________________
२९९
ठाणे
श्रुतस्कन्धः-१, अध्ययनं- ८, उद्देशक:८ मू. (२५४) अभिक्कमे पडिक्कमे, संकुचए पसारए।
कायसाहारणट्ठाए, इत्थं वावि अचेयणे वृ.एतद्दर्शयितुमाह-प्रज्ञापकापेक्षयाऽभिमुखंक्रमणभिक्रमणं, संस्तारकाद्गमनमित्यर्थः, तथा प्रतीपं-पश्चादभिमुखं क्रमणं प्रतिक्रमणमागमनमित्यर्थः, नियतदेशे गमनागमने कुर्यादितियावत्, तथा निष्पन्नो निष्ण्णो वा यथासमाधानं भुजादिकं सङ्कोचयेप्रसारयेद्वा, किमर्थमेतदिति चेद्दर्शयति
कायस्य-शरीरस्य प्रकृतिपेलवस्यसाधारणार्थं, कायसाधारणाचतत्पीडाकृतायुष्कोपक्रमपरिहारेण स्वायुःस्थितिक्षयान्मरणं यथा स्यात्, न पुनस्तेषां महासत्त्वतया शरीरपीडोत्थापितचित्तस्यान्यथाभावः स्यादिति भावः, ननु च निरुद्धसमस्तकायचेष्टस्य शुष्ककाष्ठवदचेतनतयापतितस्य प्रचुरतपुण्यप्राग्भारोऽभिहितइति, नायं नियमः, संविशुद्धाध्यवसायतया यथाशक्त्यारोपितभारनिर्वाहिणः तत्तुल्य एव कर्मक्षयः अत्राप्यसौ वाशब्दात्तत्र पादपोपगमनेऽचेतनवत्सक्रियोऽपि निष्क्रिय एव, यदिवा 'अत्रापि' इङ्गितमरणेऽचेतनवच्छुष्ककाष्ठवत्सर्वक्रियारहितो यथा पादपोपगमने तथा सति सामर्थ्य तिष्ठेद् । मू. (२५५) परिक्कमे परिकिलन्ते, अदुवा चिट्टे अहायए।
ठाणे ण परिकिलन्ते, निसीइजा य अंतसो वृ.एतत्सामर्थ्यावभा चैतत्कुर्यादित्याह-यदि निषण्णस्यानिषण्णस्य वा गात्रभङ्गः स्यात्, ततः परिक्रामेत्-चक्रम्याद् यथानियमिते देशेऽकुटिलया गत्या गतागतानि कुर्यात्, तेनापि श्रान्तः सन् अथवोपविष्टस्तिष्ठेत, 'यथायतो' यथाप्रणिहितगात्र इति, यदा पुनः स्थानेनापि परिक्लममियात् तद्यथा-निषण्णो वा पर्यङ्केण वा अर्द्धपर्यङ्केण वोत्कुटुकासनो वा परिताम्यति तदा निषण्णः स्यात्, तत्राप्युत्तानको वा पार्श्वशायी वा दण्डायतो वा लगण्डशायी वा यथा समाधानमवतिष्ठेत्॥किंचमू. (२५६) आसीणेऽनेलिसं मरणं, इन्दियाणि समीरए।
कोलावासं समासज्ज, वितहं पाउरे सए॥ वृ. 'आसीनः' आश्रितः किं तत् ? -मरणम्, किंभूतम्?–'अनीशम्' अनन्यसशमितरजनदुरध्यवसेयम्, तथाभूतश्च किं कुर्यादिति दर्शयति-इन्द्रियाणीष्टानिष्टस्वविषयेभ्यः सकाशाद्रागद्वेषाकरणतया सम्यगीरयेत्-प्रेरयेदिति, कोलाधुणकीटकास्तेषामावासः कोलावासस्तमन्तधुणक्षतमुद्देहिकानिचितं वा 'समासाद्य लब्ध्वा तस्माद्यद्वितथम्-आगन्तुकतदुत्थजन्तुरहितमवष्टम्भनाय प्रादुरेषयेत्-प्ररकटं प्रत्युपेक्षणयोग्यमशुषिरमन्वेषयेत् । मू. (२५७) जओ वजं समुप्पजे, न तत्थ अवलम्बए।
तउ उक्कसे अप्पाणं, फासे तत्थऽहियासए॥ वृ. इङ्गितमरणे चोदनामभिधाय यनिवेध्यं तद्दर्शयितुमाह-'यतो' यस्मादनुष्ठानादवष्टम्भनादेर्वज्रवद्वजं-गुरुत्वात्कर्म अवद्यं वा-पापं वा तत्समुत्पद्येत प्रादुष्प्यात्, न तत्र धुणक्षतकाष्ठादाववलम्बेत-नावष्टम्भनादिकांक्रियांकुर्यात्, तथा ततः तस्मादुत्क्षेपणापक्षेपणादेः काययोगा(प्रणिहितवाग्योगादातध्यानादिमनोयोगाचावद्यसमुत्पत्तिहेतोरात्मनमुत्कर्षेद्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org