया, जो एवमनुपालए।
सव्वगायनिरोहेऽवि, ठाणाता नवि उब्ममे ।। वृ.गत इङ्गितमरणाधिकारः, साम्प्रतं पादपोपगमनमाश्रित्याह-अनन्तरमभिधास्यमानत्वाद्योऽयं प्रत्यक्षो मरणविधिः, स चाऽऽयततरो, न केवलं भक्तपरिज्ञाया इङ्गितमरणविधिरायततरः, अयं च तस्मादायततर इति चशब्दार्थः, आयततर इत्याङ्मिविधौ सामस्त्येन यतआयतः,अयमनयोरतिशयेनायतआयततरः,यदिवाऽयमनयोरतिशयेनात्तो-गृहीतआत्ततरः, यलेनाध्यवसित इत्यर्थः, तदेवमयं पादपोपगमनमरणविधिरात्ततरो-दृढतरः स्याद्मवेत्
अत्रापि यदिङ्गितमरणेप्रव्रज्यासलेखनादिकमुक्तं तत्सर्वं द्रष्टव्यमिति, यद्यसावायततरः ततः किमितिदर्शयति-योभिक्षुः एवम् उक्तविधिनैवपादपोपगमनविधिमनुपालयेत् सर्वगात्रनिरोधेऽपि' उत्तप्यमानकायोऽपि मूर्च्छन्नपिमरणसमुद्घातगतोवा भक्ष्यमाणमांसशोणितोऽपि क्रोष्टुगृद्धपिपीलिकादिभिर्महासत्त्वतयाऽऽशंसितमहाफलविशेषः संस्तस्मात्स्थानात्-प्रदेशात् द्रव्यतो भावतोऽपिशुभाध्यवसायस्थानान्न व्युझमेत्-न स्थानान्तरंयायात्। मू. (२५९) अयं से उत्तमे धम्मे, पुवट्ठाणस्स पग्गहे।
____ अचिरंपडिलेहित्ता, विहरे चिट्ठ माहणे॥ वृ.किंच-'अय' मित्यन्तःकरणमनिष्पन्नत्वात्प्रत्यक्ष उत्तमः'प्रधानोमरणविधिः सर्वोत्तरत्वाद्धर्मो-विशेषः पादपोपगमनरूपो मरणविशेष इति, उत्तमत्वे कारणं दर्शयति-'पूर्वस्थानस्य प्रग्रह' इति पञ्चम्यर्थेषष्ठी पूर्वस्थानाद्मक्तपरिजेङ्गितमरणरूपाप्रकर्षेण ग्रहोऽत्रपादपोपगमने, प्रगृहीततरमेतदित्यर्थः, तथाहि-अत्र यदिङ्गितमरणानुमतं कायपरिस्पन्दनं तदपि निषेध्यते अच्छिन्नमूलपादपवनिश्चेष्टो निष्क्रियो दह्यामानश्छिद्यमानो वा विषमपतितो वा तथैवास्ते न तस्मात्स्थानाच्चलति, चिलातपुत्रवत,।
एतदेवदर्शयति-अचिरंस्थानं, तच्चस्थण्डिलं तत्पूर्वविधिनाप्रत्युपेक्ष्यतस्मिन्प्रत्युपेक्षिते स्थण्डिले विहरेदिति, अत्र पादपोपगमनाधिकाराद्विहरणं तद्विधिपालनमुक्तं, तच्च स्थानात्स्थानान्तरसंक्रमणम्, एतदेव च दर्शयति-तिछेत् सर्वगात्रनिरोधेऽपि, स्थानान्तरासङक्रमणं कुर्यादित्यर्थः, कोऽसौ?-'माहणेत्तिसाधुः,सहि निषण्णोनिषण्णऊर्ध्वंस्थितोवानिष्प्रतिका यद्यथानि-क्षिप्तमङ्गमचेतन इव नचालयेदितियावत् एतदेव प्रकारान्तरेण दर्शयितुमाहमू. (२६०) अचित्तंतुसमासज्ज, ठावए तत्य अप्पगं।
वोसिरे सव्वसो कायं, न मे देहे परीसहा॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org