________________
श्रुतस्कन्धः - १, अध्ययनं - ८, उद्देशक३८
३०१
वृ. न विद्यते चित्तमस्मित्रित्यचित्तम्- अचेतनं जीवरहिमित्यर्थः, तच्च स्थण्डिलं फलकादि वा 'समासाद्य' लब्ध्वा फलकेऽपि समर्थः कश्चित्काष्ठे वाऽवष्टभ्य तत्रात्मानं स्थापयेत्, व्यवस्थाप्य च त्यक्तचतुर्विधाहारो मेरुरिव निष्प्रकम्पः कृतालोचनादिपरिकर्म्मा गुरुभिरनुज्ञातो व्युत्सृजेत्, 'सर्वशः' सर्वात्मना 'कार्य' देहं व्युत्सृष्टदेहस्य च यदि केचन परीषहोपसर्गाः स्युस्ततो भावयेत्
'न मे देहे परीषहाः' मत्सम्बन्धी देह एव न भवति, परित्यक्तत्वात्, तदभावे कुतः परीषहाः ?, यदिवा न मम देहे परीषहाः, सम्यक्करणेन सहमानस्य तत्कृतपीडयोद्वेगाभावात्, अतः परीषहान्कर्म्मशत्रुजयसहायानितिकृत्वाऽपरीषहानेव मन्यते ।
मू. (२६१)
जावज्जीवं परीसहा, उवसग्गा य संखाय ।
संवुडे देहभेयाए, इय पत्रेऽहियासए ॥
वृ. ते पुनः कियन्तं कालं सोढव्या इत्याशङ्काव्युदासार्थमाह- 'यावज्जीवं' यावत्प्राणधारणं तावत्परीषहा उपसर्गाश्च सोढव्या इत्येतत् 'सङ्ख्याय' ज्ञात्वा तानध्यासयेदिति, यदि वा न मे यावज्जीवं परीषहोपसर्गाइत्येतत्सङ्ख्याय - ज्ञात्वाऽधिसहेत्, यदिवा यावज्जीवमिति यावदेव जीवितं तावत्परीषहोपसर्गजनिता पीडेति, तत्पुनः कतिपयनिमेषाऽवस्थायि एतदवस्थस्य ममात्यन्तमल्पमेवेत्यत एतत्सङ्ख्याय-ज्ञात्वा संवृतो यथानिक्षिप्तत्यक्तगात्रो 'देहभेदाय' शरीरत्यागायोत्थित इतिकृत्वा 'प्राज्ञः' उचितविधानवेदी, यद्यत्कायपीडाकार्युपतिष्ठते तत्तत्सम्यगधिसहेत । मू. (२६२) भेउरेसु न रज्जिज्जा, कामेसु बहुतरेसुवि । इच्छा लोभं न सेविज्जा, धुववन्नं सपेहिया ॥
वृ. एवंभूतं च साधुमुपलभ्य कश्चिद्राजादिर्भौगैरुपनिमन्त्रयेत्, तत्प्रतिविधानार्थमाहभेदनशीला भिदुराः- शब्दादयः कामगुणास्तेषु प्रभूततरेष्वपि 'न रज्येत्' न रागं रायात्, पाठान्तरं वा 'कामेसु बहुलेसुवि' इच्छामदनरूपेषु कामेषु बहुलेषु - अनल्पेष्वपीत्यर्थः, यद्यपि राजा राज्यकन्यादानादिनोपप्रलोभयेत् तथापि तत्र न गार्घ्यमियात्, तथा इच्छारूपो लोभ इच्छालोभःचक्रवर्तीन्द्रत्वाद्यभिलाषादिको निदानविशेषस्तमसौ निर्जरापेक्षी न सेवेत, सुरर्द्धिदर्शनमोहितो बह्मदत्तवन्निदानं न कुर्यादित्यर्थः,
तथा चागमः-'इहलोगासंसप्पओगे १ परलोगासंसप्पओगे २ जीवियासंसप्पयोगे ३ मरणासंसप्पयोगे ४ कामभोगासंसप्पयोगे ५ इत्यादि, 'वर्णः 'संयमो मोक्षो वास चसूक्ष्मो दुर्ज्ञेयत्वात्, पाठान्तरं वा 'धुववत्रमित्यादि, ध्रुवः - अव्यभिचारी स चासौ वर्णश्च ध्रुववर्णस्तं संप्रेक्ष्य ध्रुवां वा शाश्वती यशःकीर्तिं पर्यालोच्य कामेच्छालोभविक्षेपं कुर्यादिति ।
यू. (२६३)
सासएहिं निमन्तिज्जा, दिव्व मायं न सद्दहे । तं बुज्झमाणे, सव्वं नूमं विहूणिया ॥
वृ. किं च - शाश्वता यावज्जीवमपरिक्षयाप्रतिदिनदानादाऽर्थास्तैस्तथाभूतैर्विभवैः कश्चिन्मन्त्रयेत् तत्प्रतिबुध्यस्व यथा शरीरार्थं धनं मृग्यते तदेव शरीरमशाश्वतमिति, तथा दिव्यां मायां न श्रद्दधीत, तद्यथा
यदिकश्चिदेवोमीमांसया प्रत्यनीकतया वा भक्त्या वाऽन्यथा वा कौतुकादिना नानर्द्धिदानतो निमन्त्रयेत्, तां च तत्कृतां मायां न श्रद्दधीत, तथा बुध्यस्व यथा देवमायैषा, अन्यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
-